Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३६
षष्ठं पर्व - षष्ठः सर्गः ततः समये प्रव्रज्या ग्राह्येति । तानुदीर्य तान् षडपि मल्लिविससर्ज। ते च स्वं स्वं पुरं जग्मुः।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षडपि राजानः परस्परं दूतान् प्रेष्य कुम्भनृपेण सह विग्रहं निश्चिक्युः । ससैन्यं प्रस्थिताश्च ते षडपि मिथिलापुरीं प्राप्य तां परितः पर्यवेष्टयन् ।
कुम्भोऽपि तेन रोधेन खिन्नः कतिपयैदिनैश्चिन्तापन्नस्तस्थौ । ततो मल्लिः समागत्योद्वेगकारणं पृष्टवती । कुम्भश्च सर्वं यथास्थितमवोचत् । ततो मल्लिरुवाच-'तात ! गूढपुरुषैः प्रत्येकं तुभ्यं प्रदास्यामीत्युक्त्वा षडपि नृपान् बोधय, तस्या मम प्रतिमायाः पुरोऽपवरकेषु सायं श्वेतवाससा प्रच्छन्नास्ते क्रमेण समानेयाः' । राजा च तथैव विदधे ।
तेऽपि तथैवाऽऽजग्मुः । कपाटजालकैस्तां मल्लिप्रतिमां ददृशुश्च । मल्ल्यपि च तत्र प्रतिमापृष्ठद्वारेण प्रविश्य प्रतिमान्तरिता तालुपिधानाब्जमपानयत् । ततश्च सद्यः प्रक्षिप्तकुथिताहारगन्धः शकद्गन्ध इवाऽसह्यो निर्ययो । ततस्ते तदनगन्धमसहमाना वाससा नासिकां पिधाय ततः पराङ्मुखा अजायन्त । ततो भोः ! कि यूयं पराङ्मुखा इति मल्ल्या पृष्टा अमुं दुर्गन्धं सोढुं न शक्नुम इत्यभ्यधुः ।
मल्लिस्तान् प्रत्युवाच-'इयं सौवर्णी प्रतिमा, अत्र चाऽन्वहमाहारप्रक्षेपादीदृशो गन्धः, तथैव विष्ठा-मूत्रादिभृते बहिरन्तश्च बीभत्से देहे विवेकिनः कथमनुरागं कुर्वन्तु ? इतस्तृतीये भवे भवद्भिर्मया सह तपश्चक्रे प्रव्रजितैः, तत् किं न स्मरत' । ततो मल्लीवचो विमशतां तेषां जातिस्मरणमुत्पेदे । ततो मल्लिर्जालकपाटान्युदघाटयत् । प्रबुद्धास्ते चाऽभ्युपेत्याऽब्रुवन्-‘स्मरामः, यद् भवे पूर्वे सप्ताऽपि वयं सम्भूय कृतसङ्केतास्तीवं तपोऽकाम॑ । त्वया साधु बोधिता: स्मः, नरकाच्च रक्षिताः, अतः परं कृत्यमादिश, त्वं नो गुरुरसि'।
ततो लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थिता मल्लिार्षिक दानं प्रददौ । जन्मतोऽब्दशते पूर्णे पञ्चविंशतिधनून्नता कुम्भराजसुरेन्द्राद्यैः कृतनिष्क्रमणोत्सवा जरतीनामशिबिकारत्नमारूढा सहस्राम्रवणं प्राप । मार्गशुक्लैकादश्यामश्विनीस्थे चन्द्रे कृताष्टमा पूर्वाह्ने बहि:परिच्छदार्हाणां नृणां दशभिः शतैरन्तः परिच्छदार्हाणां स्त्रीणां त्रिभिः शतैश्च समं प्रवव्राज। तदैव च तस्या मनःपर्ययज्ञानमुत्पेदे । तस्मिन्नेव दिनेऽशोकमूले तस्याः केवलमप्युत्पन्नम् । ततः शक्रादिभिः कृते समवसरणे धनुःशतत्रयोत्तुङ्गचैत्यपादपशोभिते प्रारद्वारा प्रविश्य यथोपचारं प्रभुमल्लिः रत्नसिंहासनं प्राङ्मुख्यध्यतिष्ठत् । ततो यथा स्थानं सुरादिषु कुम्भादिनृपेषूपविष्टेषु च देवराज-कुम्भराजाभ्यां स्तुता धर्मदेशनां व्यधात् ।
तथाहि- 'संसार: स्वतोऽप्यपारः, स च पूर्णमासीदिनेनाऽब्धिरिव रागादिना विशेषतो वर्धते । न च विना समताजलं नृणां रागद्वेषमलक्षयः कर्तुं शक्यः, यज्जन्मकोटिभिरपि तीव्रतपसा कर्म न हन्यते, तत्साम्यावलम्बेन क्षणार्धेन हन्यते । आत्मज्ञानी साधुश्च सामायिकशलाकया संश्लिष्टं कर्मजीवं विभिन्नीकुरुते । योगिनश्च सामायिकांशुना रागादिध्वान्तविध्वंसे कृते स्वस्मिन् स्वरूपं पश्यन्ति ।
समताभाजश्च साधोः प्रभावतो नित्यवैरिणोऽपि जन्तवः परस्परं स्निह्यन्ति । समता चेष्टा-ऽनिष्टैश्चेतना-ऽचेतनैर्भावैर्मनसोऽमोहः । बाह्वोर्गोशीर्षचन्दनालेपे वासिच्छेदे वाऽभिन्ना चित्तवृत्तिश्चेत् तदाऽनुत्तमं साम्यं ज्ञेयम् । 'स्तोतरि शप्तरि च यस्य चेतस्तुल्यं स

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129