Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
स्वप्नसूचितो भूमिग्रहणात् सुभूमो नाम सुतोऽभवत् । परशुरामस्य पर्शुश्च यत्र यत्र क्षत्रिय आसीत् तत्र तत्र मूर्त्तिमान् कोपाग्निरिवाऽदीप्यत ।
२६
अन्यदा च स परशुरामस्तत्राऽऽ श्रमे समागात् । तत्पर्शुश्चाऽज्वलत् । ततः किमत्र क्षत्रियोऽस्तीति पृष्टास्तपस्विनो वयं तापसीभूताः क्षत्रिया आस्महे इत्यूचुः । ततोऽमर्षाद् रामः सप्तकृत्वो वसुन्धरां नि:क्षत्रियां चकार । एकदा च रामो मे कुतो वध इति नैमित्तिकानपृच्छत् । ते च य इह सिंहासने स्थितेऽमूः पायसीभूता दंष्ट्रा भोक्ष्यते, तेन तव वधो भावी' त्यब्रुवन् । ततो रामोऽवारितं सत्रागारं कारयामास । तत्र सिंहासनं स्थालं चाऽग्रतोऽस्थापयत् ।
सुभूमश्च तत्राऽऽश्रमे स्वर्णवर्णोऽष्टाविंशतिधनून्नतोऽद्भुतां वृद्धिमगात् । मेघनादो विद्याधरश्च नैमित्तिकान् पृष्ट्वा तदुक्त्यनुसारेण सुभूमाय निजां कन्यां पद्मश्रियं प्रदाय तस्यैव सेवकोऽभूत्। अन्यदा च सुभूमो मातरमपृच्छत्- 'किमयं लोक इयानेवाऽधिकोऽपि वा ?' ततस्तन्मातोवाच- 'वत्स ! लोकोऽनन्तः, तन्मध्येऽयमाश्रमो मक्षिकापदमात्रम् । अस्मिन् लोके विख्यातं हस्तिनापुरं नगरमस्ति। तत्र कृतवीर्यो नाम तव पिता नृपोऽभूत् । रामश्च तं हत्वा राज्यं स्वयमशिश्रियत् । पृथिवीं च निःक्षत्रियां चक्रे । तद्भयादिह तिष्ठामि' ।
तच्छ्रुत्वा क्रुद्धः सुभूमस्तत्कालं हस्तिनापुरमगात् । तत्र सत्रे च गत्वा सिंहासन उपविश्य पायसीभूतास्ता दंष्ट्रा बुभुजे । तत्र रक्षका ब्राह्मणाश्च युद्धायोत्तिष्ठमाना मेघनादेन जघ्निरे । रामश्च क्रुधा समायातः सुभूमाय पर्शु मुक्तवान् । सुभूमश्च शस्त्राभावाद्दंष्ट्रास्थालमेवोदक्षिपत् । तत्स्थालं च पुण्यवशात् सद्यश्चक्रीबभूव ।
षष्ठं पर्व चतुर्थः सर्गः
स चाऽष्टमश्चक्रवर्त्ती सुभूमस्तेन परशुरामस्य शिरोऽच्छिदत् । ततश्च समस्तां पृथिवीं त्रिःसप्तकृत्वो निर्ब्राह्मणां व्यधात् । तथा षट्खण्डां पृथिवीं क्रमेण साधयित्वा मेघनादाय वैताढ्यगिरिश्रेण्योर्द्वयोरपि विद्याधरेन्द्रपदवीं प्रदत्तवान् ।
एवं षष्टिवर्षसहस्रायुः स कालपरिणामवशेन विपद्य सप्तमीं नरकभूमिमगात् । तस्य च कुमारभावेऽब्दसहस्रपञ्चकं मण्डलित्वे च पञ्चशतानि जये चक्रित्वे चाऽब्दपञ्चशत्यूनमर्धलक्षमजनि ||४|| इति सुभूमचक्रिचरितवर्णनात्मकश्चतुर्थः सर्गः ॥४॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129