Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भिग्रहपूर्वकं तीव्र तपस्तप्यमान: पद्मः उत्पन्नकेवलोऽव्ययं पदं प्राप ॥ ८॥
इति षष्ठे पर्वणि श्रीपद्मचक्रिचरितवर्णनात्मकोऽष्टमः सर्गः ॥ ८ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-कदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यात-कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे षष्ठे पर्वणि समाप्तं श्रीकुन्थुनाथादिचतुर्दशशलाकापुरुषचरितप्रतिबद्धं
षष्ठं पर्व ॥६॥
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः राम-लक्ष्मण-रावणचरितप्रतिबद्धं
सप्तमं पर्व
प्रथमः सर्गः अथाऽत्र भरते रक्षोद्वीपेऽर्हतोऽजितस्य काले लङ्कानगाँ रक्षोवंश्यो घनवाहनो नाम नृपो बभूव । स स्वपुत्राय महारक्षसे राज्यं दत्त्वाऽजितस्वामिपादान्ते परिव्रज्य शिवं ययौ । महारक्षा अपि चिरं राज्यं भुक्त्वा स्वपुत्राय देवरक्षसे राज्यं दत्वा प्रव्रज्य चाऽव्ययं पदं प्राप । एवमसङ्ख्यातेषु रक्षोद्वीपाधिपेषु गतेषु श्रेयांसजिनतीर्थे कीर्तिधवलो नाम राक्षसेश्वरो बभूव ।
तदानीं च वैताढ्यगिरौ मेघपुरे नगरेऽतीन्द्रो नाम विश्रुतो विद्याधरेन्द्रोऽभूत् । तस्य च श्रीमत्यां कान्तायां श्रीकण्ठो नाम पुत्रो देवीनाम्नी पुत्री चाऽभूत् । चारुनेत्रां तां च देवीं रलपुरेश्वरः पुष्पोत्तरो नाम विद्याधरः स्वपुत्रस्य पद्मोत्तरस्याऽर्थे ययाचे । अतीन्द्रश्च दैवनियोगात् गुणिने श्रीमते चाऽस्मा अदत्त्वा तां

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129