Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 42
________________ ६२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोऽभ्येत्य तं मुनि ववन्दे । तथा तत्राऽन्यानपि कपीन् तडित्केशभटैर्हन्यमानान् दृष्ट्वा कोपज्वलितो महाकपिरूपाण्यनेकशो विकृत्य तरु-शिलादिकं वर्षन् राक्षसानुपदुद्राव । तडित्केशश्च तं दिव्यप्रयोगं ज्ञात्वा पूजयित्वा 'कोऽसि, किमुपद्रवं करोषी'त्यपृच्छत् । ततोऽर्चया शान्तकोपोऽब्धिकुमारः स्ववधं नमस्कारप्रभावं च शशंस । ततो लङ्केशस्तेन देवेन सहैवोपेत्य तं मुनिमपृच्छत्स्वामिन् ! मम कपिना सह को वैरहेतुः ?' ततो मुनिराचख्यौ-'त्वं पुरा श्रावस्त्यां दत्तो नाम मन्त्रिपुत्रोऽभूः । एष च काश्यां लुब्धकः । त्वं चोपात्तप्रव्रज्यो वाराणसी गतोऽनेन दृष्टश्चाऽपशकुनमित्याहत्य निपातितः । ततस्त्वं माहेन्द्रकल्पे देवो भूत्वा ततश्च्युत्वेहाऽभवः । एषोऽपि नरकं भ्रान्त्वा कपिरभवत्, तदेतद् वैरकारणम्' । ततः स देवस्तं मुनि वन्दित्वा लकेशमनुज्ञाप्य च तिरोदधे । तडित्केशश्च तनये सुकेशे राज्यं न्यस्य प्रव्रज्य परमं पदं प्राप। घनोदधिरपि च किष्किन्धिनाम्नि पुत्रे राज्यमाधाय प्रव्रज्य शिवमाप। सप्तमं पर्व - प्रथमः सर्गः पशूनिवैतान् निहन्मि' । एवमुक्त्वा महावीर्यः स उत्थाय किष्किन्धिवधायाऽऽयुधमुदक्षिपत् । तत: किष्किन्धित: सुकेशाद्या विजयसिंहतश्चाऽन्ये विद्याधरा युद्धायोदतिष्ठन्त । ततश्च दारुणे युद्धे प्रवृत्ते किष्किन्ध्यनुजोऽन्धको बाणेन तरोः फलवद् विजयसिंहस्य शिरोऽपातयत् । ततः किष्किन्धिः श्रीमाला जयश्रियमिवाऽऽदायोत्पत्य किष्किन्धां ययौ । अशनिवेगश्च पुत्रवधोदन्तं श्रुत्वा वेगेन किष्किन्धिपर्वतं गत्वा किष्किन्धां नगरी सैन्यैरवेष्टयत् । ततो गुहाया: सिंहौ इवाऽन्धकेन सहितौ सुकेश-किष्किन्धी अपि निरीयतुः । तयोश्च तुमुले युद्धे प्रवृत्तेऽशनिवेगो रोषान्धोऽन्धकस्य विजयसिंहस्येव शिरोऽच्छिदत् । ततो वानरसैन्यानि सदैत्यानि दिशोदिशे दुद्रुवुः । लङ्का-किष्किन्धिनायकौ च सान्त:पुरपरिवारौ पाताललङ्कामीयतुः । अशनिवेगश्च सुतहन्तारं निहत्य शान्तकोपो निर्घातं नाम खेचरं लङ्काराज्ये निवेश्य निवृत्त्य स्वपुरं रथनूपुरमगात् । अन्यदा च जातवैराग्योऽशनिवेगः पुत्रे सहस्रारे राज्यं निवेश्य दीक्षामुपाददे । पाताललङ्कायां पुर्यां च सुकेशस्येन्द्राण्यां माली सुमाली मालवांश्च पुत्रा अभवन् । किष्किन्धेश्च श्रीमालायामादित्यरजारुक्षरजाच पुत्रावभूताम् । अपरेधुश्च किष्किन्धिः सुमेरौ शाश्वतार्हतां यात्रां कृत्वा निवृत्तो मधुपर्वतमद्राक्षीत् । तत्र च मनोरमे उद्याने रन्तुमनसा स तस्योपरि किष्किन्धपुरं विधाय सपरिवारो न्यवात्सीत् । सुकेशस्य पुत्राश्च राज्यमरिभिर्हतं श्रुत्वा क्रुधाऽग्नय इव प्रज्वलितास्त्रयोऽपि समागत्य लङ्कायां निर्घातं इतश्च वैताढ्यगिरौ रथनूपुरे पुरे तदानीमशनिवेगो नाम विद्याधरेन्द्रोऽभवत् । तस्य च विजयसिंह-विद्युद्वेगौ पुत्रावभूताम्। तत्रैव गिरौ चाऽऽदित्यपुरे मन्दिरमाली विद्याधरनृप आसीत् । तस्य कन्या श्रीमालाऽभूत् । तस्याः स्वयंवरे समाहूता विद्याधरेन्द्रा मञ्चेषूपाविशन् । श्रीमाली चाऽन्यविद्याधरान् विहाय किष्किन्धिकण्ठे वरमालां निचिक्षेप । ततः क्रुद्धो विजयसिंहोऽवोचत्-'एते दुर्नयकारिणो दस्यव इव पुरा निर्वासिताः, तत्केनाऽद्येहाऽऽनीता:?' तदद्याऽपुनरावृत्त्यै

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129