Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 38
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पद्मोऽपि रणदुर्मदो विद्याधरपरिवारैरन्वितो नगराद् निरगात् । तथा कांश्चित् त्रासयन्, कांश्चिद् निघ्नन्, कांश्चित् ताडयंश्च हरिर्द्विपानिव वैरिसैन्यानयोधयत् । ततः स्वसैन्यभङ्गमालोक्य तौ विद्याधरौ गङ्गाधर - महीधरौ जीवग्राहं प्रणेशतुः । ५४ ततश्चोत्पन्नचक्रादिरत्नः पद्मः षट्खण्डभरत क्षेत्रविजयं विधाय स्त्रीरत्नं मदनावलीं स्मरंस्तदाश्रमपदं ययौ । तापसैः कृतातिथ्यः पद्मो जनमेजयराजेन कन्यादानपूर्वकं मदनावलीं प्राप्य हस्तिनापुरमेत्य पितरौ ननाम । पितरौ च स्वसूनोश्चरितमाकर्ण्य सिक्तौ दुमाविव सोच्छ्वासावभूताम् । *** तदानीं च मुनिसुव्रतदीक्षितः सुव्रतो नाम मुनिर्विहरंस्तत्राss गत्य समवासरत् । पद्मोत्तरश्च सपरिवारो गत्वा नत्वा देशनां च शुश्राव । जातवैराग्यो गृहमागत्य विष्णुकुमारस्य परिव्रज्याजिघृक्षां ज्ञात्वा पद्मं राज्ये चक्रित्वाभिषेकेण सहाऽभिषिच्य निष्क्रमणोत्सवपूर्वकं सुव्रतमुनेर्विष्णुकुमारेण सह दीक्षामाददे । ततः पद्मोऽपि सर्वैर्जनैः पूज्यमानं मातृकमार्हतं रथं पुरेऽभमयत् । पदमोत्तरादिभिः सह सुव्रतसूरयोऽपि रथभ्रमणकालं यावत् तत्रैव तस्थुः । तथा पद्मचक्रिणा जिनशासनस्योन्नतिश्चक्रे । ग्राम- पुरादिषु कोटिश उच्चकैश्चैत्यानि कारयामास । पद्मोत्तरश्च गुरुभिः सार्धं विहृत्य व्रतं पालयित्वोत्पन्नकेवलः परमं पदं प्राप । विष्णुकुमारोऽपि चाऽद्भुतं तपस्तप्यमानोऽनेकलब्धिसम्पन्नो जात: । अन्यदा च सुव्रताचार्याः साधुभिः परिवारिता वर्षर्त्तुयापनाय हस्तिनापुरं समागत्य न्यवसन् । नमुचिमन्त्री चाऽऽचार्यागमनं श्रुत्वा प्राग्वैरप्रतियातनां चिकीर्षुर्महापद्मं व्यजिज्ञपत्- 'नृप ! प्राक्प्रतिपन्नो षष्ठं पर्व अष्टमः सर्गः मे वरो दीयताम्' । याचस्वेति तेनोक्तश्च 'यज्ञमहं करिष्यामि, तत्समाप्ति यावद् निजं राज्यं देही' त्युक्तवान् । नृपश्च सत्यप्रतिज्ञो नमुचिं राज्ये निवेश्याऽन्तःपुरं प्राविशत् । नमुचिश्च पुराद् निर्गत्य यज्ञमण्डपे दीक्षितोऽभवत् । तदा तस्याऽभिषेककल्याणं कर्तुं सर्वाः प्रजाः श्वेतभिक्षून् विना सर्वे साधवश्च समाययुः । सर्वे समागताः, किन्तु श्वेतभिक्षवो नाऽऽगता इति मात्सर्यात् स तच्छिद्रमग्रे चक्रे । तथा स गत्वा सुव्रताचार्यमब्रवीत् - 'यो यदा नृपस्तदा लिङ्गिनस्तं श्रयन्ति, राजरक्ष्याणि तपोवनानीति तपोधनै राजाभिगम्य: क्रियते तपः षष्ठांशभाक् च क्रियते, यूयं च मन्निन्दकाः पाखण्डिनो लोकराज्यविरुद्धाचाराः, तद्युष्माभिर्मे राज्ये न स्थातव्यम् । यः स्थास्यति स खलाशयो मे वध्यो भवेत्' । ततः सूरिरूचे- 'एष कल्पो नेति त्वय्यभिषिक्ते वयं न प्राप्ताः त्वां च किञ्चनाऽपि न निन्दामः' । ततः क्रुद्धः स पुनरुवाच- 'विस्तरैः कृतं, सप्ताहाधिकमत्र तिष्ठन्तो यूयं दस्युवद् मया निग्राह्याः' । एवमुक्त्वा स स्वं स्थानं जगाम । सूरिश्च मुनीनपृच्छत्- 'इह किं कर्त्तव्यमिति यथाशक्ति यथामति ब्रूत' । तत्रैकः साधुरूचे - 'विष्णुकुमारः षष्टिवर्षशतीं तपस्तप्तवान्, स सम्प्रति मन्दरेऽस्ति स च पद्मराजस्याऽग्रज इति तद्वचनादसौ शान्तिं यास्यति, यतः पद्मवत् सोऽपि नमुचेः स्वामी । ततो यो विद्यालब्धिमान् स साधुस्तमानेतुं प्रयातु । सङ्घकार्ये लब्ध्युपयोगो न दोषाय' । तत एकः साधुरुवाच- 'विहायसा तत्र गन्तुं शक्तोऽस्मि, न त्वागन्तुमिति यदत्र कृत्यं तद् ब्रूत' । ततस्त्वां विष्णुरेव समानेष्यतीति गुरुणोक्ते स तार्क्ष्यवदुत्पत्य विष्णुं प्राप्तवान् ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129