Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ सप्तमः सर्गः मुनिसुव्रतनाथचरितम् जिनः सूनुः सुमित्रस्य पद्मावत्याश्च कुक्षिजः । सद्धर्मदेशकः पायादपायान्मुनिसुव्रतः ॥ १ ॥ अथाऽत्रैव जम्बूद्वीपेऽपरविदेहेषु भारताख्ये विजये चम्पापुर्यां नगर्यां सुरश्रेष्ठो नाम महीपतिरासीत् । चतुर्धाऽपि वीरो विनयी जिनधर्मधुरन्धरः स एकदोद्याने समवसृतं नन्दनं नाम मुनिं भक्त्या ववन्दे । तद्देशनया प्रबुद्धश्च भवविरक्तस्तस्यैव मुनेः पार्श्वे प्रव्रज्यां प्रपद्य यथावद् व्रतं पालयित्वाऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य विपद्य प्राणते सुरोत्तमोऽभूत् । इतश्चाऽत्रैव जम्बूद्वीपे भरते वत्समण्डले कौशाम्ब्यां पुर्यां सुमुखो नाम भूपतिरासीत् । एकदा स वसन्तर्तौ क्रीडार्थमुद्यानं गच्छन् गजारूढो वीरकुविन्दस्य भार्यां रूप लावण्यवतीं दृष्ट्वा कामार्तोऽचिन्तयत्- 'किमियं शापेन दिवो भ्रष्टाऽप्सराः, वसन्तश्रीर्वा रतिर्वा, यद् वा ब्रह्मणा कौतुकात् किमपि स्त्रीरत्नं कृतम् ? ' एवं विचिन्तयंस्तत्रैव गजमगमयत्, न त्वन्यतो ययौ । 'स्वामिन् ! सर्वं बलं प्राप्तं, किमद्याऽपि विलम्ब्यते' ? इति सचिवेनोक्तश्च कथमपि चेतः संस्थाप्य यमुनोद्वर्त्तं महोद्यानं जगाम । तत्र च तया हृतमनाः क्वाऽपि रति न प्राप नृपः । षष्ठं पर्व सप्तमः सर्गः सुमतिर्नाम सचिवश्च भावज्ञोऽप्यज्ञ इव तमुद्विग्नमानसं महीपतिमुवाच- 'राज्ञां मानसो विकारो वा शत्रुसम्भवं भयं वा मोहाय, न तृतीयं किमपि । तत्र विक्रमाक्रान्तजगतस्ते शत्रुभयं नास्ति, यदि मनोविकारः कोऽपि तर्ह्यगोप्यश्चेद् वद । ततो राजोवाच-‘त्वया सत्यमुक्तं, न त्वत्तः किमपि गोप्यम् । आगच्छता मया पथि काचिदङ्गना निरीक्षिता, तया हृतं मम चेतः स्मरातुरमस्ति, तेन ताम्यामि' । ततः सचिव उवाच- 'सा मया ज्ञाताऽस्ति, सा वीरकुविन्दस्य भार्या वनमाला । एषोऽहं तवाऽभीष्टं सम्पादयिष्यामि, सपरिवारः स्वमालयं यातु भवान्' । सचिवेनेत्थमुक्तो नृपः शिबिकारूढो वनमालां तां चिन्तयन् स्वं स्थानमगात् । सचिवश्च विचित्रोपायपण्डितामात्रेयिकां नाम परिव्राजिकां वनमालायै प्राहिणोत् । सा च वनमालाया वेश्म गता, तया वन्दिता साशी:पूर्वमुवाच-‘त्वमद्य कुतो म्लानवदना दृश्यसे ?' ततो वनमालोवाच- 'मयाऽद्य पथि गजारूढो नृपो वीक्षितः । तं दृष्ट्वाऽपहतमानसा स्मरार्त्ताऽस्मि, किन्तु क्वाऽहं कुविन्दी ? क्व नृपः ? स्वप्नेऽप्यावयोः सङ्गमोऽसम्भवी' । तत आत्रेय्युवाच- 'मा विषीद, प्रातः राज्ञा सह तव योगं करिष्यामि' । एवमाश्वास्य सा गता नृपार्थं सिद्धप्रायं मन्त्रिणे समाख्यत् । प्रातश्च परिव्राजिका गत्वा वनमालामवोचत्- 'मया सुमुखो नृपस्तव प्रेमाभिमुखः कृतोऽस्ति उत्तिष्ठ, नृपसद्मनि गच्छावः, राजपत्नीव राज्ञा सह यथा सुखं रमष्व' । ततो वनमाला तया सार्धं नृपगृहं ययौ । राज्ञा च साऽवरोधे निदधे । तथा तया सहोद्यानादिषु भोगसुखमन्वभूत् । इतश्च वीरकुविन्दो वनमालया वियुक्त उन्मत्त इव भ्रमन् विवर्णवदनोऽसंस्कृताङ्गः पौरबालकैरुपद्रूयमाणो 'वनमाले ! क्वाऽसि,


Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129