Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 25
________________ पञ्चमः सर्गः दत्त-नन्दन- प्रह्लादचरितम् अस्यैव जम्बूद्वीपस्य प्राग्विदेहभूषणे सुसीमानगर्यां वसुन्धरो नाम भूपालो बभूव । स च चिरं महीं पालयित्वा सुधर्ममुनिसन्निधौ व्रतमादाय कालेन विपद्य ब्रह्मलोकमुपययौ । इतश्च जम्बूद्वीपस्यैव भरतार्थे दक्षिणे शीलपुरे मन्दरधीरो नाम नृपो बभूव । तस्य च ललितमित्रो नाम पुत्रोऽभवत् । तं च दृप्त इति ज्ञापयित्वा प्रत्याख्याय खलो मन्त्री भूपतेर्भ्रातरं युवराजत्वे न्यवेशयत् । ततश्च विरक्तो ललितमित्रो घोषसेनमुनेः पार्श्वे परिव्रज्यामुपाददे । तप्यमानश्च स दुर्मना 'अनेन तपसा तस्य खलमन्त्रिणो वधाय स्यामि'ति निदानं कृत्वा तदनालोच्यैव विपन्नः सौधर्मे सुरोऽभवत् । स खलाख्यः सचिवश्च चिरं भवं भ्रान्त्वा जम्बूद्वीपस्य वैताढ्ये गिरावुत्तर श्रेण्यां सिंहपुरे विद्याधरेन्द्रः प्रह्लादः प्रतिविष्णुरजायत । इतश्चाऽस्मिन् जम्बूद्वीपे दक्षिणभरतार्थे वाराणस्यां गङ्गया सख्येव श्रितायामिक्ष्वाकुवंशेऽग्निसिंहनामा नृपो बभूव । तस्य च जयन्ती शेषवती चेति द्वे पत्न्यावभूताम् । तत्र जयन्त्या उदरे वसुन्धरजीवः पञ्चमकल्पतश्च्युत्वा समवातरत् । चतुर्महास्वप्नसूचितबलदेवावतारश्च तस्याः समये नन्दनाभिधः पुत्रोऽजनि । शेषवत्याश्च कुक्षौ ललितजीवश्च्युत्वाऽवतीर्णः सप्तमहास्वप्न षष्ठं पर्व पञ्चमः सर्गः सूचितवासुदेवावतारः समये दत्तसंज्ञया पुत्रोऽजनि । क्रमेण च तावुभौ षड्विशतिधन्वोच्चौ श्वेत-श्यामौ नील- पीताम्बरधरौ तालतार्क्ष्यध्वजौ यौवनं प्रपेदाते । एकदा च प्रतिविष्णुस्तावैरावणसङ्काशं गजेन्द्रमयाचत । ताभ्यां च तस्मिन् कुञ्जरोत्तमेऽदत्ते च कुपितः प्रह्लादो योद्धुमुपतस्थे । प्रह्लादसैन्येन भग्नं स्वसैन्यमवलोक्य तौ द्वौ बल - विष्णू रथारूढ चेतुः । विष्णुश्च पाञ्चजन्यशङ्खध्वनिना द्विषद्वलं नाशयामास । ततश्च विष्णु - प्रतिविष्णू मिथः शस्त्राशस्त्रि युद्धं व्यतिचक्राते । क्रुद्धश्च प्रह्लादश्चक्रं भ्रमयित्वा दत्तं प्रति मुमोच । दत्तश्च मोघीभूतं समीपस्थं तच्चक्रमेवाऽऽदाय मुक्त्वा प्रह्लादस्य शिरश्चिच्छेद । तथा दिग्यात्रां कृत्वा भरतार्धं साधयित्वा मगधे कोटिशिलामुद्धृत्य चाऽर्धचक्रयभवत् । तस्य च विष्णोः कौमारे द्वे वर्षशते, मण्डलित्वे दिशां जये च प्रत्येकमब्दपञ्चाशदभूत् । एवमब्दानां षट्पञ्चाशतं सहस्राण्यतिवाह्य स कर्मवशात् पञ्चमीं नरकावनिमगमत् । दत्तस्याऽवसाने जाते च नन्दनः कथञ्चित् पञ्चषष्ट्यब्दसहस्रायुरतिवाह्य भ्रातृमरणेन विषण्णो भूरिवैराग्यवान् भुवनशोभिमुनिपार्श्वे गृहीतदीक्षो निरतिचारं तीव्रं व्रतं पालयित्वा सिद्धिपदप्रतिष्ठामगात् ॥५॥ इति नन्दन-दत्त-प्रह्लादचरितवर्णनात्मकः पञ्चमः सर्गः ॥५॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129