Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुलपतिश्च तद्विप्लवभयात् पद्ममूचे-'यत्राऽचालीस्तत्र गच्छ, तुभ्यं स्वस्ति' । ततः पद्मो दध्यौ-'युगपद् द्वौ चक्रिणौ च भवतः, अहमेवेह चक्री भावी, तदसौ ममैव पत्नी' । एवं निश्चित्य स तापसाश्रमाद् निर्गत्य पर्यटन् सिन्धुसदनं नाम पत्तनमगात् । तदा च पौरनार्यो मधूत्सवे कामवशंवदा उद्याने विविधं चिक्रीडुः । तत्केलितुमुलं श्रुत्वा च क्षुब्धः करी महासेनमहीपते: स्तम्भमुन्मूलयामास । तथाऽऽरोहको निपात्य प्रतीकारमवगणय्य झगिति पौरनारीनिकषा समाययौ । ताश्च नार्योऽतिसाध्वसात् पलायितुमशक्तास्तत्रैव तस्थुस्तारतारं चुक्रुशुश्च । ततः स पद्मस्ताः प्रेक्ष्य सानुक्रोशंस्तमभिधाव्य गजं ततर्ज । तेन क्रुद्धो गज: पद्माभिमुखं ववले । ततश्च ताः स्त्रियोऽस्मद्रक्षाकृते कोऽपि महात्माऽऽत्मानं करिणः पुरोऽक्षिपदिति चुक्रुशुः । पद्मश्च क्षणेन समीपमागतस्य मत्तगजस्य सम्मुखमूर्ध्ववस्त्रमुदक्षिपत् । गजश्च कुमारबुद्ध्या तद्वासो मुहुविदारयामास ।
तदानीमेव च नागरा: सामन्तादिपरिवृतो नृपश्च महासेनस्तत्र तुमुलेनाऽमिलन् । महासेनश्चा-'ऽकालमृत्युतुल्येनाऽनेन क्रोधितेन गजेनाऽलमि'ति त्वमपसरैति पद्ममुवाच । पद्मश्चोवाच-'त्वया युक्तमुक्तं, किन्त्वारब्धस्य त्यागो मे परं व्रीडाकरम् । त्वमिमं मत्तगजं मया बध्यमानं वशीकृतं पश्य, सौजन्यकातरो मा भू:' । एवमुक्त्वा कुमारेण मुष्टिना वस्त्रविदारणायाऽधोमुखो गजस्ताडितो यावत् कुमारग्रहणायोत्तस्थौ, तावद् विद्युद्गत्या स पद्मस्तमारुरोह । तथा मण्डूकासनादिभिरग्रतः पार्श्वतश्चाऽपि विचरंस्तमखेदयत् । तथा कुम्भदेशे चपेटाभिः कण्ठेऽङ्गष्ठतारणैः पृष्ठे पादन्यासेन च स गज: पद्मनाऽऽकुलीकृतः । स पद्मः साधु साध्विति वादिभिः पौरैः
षष्ठं पर्व - अष्टमः सर्गः सविस्मयं वीक्ष्यमाणो नृपेण बन्धुबुद्ध्या वर्ण्यमानस्तं गजं स्वैरं क्रीडां कारयन् भ्रमयामास । तथाऽपरस्मा आरोहकाय समर्प्य कक्षा गृहीत्वा ततोऽवातरत् । ततो महासेनस्तं विक्रम-रूपाभ्यां कुलीन इति वितयं निजवेश्मनि निन्ये । तथा निजं कन्याशतं तेन परिणिन्ये । ताभिश्च समं भोगान् भुञ्जानस्याऽपि तस्य पद्मस्य मदनावल्याः स्मरणं नित्यमेवाऽभवत् ।
अन्यदा च निशि पर्यङ्के सुप्तः स पद्मो विद्याधर्या वेगवत्या वायुवेगयाऽपजहे । निद्राच्छेदे च 'क्षुद्रे ! किं मां हरसे' ? इति ब्रुवन् मुष्टिमुत्पाटयामास । ततः सोचे-'मा कुपः, श्रृणु, वैताढ्यपर्वते सूरोदयपुरे इन्द्रधनुर्नाम विद्याधरः, श्रीकान्ता नाम तत्पत्नी, जयचन्द्रा नाम तत्सुता च सन्ति । सा च जयचन्द्राऽनुरूपवराप्राप्त्या पुरुषद्वेषिणी जाता । तस्यै च नृपाणां रूपाणि पटेष्वालिख्य मया दर्शितानि, परन्तु तस्यै न किमप्यरुचत्। अन्यदा च पटे त्वद्रूपं मया लिखितं दृष्ट्वा सा कामवशंवदा जाता, सेदानीं त्वां प्राणप्रियं मन्यते । सा हि 'मे पद्मः पतिर्भवतु, अन्यथा मम मरणं शरणमि'ति प्रतिज्ञामकरोत् । पितृभ्यां च मया कृत्वा तस्यास्त्वय्यनुरागं ज्ञात्वा त्वदानयनहेतवेऽहमादिष्टाऽस्मि । वेगवती चाऽहमद्यैव तमानयिष्यामि, वह्निप्रवेशं मा कुर्विति तामाश्वास्य त्वां नयामि । ततो मा कुप:'।
ततः पद्मनाऽनुज्ञाता सा तं सूरोदयपुरेऽनयत् । प्रभाते चेन्द्रधनुनृपेण पूजितश्चन्द्रो रोहिणीमिव स जयचन्द्रामुपायंस्त । ततो जयचन्द्रामातुलेयौ गङ्गाधर-महीधरौ विद्याधरौ तद्विवाहं समाकर्ण्य कुपितौ सर्वाभिसारेण सूरोदयपुरे पद्मन योद्धं समाययतुः ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129