Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४७
षष्ठं पर्व - सप्तमः सर्गः सागरदत्तस्तच्छिक्षार्थं तदाचार्यमुखं प्रेक्षत । तस्मिंश्च तत्पापमुपेक्षमाणे सागरदत्तश्चिन्तयामास-'अहो ? निघृणा अमी, धिक् । इमे दारुणाशया गुरुबुद्ध्या कथं पूज्यन्ते ? इमे ह्यात्मानं यजमानं च दुर्गतौ पातयन्ति' । एवं विचिन्त्य स आग्रहात् तत्कर्म कृत्वाऽनासादित सम्यक्त्वोऽपि दान-शीलस्वभावत: कालेन विपद्य महारम्भाजितधनत्राणपरायणत्वादयं तव जात्योऽश्वोऽभूत् । तद्बोधायाऽहमिहाऽऽगमम् । प्राग्जन्मकारितजिनप्रतिमायाः प्रभावतोऽयं नो धर्मोपदेशं श्रुत्वा क्षणादपि सम्बुद्धः। भगवतैवमाख्याते नृपेण सोऽश्वः क्षमयित्वा स्वतन्त्रः कृतः । ततः प्रभृति लोके तद् भृगुकच्छपुरमश्वबोधाख्यं तीर्थं ख्यातमभूत् ।
४६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्तीर्थे च समुत्पन्ने चतुर्मुखस्त्र्यक्ष: श्वेतवर्णो जटी वृषास्यो दक्षिणैर्बाहुभिर्मातुलिङ्ग-गदा-बाण-शक्तिभृद् वामैश्च नकुला-ऽक्षधनु:-पशुधारिभिः शोभितो वरुणयक्षः, भद्रासनस्थिता गौरवर्णा दक्षिणाभ्यां बाहुभ्यां वरदा-ऽक्षसूत्रधरा वामाभ्यां च मातुलिङ्गशूलधरा नरदत्ता देवी च प्रभोः मुनिसुव्रतस्य शासनदेवते अभूताम्।
ताभ्यां सहितश्च प्रभुर्मेदिनी विहरन् भृगुकच्छे महापुरे समवासार्षीत् । तत्र च हयारूढो नृपो जितशत्रुरागत्य वन्दित्वा प्रभोर्देशनां शुश्राव । तस्य नृपस्य हयश्चाऽप्युत्कर्णः पुलकित: स्थिरः स्वामिदेशनामश्रौषीत् । समये च लब्धावसरो गणधरः स्वामिनं पप्रच्छ-'अत्र समवसरणे को धर्म प्रपेदे ?' स्वाम्यूचे-'जितशत्रुहयं विना नाऽन्यः कोऽपि' । ततः सविस्मयो जितशत्रुः स्वामिनमपृच्छत्-'कोऽयमश्वः, यो धर्म प्रत्यपद्यत ?'
ततो भगवानाह-'पुरा पद्मिनीखण्डपत्तने जिनधर्मनामा श्रावकोऽभूत् । तस्य च मित्रं सागरदत्त आसीत् । स तेन सममन्वहं चैत्येषु ययौ । अन्यदा च स साधुभ्योऽश्रौषीत्-'योऽर्हद्विम्बानि कारयेत् सोऽन्यभवे धर्ममाप्नुयात्' । तच्छ्रुत्वा च सागरदत्तः सौवर्णमाहतं बिम्बं कारयित्वा समहोत्सवं साधुभिः प्रत्यतिष्ठिपत् । उत्तरायणे स च नगराद् बाहिः स्वयं कारितं समुत्तुङ्ग शिवायतनमगात् । तत्र च शिवार्चकैघृतभक्षणाय कृतत्वरैः प्राक्सञ्चितप्रतिशीनघृतकुम्भाः क्रष्टुमारेभिरे । तेषां घटानामधश्च पिण्डीभूय लग्ना उपदेहिका भूपस्य वर्त्मनि पेतुः । सागरदत्तः सञ्चरद्भिः पूजकैचूर्ण्यमाणास्ता: समीक्ष्य कृपया वस्त्रेणाऽपनेतुं प्रचक्रमे ।
कि श्वेतभिक्षुभिः शिक्षितोऽसीति सोपहासं जल्पता केनचित् पूजकेनाऽङ्मिघातेन ताश्चूर्णिताः । ततश्च तत्क्षणं विलक्षीभूय
प्रभुश्च देशनां पारयित्वा भुवनस्योपचिकीर्षया विहरन् हस्तिनापुरे समवासार्षीत् । तस्मिन्नगरे च जितशत्रुनामा नृपो वणिक्सहस्त्रेशः श्रेष्ठी कार्तिकनामा श्रावकश्चाऽभूत् । तस्मिन पुरे कषायवसनो भागवतव्रतो मासं मासं चोपवासी पौरे शमपूज्यत। तथा सम्यक्त्ववता कार्तिकेन विना पारणे पारणे पौरेय॑मन्त्र्यत च । स च भागवतव्रतो भूतवच्छ्रेष्ठिछिद्रान्वेषणतत्पर एकदा पारणे जितशत्रुणा न्यमन्त्रि । ततः स परिव्राजको 'यदि कार्तिकः मे परिवेषणं करोति, तदा तव गृहे भुञ्जे' इत्यूचे । नरेन्द्रश्चाऽऽमित्युक्त्वा तद्गृहं गत्वा 'त्वया भागवतव्रतस्य परिवेषणीयमिति ययाचे ।
'स्वामिन् ! अस्माकं पाखण्डधारिष्विदं न युज्यते, तथाऽपि तवाऽऽज्ञया कार्य'मेतदित्युक्त्वा स्वीकृतवान् । पुराऽपि चेत् प्राव्रजिष्यं तदा नाऽकरिष्यमिदमिति विचिन्तयन् खेदाच्छ्रेष्ठी राजकुलं ययौ । परिवेषयतश्च तस्य स परिव्राजकस्तर्जनी

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129