Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 26
________________ षष्ठः सर्गः श्रीमल्लिनाथचरितम् प्रभावतिकुक्षिजातं कुम्भाइँ कुम्भनन्दनम् । समतादशिनं महिलजिनं नाथं प्रपद्यताम् ॥१॥ अथ जम्बूद्वीपेऽपरविदेहेषु सलिलावत्यां विजये वीतशोकायां पुर्यां बलाख्यो नाम नृपोऽभवत् । तस्य नृपस्य धारिण्यां पन्यां सिंहस्वप्नसूचितो महाबलो नाम पुत्रोऽभवत् । स च यौवनं प्रपन्न एकदिने कमलश्रीप्रभृती: पञ्चशतानि राजकन्या: परिणिनाय । तथा तस्य महाबलस्याऽचल-धरण-पूरण-वसु-वैश्रवणा-ऽभिचन्द्राख्या बालसुहृदः आसन् । एकदा च बलो नृपस्तस्याः पुर्या बहिरैशान्यामिन्द्रकुब्जाख्य उद्याने समागतानां मुनीनामन्तिके धर्म श्रुत्वा जातवैराग्यो राज्ये महाबलं न्यस्य प्रव्रज्य च शिवं ययौ । इतश्च महाबलस्य कमलश्रियां पन्यां सिंहस्वप्नसूचितो बलभद्रो नाम पुत्रोऽभवत् । प्राप्तयौवनं च तं महाबलो यौवराज्ये निवेशयामास । तथा स षड्भिः बालसुहृद्भिः सहाऽऽर्हतं धर्म श्रुतवान् । तेन जातवैराग्यास्ते सर्वेऽपि स्वं स्वं सुतं राज्ये निवेश्य वरधर्ममुनिपादमूले प्रव्रज्यामग्रहीषुः । तथैको यत् तपः कर्ताऽपरैरपि तदेव कार्यमिति तेषां सप्तानामपि प्रतिज्ञाऽभूत् । एवं कृतप्रतिज्ञास्ते सर्वे सममेव चतुर्थादि तपश्चक्रुः । किन्तु महाबलः स्वस्याऽधिकफलेच्छया'ऽद्य मे शिरो दुष्यति, अद्योदरं दुष्यति, अद्य षष्ठ पर्व - षष्ठः सर्गः नास्ति क्षुदि'त्यादि व्यपदिश्य पारणाहेऽपि भोजनविरतस्तान् मायया वञ्चयित्वाऽधिकं तपो विदधे । एवं मायामिश्रेण तपसा स स्त्रीवेदकर्माऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्म चाऽबध्नात् । ते सर्वे च पूर्वलक्षचतुरशीत्यायुष्काश्चतुरशीत्यब्दसहस्रीं व्रतं पालयित्वाऽऽयुषः क्षये द्विधा संलेखनां कृत्वाऽनशनं प्रपद्य विपद्य वैजयन्त्याख्ये विमाने सुरा जज्ञिरे । इतच जम्बूद्वीपे दक्षिणभरतार्धे मिथिलानग-मिक्ष्वाकुवंशे कुम्भो नाम नृपो बभूव । तस्य च प्रभावतीनाम्नी महादेव्यासीत् । तस्याः कुक्षौ च महाबलजीव: पूर्णायुर्वैजयन्ततश्च्युत्वा फाल्गुनशुक्लचतुर्थ्यामश्विन्यां चतुर्दशमहास्वप्नसूचितार्हदवतारोऽवततार । अस्मिन् गर्भस्थिते च देव्या माल्यशयनदोहदो देवताभिः पूरितः । पूर्णे च समये मार्गशुक्लैकादश्यामश्विन्यां नक्षत्रे सा प्राग्जन्ममायाजनितस्त्रीकर्मप्रभावात् कुम्भलाञ्छनां नीलकान्ति सर्वशुभलक्षणामेकोनविंशमर्हन्तं कन्यका सुषुवे । तदानीं च दिक्कुमार्य उपेत्य सूतिकर्माणि चक्रिरे । शक्रश्च मेऊं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथाविधि स्नात्रादि विधाय स्तुत्वा पुनर्मातृसन्निधौ ताममुञ्चत् । तस्यां गर्भस्थायां मातुर्माल्यशयनदोहदोऽभूदिति नृपस्तस्याः समहोत्सवं 'मल्ली 'ति नामाऽकरोत् । शक्रनियुक्ताभिर्धात्रीभिाल्यमाना सा क्रमाद् वृद्धिमाप । इतश्चाऽचलजीवो वैजयन्ताच्च्युत्वा भरते साकेतपुरे प्रतिबुद्धिर्नाम नृपो बभूव । तस्य च पद्मावती नाम पत्न्यासीत् । तस्मिन्नेव नगरे चैशान्यां नागवेश्मनि मनोरथपूरिका नागप्रतिमाऽऽसीत् । एकदा च तस्या यात्रायै राज्ञाऽनुमता सा पुष्पादि सम्पाद्य


Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129