Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 32
________________ ४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दर्शनं देही' त्यादि विलपन् पुर्यां चत्वरादिषु कालमतिवाहयति स्म । एकदा च बालकैरावृतस्तथैव प्रलपन् राजगृहाङ्गणे समागतः कौतुकाद् राजलोकेन सोऽवेष्ट्यत । सुमुखो नृपश्च कोलाहलं श्रुत्वा किमेतदिति जिज्ञासुर्वनमालया सहैव तत्राऽऽगतस्तं विकृताकारं लोकेनाऽऽक्रुश्यमानं वनमाले ! क्वाऽऽसीत्यादि विलपन्तं दृष्ट्वा राजा वनमाला च दध्यतुः - 'अहो ! अस्माभिर्निर्घृणं कर्म विदधे । दुःशीलैरेष विश्वस्तो वञ्चितः । अतः परं नाऽन्यत् किञ्चित् पापं प्रकृष्यते । प्रकृष्टपापिनां मध्ये वयमेव धौरेयाः । इमं वराकं जीवन्तमेव मृतमिवाऽकार्ष्म । विषयलाम्पट्यं धिक् । अनेन पापेन नरकेऽपि खलु नः स्थानं न । ये जितेन्द्रियास्ते धन्याः । वैषयिकं हि सुखं विपाके दुःखकारणमेव । ये जिनधर्ममहोरात्रमपि श्रृण्वन्त्याचरन्ति च ये च विश्वोपकारिणः, ते धन्याः । एवं स्वं विनिन्दतोर्धर्मानुरक्तांश्चाऽभिनन्दतोस्तयोरुपरि तदैव विद्युत् पपात प्राणानपजहार च । ततस्तौ हरिवर्षे वर्षे मिथुनरूपिणौ जज्ञाते । पितृभ्यां हरिश्च हरिणी चेति कृतनामानौ प्राग्जन्मवद् दम्पती दिवानिशमवियुक्तौ कल्पद्रुमैः सम्पादितार्थौ विलसन्तौ सुखेन तस्थतुः । इतश्च वीरकुविन्दोऽपि सुदुस्तपं बालतपश्चक्रे । मृत्वा च सौधर्मकल्पे किल्बिषिक: सुरोऽभवत् । तत्र चाऽवधिना स्वं प्राग्जन्म हरिणी - हरी चाऽपश्यत् । ततः क्रुद्धः स हरिवर्षं गत 'इहाऽवध्याविमौ मृत्वा क्षेत्रप्रभावतोऽवश्यं स्वर्गं यास्यतः, तदुर्गतीनां निर्बन्धेन मृतिपदे स्थाने इमौ नयामि' इति निश्चित्य स सुरः कल्पतरुभिः सह तौ भरते चम्पापुर्यामनैषीत् । तत्र च तदानीमिक्ष्वाकुवंशजश्चन्द्रकीर्तिर्नाम नृपोऽभवत् । स चाऽपुत्र एव पञ्चत्वं प्राप। ततस्तस्य प्रकृतयो राज्यार्हमपरं नरमन्वेष्टुं प्रावर्त्तन्त । षष्ठं पर्व सप्तमः सर्गः स देवश्च तदा देवद्धर्ध्या सर्वान् जनान् विस्मापयन् नभःस्थ उवाच-'भोः ! सचिवाद्याः ! युष्माकं राजाऽपुत्रो मृत इति यूयं राजेच्छवः, अहमद्यैव हरिवर्षाद् हरिं युग्मरूपिणं राज्यार्हमनैषम् । अस्येयं हरिणी सहजा पत्नी च । अनयोराहारार्थममी कल्पद्रुमाश्चाssनीताः । तदयमद्य वो राजा भवतु । अनयोश्च कल्पद्रुमफलाविद्धं पशु-पक्षिणां मांसं मद्यं चाऽऽहारे देयम्' । ते चैवमस्त्विति प्रोच्य तं देवं प्रणम्य मिथुनं रथमारोप्य राजवेश्मनि नीत्वा हरिं राज्येऽभिषिषिचुः । स देवश्च स्वशक्त्या तयोर्हस्वमायुस्तुङ्गत्वे धनुशतं च विधाय कृतार्थो तिरोदधे । स च हरिनृपः शीतलस्वामितीर्थेऽभूत् । ततः प्रभृति तन्नाम्ना भुवि हरिवंशोऽभवत् । स च हरी राजा वसुधां साधयित्वाऽनेकशो राजकन्याः परिणीतवान् । तस्य च हरिण्यां कियत्यपि काले गते पृथुलोर:स्थलः पृथिवीपतिनामा पुत्रोऽभवत् । हरिणी-हरी च क्रमाद् - विपेदाते । तयोः सूनुः पृथिवीपतिश्च चिरं राज्यं पालयित्वा पुत्रं महागिरिं तत्राऽभिषिच्य तपस्तप्त्वा दिवं प्रत्यपद्यत । महागिरिश्चाऽपि सुतं हिमगिरिं राज्येऽभिषिच्य प्रव्रज्यां प्रपद्याऽपुनर्भवमव्राजीत् । हिमगिरिश्च ज्येष्ठं सुतं वसुगिरिं राज्ये न्यस्य प्रव्रज्याऽव्ययं पदं प्राप । वसुगिरिरपि गिरिं नाम सुतं गिरिश्च मित्रगिरिं नाम सुतं, क्रमशो राज्ये निधाय प्रव्रज्योत्तमं पदं प्राप । एवं हरिवंशे जाता नृपाः केचन तपसा निर्वाणं केचन स्वर्गं च प्राप्ताः । इतश्चाऽत्रैव भरते मगधेषु राजगृहे नगरे हरिवंशीयः सुमित्रो नाम भूपतिरभूत् । तस्य च पद्मावती नाम पल्यासीत् । तस्याश्च कुक्षौ प्राणतकल्पात् सुरश्रेष्ठजीवो निजमायुः पूरयित्वा च्युत्वा श्रावणपूर्णिमायां श्रवणास्थे चन्द्रेऽवततार । तदानीं निशाशेषे

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129