Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कीर्तिधवलाय ददौ । तां कीर्तिधवलेनोढां श्रुत्वा पुष्पोत्तरनृपोऽतीन्द्रेण श्रीकण्ठेन च सह वैरायते स्म ।
___ एकदा च मेरोनिवृत्तेन श्रीकण्ठेन पुष्योत्तरस्य दुहिता रूपतः पद्मव पद्मा ददृशे । अन्योन्यदर्शनाच्च तयोः सद्य एवाऽन्योन्यमनुरागोऽभूत् । सा पद्मा श्रीकण्ठायोन्मुखाम्बुजा स्निग्धया दृशा तिष्ठते स्म । श्रीकण्ठश्चाऽपि तदभिप्रायं विज्ञाय कामातुरस्तामादाय व्योममार्गेण द्रुतं गन्तुं प्रववृते । ततश्चेटिकाः 'कोऽपि पद्मां हरती'ति पूत्कुर्वन्ति स्म । पुष्योत्तरश्च तज्ज्ञात्वा सन्ना सबलोऽन्वधावत् । ततः श्रीकण्ठो द्रुतं कीर्तिधवलं शरणं गत्वा सर्वं पद्माहरणवृत्तान्तं कथयामास । पुष्पोत्तरश्च सैन्यैस्तत्र प्राप्त: कीर्तिधवलेन दूतेन 'वोऽयमविमृश्य युद्धप्रयासो वृथा, कन्या ह्यवश्यं कस्मैचन दातव्या, तत्र यदि तयाऽसौ श्रीकण्ठः स्वयं वृतस्तदाऽसौ नाऽपराध्यति । अत: स्वपुत्रीमनो बुध्वा भवतो वधू-वरयोविवाहकृत्यमेव कर्तुं साम्प्रतमिति निवेदितः । पद्माऽपि दूतीमुखेन 'मया स्वयमसौ वृतः, तदसौ नाऽपराध्यति, नाऽमुनाऽहं हते'ति व्यजिज्ञपत् । तच्छ्रुत्वा च क्षणाच्छान्तकोपः पुष्योत्तरस्तत्रैवोत्सवेन महीयसा तयोविवाह सम्पाद्य यथागतं निजपुरं ययौ ।
ततः कीर्तिधवलः श्रीकण्ठमवोचत्-'अत्रैव तिष्ठ, यद् वैताढ्ये युष्माकं भूयांसो विद्विषो वर्तन्ते । अस्यैव राक्षसद्वीपस्योत्तरदिशि योजनत्रिशतीमानोऽदूरेणैव वानरद्वीपोऽस्ति । अन्येऽपि बर्बरकूल-सिंहलप्रमुरवाः स्वर्गखण्डतुल्या मम द्वीपा: सन्ति । तेषामेकत्र कुत्राऽपि राजधानी निवेश्य मम समीपस्थः सुखमास्स्व । यद्यपि ते शत्रुभ्यो मनागपि भयं नाऽस्ति, तथाऽप्यस्मद्विरहभयाद् गन्तुं नाऽर्हसि' ।
सप्तमं पर्व - प्रथमः सर्गः
तेन सस्नेहमेवमुक्तः श्रीकण्ठस्तद्वियोगकातरो वानरद्वीपं निवासं प्रतिपद्य तत्र किष्किन्धाद्रौ किष्किन्धां नाम महापुरी निवेश्य कीर्तिधवलेन तद्राज्ये निवेशितस्तत्र भ्राम्यतो महादेहान् फलाशिनो रम्यान् भूयसो वानरानपश्यत् । ततश्च स तेषाममारिमाधोष्याऽन्न-पानाद्यदापयत् । यथा राजा तथा प्रति तानन्येऽपि सच्चक्रुः । तत्प्रभृति च कौतुकाद् विद्याधराश्चित्रे लेप्ये ध्वज-च्छत्रादिचिन्हेषु च वानरानेव चक्रुः । वानरद्वीपराज्येन वानरचिन्हैश्च ते विद्याधरा अपि वानराः कीर्त्यन्ते ।
अथ श्रीकण्ठस्याऽप्रतिहतपराक्रमो वज्रकण्ठो नाम सुतो जज्ञे । एकदा च श्रीश्रीकण्ठः शाश्वतार्हतां यात्रायै नन्दीश्वरं गच्छतोऽमरानद्राक्षीत् । ततः सोऽपि च भक्त्या तेषामन्वचालीत् । तस्य च गच्छतो विमानं मानुषोत्तरे मार्गस्थपर्वते नदीवेग इव स्खलितम् । ततो 'मया पूर्वजन्मन्यल्पं तपस्तेपे, तेन नन्दीश्वरार्हद्यात्रायां मम मनोरथो नाऽपूर्यते'ति निविण्णः सद्य एव प्रव्रज्य तीव्र तपस्तप्त्वा सिद्धि प्राप। ____ अथ श्रीकण्ठतो वज्रकण्ठादिष्वनेकशोऽतीतेषु मुनिसुव्रततीर्थे घनोदधिर्नाम नृपोऽभवत् । लङ्कापुर्यामपि तदा तडित्केशो राक्षसेश्वरोऽभूत् । तयोर्द्वयोश्च स्नेहो जज्ञे । एकदा च तडित्केशः सान्त:पुरवधूजनः क्रीडितुं नन्दनोद्यानं ययौ । तस्मिन् क्रीडासक्ते च कोऽपि कपिर्दुमादुत्तीर्य तन्महिष्या: श्रीचन्द्रायाः कुचौ नखैविलिलेख । ततोऽतिक्रुद्धस्तडित्केश एकेन बाणेन तं कपि जघान । बाणप्रहारपीडितश्च स कपिः किञ्चिद् गत्वैकस्य प्रतिमास्थस्य साधोरग्रे पपात । स साधुश्च तस्मै नमस्कारमन्त्रमदात् । यत्प्रभावेण मृत्वा सोऽब्धिकुमारोऽभवत् । अवधेश्च प्राग्जन्मोपकारिणं ज्ञात्वा

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129