Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततश्चटकोवाच-'ऋषे ! मा कुपः, तव तपो वृथा, यतोऽपुत्रस्य गतिर्नास्तीति श्रुतिः किं त्वया न श्रुता ?' ततस्तथेति मन्यमानः स मुनिर्दध्यौ-'ममाऽकलत्रपुत्रस्य तपो व्यर्थम्' । तं क्षुभितं दृष्ट्वा तापसैरहं भ्रमित इति चिन्तयित्वा धन्वन्तरिः श्राद्धो जातः । ततस्तौ देवावदृश्यौ जातौ ।
जमदग्निश्च नेमिककोष्टकं पुरं प्राप्य भूयिष्ठकन्यकं जितशत्रु महीपालमेकां कन्यकां प्रेप्सुरुपागतः । स च नृपस्तं सत्कृत्य 'किमर्थमागताः, अहं किं करवाणि, तद् ब्रूतेत्यवोचत् । कन्यार्थमागतोऽस्मीति तेनोक्ते नृपः 'शतस्य कन्यानां मध्ये येच्छति त्वां, तां गृहाणेत्युक्तस्स कन्याया अन्तपुरं गत्वा 'भवतीभ्यः काचिद् मम धर्मपत्नी भवत्वि'त्यवोचत् । ताश्च 'जटिल: पलितः क्षामो भिक्षाजीवि चेत्थं वदन्न लज्जसे' इत्युचुः । ततश्च क्रुद्धो मुनिस्ताः कन्याः कुब्जीचकार। ___अथ प्राङ्गणे रेणुपुजे रममाणां रेणुकां नृपपुत्रीमिच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया च पाणिग्रहणसूचकः पाणि: प्रसारितः । मुनिश्च तां परिजग्राह । नृपश्च गवादिभिः सार्धं तस्मै तां ददौ । ततो मुनि: स्नेहसम्बन्धात् श्यालीस्तप:शक्त्या सज्जीचक्रे । तां च रेणुकामाश्रमपदं नीत्वा प्रेम्णाऽवर्धयत् । यौवनं प्राप्तां च तामग्नि साक्षीकृत्य मुनिस्तामुपयेमे । ऋतुकाले च स तामूचे-'अहं ते चरुं साधयामि, यथा ब्राह्मणमूर्धन्यो धन्यः सुत उत्पद्यते' । ततः सोचे- 'हस्तिनापुरेऽनन्तवीर्यस्य पत्नी मत्स्वसाऽस्ति, तस्यै क्षात्रोऽपि चरु: साध्यताम्' । ततः स मुनिः पन्यै ब्राह्म तत्स्वस्र क्षात्रं च चरुमसाधयत् ।
षष्ठं पर्व - चतुर्थः सर्ग:
ततो रेणुकाऽचिन्तयत्-'यदहं तावदटवीमृगीव जाता, मत्सुतोऽपि माग् मा भूत्' । एवं विचिन्त्य सा क्षात्रं चरुमभक्षयत्। ब्राह्मं चरुं च स्वस्त्रे प्रादात् । काले च तयोस्तनयो जातौ । रेणकाया रामस्तत्स्वसुश्च कृतवीर्यः । अन्यदा च तत्र कोऽप्यतिसाररोगाक्रान्तो विद्याधरः समागात् । तद्रोगेण च तस्याऽऽकाशगामिनी विद्या विस्मृता । रामेण च भेषजाद्यैः स्वबन्धुवदुपचरितः स तस्मै पारशवीं विद्यां ददौ । स च रामो मध्येशरवणं गत्वा तां विद्यामसाधयत् । ततः प्रभृति स परशुराम इति विश्रुतोऽभूत् ।
एकदा च रेणुका पतिमापृच्छ्य हस्तिनापुरे स्वसारमुपजगाम । अनन्तवीर्यश्च तां श्यालीति लालयन्नरमयत् । ततश्चाऽनन्तवीर्याद् रेणुकायां तनयोऽजायत । मुनिश्च तेन पुत्रेणाऽपि सह रेणुकामानयत् । परशुरामश्च सजातकोपः पुत्रसहितां तां पशुनाऽच्छिदत् । तद्भगिन्या शंसितः क्रुद्धोऽनन्तवीर्यो जमदग्न्याश्रमं गत्वा तमभाङ्क्षीत् । तथा स तापसानां कृतत्रासो गवादि समादाय मन्दं मन्दं परिक्राम्यन्न्यवर्तत । परशुरामश्च त्रस्यत्तपस्वितुमुलं श्रुत्वा तां वार्ता च ज्ञात्वा क्रुद्धोऽन्तक इवाऽधावत् । तथाऽनन्तवीर्यं पशुना खण्डशश्चक्रे । ततोऽमात्यादिभिर्वयसा लघुरपि कृतवीर्यों राज्ये निवेशयाञ्चक्रे । तस्य च तारानाम्नी महिष्यभवत् । तस्याश्च कुक्षौ भूपालनृपजीवो महाशुक्राच्च्युत्वाऽवातरत् । अन्यदा कृतवीर्यो मातुर्मुखात् पितुः कथां श्रुत्वाऽगत्य जमदग्निममारयत् । पितृवधक्रुद्धो रामश्च द्राग् हस्तिनापुरं गत्वा कृतवीर्यममारयत् । तस्य राज्ये च स्वयं न्यविशत् ।।
कृतवीर्यस्य गुर्विणी राज्ञी च भयात् पलाय्य तापसाश्रयमगात् । कृपालुभिश्च तापसैः सा भूगृहान्तः स्थापयित्वा क्रूरात् परशुरामादनिधानवद् गोप्यते स्म । ततस्तस्याश्चतुर्दशमहा

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129