Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नमुचिना यदि वो धर्मशुश्रूषा, तमुहमेव वक्ष्ये इत्युक्तोऽवश्यं गमिष्यामीत्युक्तवान् नृपः । 'स्वामिना मध्यस्थवृत्तिना स्थेयम्, अहं तान् वादे जेष्यामी'ति मन्त्र्यूचे' । ततो नृपः सपरिवारस्तत्र ययौ ।
तत्र च ते मुनिभ्यो धर्मं पप्रच्छुः । ते मुनयश्च तेषां विविधोक्तिभिौनेनैव तस्थुः । ततः क्रुद्धो नमुचिराहतं शासनं निन्दयामास। तत: कस्मिंश्चिन्मुनौ तत्प्रतिवादायोद्यते स नमुचि रशौचा: पाखण्डिनत्रयीबाह्याश्च यूयं स्वमण्डले संवासयितुं न युक्ता' इति स्वपक्षमस्थापयत् । ___ततो मुनिरुवाच-'सुरतमशौचं विदुः, तत्सेवकश्च पाखण्डी, स एव च त्रयीबाह्यः । यत 'उदकुम्भः कण्डनी पेषणी चुल्ली प्रमार्जनी चेति पञ्च सूना गेहिनां पापायेति त्रय्यामर्थः । अतो ये इमा: सूना: सेवन्ते त एव त्रयीबाह्याः । वयं सूनापञ्चकहीना न नाम त्रयीबाह्याः' । एवं तेन मुनिना सयुक्तिकं निरस्तः स मन्त्री राजा पौरजनश्च स्वं स्वं स्थानं ययुः । निशि च नमुचिरुत्थाय क्रुद्धो निशाचर इव तन्मुनिवधाय समायातः शासनदेव्या स्तम्भितः प्रभाते विस्मितैर्जनैर्ददृशे । नृपादयश्च धर्मं श्रुत्वोपाशाम्यन् । नमुचिश्च तदपमानात् तन्नगरं त्यक्त्वा हस्तिनापुरमगात् । महापद्मश्च तं स्वसाचिव्ये चकार ।
इतश्च प्रान्तवास्तव्यो दुर्गस्थोऽतिबली सिंहबलो नाम नृपो महापद्मस्य मण्डलमवस्कन्दमवस्कन्दं पुन: स्वं दुर्गं प्राविशत् । तं धर्तुं कोऽपि क्षमो न बभूव । ततः क्रुद्धो महापद्मो नमुचिमन्त्रिणमूचे-'सिंहबलग्रहे क्वचित् कञ्चिदुपायं वेत्सि ?' ततः स उवाच-'देव ! वेद्मीति वचः कथमहं वच्मि, गृहे वदतां हि गेहेनर्दीत्यपवादः सुलभः, अत उपायं कृत्वा फलेनैव तं दर्शयामि,
षष्ठं पर्व - अष्टमः सर्गः वचसोपायं वक्तुं कातरा अपि पण्डिता भवन्ति' । ततो हृष्टचित्तेन महापद्मनाऽऽदिष्टः स वायुरिवाऽप्रतिहत: सिंहबलस्य दुर्गं गत्वा तीक्ष्णोपायस्तदुर्गं भङ्क्त्वा सिंहबलं च सिंहो मृगमिवाऽऽदाय महापद्ममुपाययौ । ततो वरं वृणीष्वेति महापद्मनाऽभिहित: स समये वरमादास्य इत्यवोचत् । एवं कृतार्थः स महापद्मो नमुचिना कृतसाचिव्यं यौवराज्यमपालयत् ।
अथ महापद्ममात्रा ज्वालयाऽर्हत्प्रतिमारथोऽकारि, मिथ्यादृष्ट्या सपत्नीमात्रा लक्ष्म्यभिधानया तद्विरुद्धविधित्सया ब्रह्मरथोऽकार्यत । तथा तयाऽयं ब्रह्मरथः पूर्वं पत्तने भ्रमतु, पश्चादर्हद्रथ इति भूपतिरयाच्यत । ततो ज्वालोचे-'यद्यर्हद्रथः प्राक् पत्तने यात्रां न करिष्यति, तदा ममाऽनशनं भावि' । ततश्च संशयापन्नो नृप उभयो रथयोर्यात्रामरुणत् । तथा मातृदुःखेनाऽतिपीडित: स नृपो निशि लोकेषु सुप्तेषु हस्तिनापुराद् निर्गत्य स्वैरमुन्मुखो गच्छन्नेकां महाटवीं प्राप्य तत्र पर्यटन्नेकं तापसाश्रममपश्यत् । तापसैः कृतसत्कारः स नृपः स्ववेश्मवत् तत्र तस्थौ ।
इतश्च चम्पापुर्यां नृपो जनमेजयः कालनरेन्द्रेण रुद्धो युयुधे मृतश्च । ततस्तस्मिन् पुरे भज्यमानेऽन्तःपुरस्त्रियो नेशुः । चम्पेशस्य प्रिया नागवती च स्वसुतया मदनावल्या सह प्रणष्ट्वा तत्तापसाश्रममगात् । तत्र च महापद्म-मदनावल्योरन्योन्यदर्शनमनुरागश्च जज्ञे । ततो जातानुरागां ज्ञात्वा जनन्यवोचत-'पुत्रि ! चापलं मा कार्षीः, नैमित्तिकवच: स्मर, त्वं चक्रिण: पत्नी भविष्यसीति पुरा नैमित्तिकेनाऽऽख्यातम् । ततो यत्र तत्राऽपि पुरुषेऽनुरागं मा कृथाः । संयता तिष्ठ, त्वां चक्री परिणेष्यति' ।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129