Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लब्धिमान् कश्चिच्चित्रकरोऽन्तर्जवनिकं मल्लेः पादाङ्गुष्ठं निरीक्ष्य सर्वाङ्गोपाङ्गसहितं यथावद्रूपमालिखत् । तत्र च क्रीडितुं गतो मल्लश्चित्रगतां मल्लिं प्रेक्ष्य साक्षाद् मन्यमानो लज्जया द्रुतमपासरत् । धात्र्या किमेतदिति पृष्टश्चाऽत्र 'मल्ली वर्तत इति कथमत्र क्रीड्यत' इत्यवोचत् । तया च सम्यङ् निरूप्य 'नेयं साक्षाद् मल्ली, किन्तु चित्रम्, अतो नाऽपसर्त्तव्य'मित्युक्तश्च मल्लः क्रुधा चित्रलेखक दक्षिणकरं निकर्त्य निरवासयत् । स चित्रकरश्च हस्तिनापुरे समेत्याऽदीनशत्रोर्नृपस्य स्ववृत्तान्तमाचख्यौ, मल्लिमवर्णयच्च । तथा चित्रफलकं निष्कास्य चित्रस्थां मल्लिमदर्शयत् । तां दृष्ट्वा विस्मित: पूर्वस्नेहाज्जातानुरागश्च स नृप उपकुम्भं मल्लियाचनाय दूतं प्रेषीत् ।
___ इतश्चाऽभिचन्द्रजीवो वैजयन्तात् परिच्युत्य काम्पील्यनगरे जितशत्रुनामा नृपोऽभवत् । तस्य च धारिणीप्रमुखं राजीसहस्रमभवत् । तथा मिथिलापुर्यां चोक्षा नामैका परिव्राजिका राज्ञामाढयानां च गृहेषु दानमूलस्तीर्थाभिषेकजश्च धर्मः स्वर्गा-ऽपवर्गयोर्हेतुरिति नस्तत्त्वतो वच इत्युपदिशन्ती पौरान् जनपदांश्च धर्मे प्रवर्तयन्ती विहरमाणा मल्ल्यधिष्ठितं सदनं समभ्यागात् । तत्र च त्रिदण्डपाणिः काषायवसना सा सदभैः कुण्डिकाजलैर्भुवमभ्युक्ष्य स्ववृष्यां निषसाद् । तथाऽन्यजनवद् मल्लेरपि तं धर्मं जगौ । ततो मल्लिस्त्रिज्ञानधराऽवोचत्-'दानमात्रं धर्माय न, अन्यथा तु कुर्कुटादीनामपि पोषणं तत्कृते स्यात् । किं च प्राणातिपातमूलैस्तीर्थाभिषेकैः कोऽपि कथं शुचिर्भवेत् ? तस्माद् धर्मो विवेकमूलः । निर्विवेकस्य तपांस्यपि केवलं क्लेशाय । तया च युक्तियुक्तमित्थमुक्ता सा विलक्षाऽधोमुखी परिव्राजिका दास्यादिभिः 'पाखण्डिनि ! कुशासनेन त्वया कियच्चिरमिदं विश्वं वञ्चितमि'ति निरभसि ।
षष्ठं पर्व - षष्ठः सर्गः
ततश्चोक्षाऽचिन्तयत्-'राज्यसम्पदुन्मत्तयाऽनया तदनुवर्त्तिना परिच्छदेनाऽपि च यत् स्वैरं तर्जिताऽस्मि, तदेनां स्वबुद्धितो बह्वीषु सपत्नीषु वैरानृण्यहेतवे क्षेप्यामि' । एवं विचिन्त्य निर्गत्य सामर्षा सा काम्पील्यपुरे जितशत्रुनृपान्तिके गत्वा तेन महत्या प्रतिपत्त्या दृष्टा साऽऽशीर्वाद प्रदाय स्ववृष्यामुपाविशत् । राजान्तःपुरेणाऽपि वन्द्यमाना दान-तीर्थाभिषेकजं धर्मं शशंस । ततो भूपतिस्तामुवाच'अखिलां महीं भ्राम्यन्त्या भवत्या ममाऽन्तःपुरस्त्रैणसदृशं वरमन्यत्राऽपि कुत्राऽपि दृष्टम् ?' ततश्चोक्षा स्मेरमुखी जगाद-'राजन् ! मिथिलापुरे कुम्भस्य राज्ञो मल्लीति नाम कन्यारत्नं विद्यते । सा हि मृगीदृशां चूडारलम्'। तच्छ्रुत्वा पूर्वस्नेहेन जातानुरागः स कुम्भसमीपं द्रुतं दूतं प्रेषीत् ।
मल्लिच प्राग्जन्मसुहृदां तेषां षण्णामपि महीभुजामवधिना बोधं पश्यन्त्यशोकवनिकान्तरे सौधर्मगृहे रत्नपीठे आत्मनो हैमी प्रतिमामातालुशुषिरोदरां तालुनि सच्छिद्रस्वर्णाम्भोजपिधानिकासहितां कारयित्वा न्यवेशयत् । प्रतिमापवरकस्य पुरतो भित्तौ च सजालककपाटानि षड् द्वाराणि च कारयामास । तेषां द्वाराणां पुरतश्च षट् हुस्वापवरकाणि प्रतिमापृष्ठभित्तावेकं द्वारं चाऽकारयत् । ततः सर्वाहारपिण्डी प्रतिमायास्तालुनि क्षिप्त्वा स्वर्णाम्बुजेन पिधाय च साऽन्वहं बुभुजे।
इतश्च तेषां षण्णामपि नृपाणां दूता युगपत् कुम्भसन्निधावाययुः। ते सर्वे च स्वस्वामिगुणान् वर्णयन्तः स्वस्वामिप्रार्थनां निवेदयामासुः । ततः कुम्भराजो जगाद-'देवादीनामप्ययोग्या मम कन्या न तेभ्यः केभ्योऽपि नृपेभ्यः प्रदातव्या । तद्यूयमित: शीघ्रं यात, मम नगराद् निर्यात'। एवं राज्ञा निराकृतास्ते षडपि दूता द्रुतं गत्वा स्वस्वामिनं तत् सर्वं वृत्तान्तमवोचन् । ततः समानपराभवास्ते

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129