Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थः सर्गः सुभूमचक्रवर्त्तिचरितम्
अथेह भरतक्षेत्रे विशालनगरे भूपालो नाम भूपालो बभूव । स एकदा रणे बहुभि: प्रतिपक्षनृपैर्मिलित्वा पराजिग्ये । वैरिभिः पराभूतश्च स विरज्य सम्भूतमुनिपादान्ते परिव्रज्यामाददे । तथा स तपसः प्रभुत्वभोगविषयं निदानं कृत्वा विपद्य महाशुक्रे सुरो
ऽभवत् ।
इतश्च ऋषभनाथस्य कुरुनामा सुतोऽभवत् । यस्य नाम्ना कुरुदेश: प्रसिद्धः । तत्सुतश्च हस्तिनामा, यस्य नाम्ना हस्तिनापुरं तीर्थकृच्चक्रिजन्मभूरस्ति । तस्य वंशे चाऽनन्तवीर्यो नाम नृपो बभूव । तथा वसन्तपुरे उच्छिन्नवंशोऽग्निको नाम बालको बभूव । स चाऽग्निकस्तस्मात् स्थानाद् देशान्तरं प्रति चलितः सार्थाद्धीनः परिभ्राम्यन् कञ्चित्तापसाश्रयमगात् । तं चाऽग्निकं जमः कुलपतिस्तनयत्वेनाऽग्रहीत् । तत्र च स जमदग्निनाम्ना ख्यातोऽभूत् । तीव्रं तपश्च तप्यमानोऽसौ दुःसहेन तेजसा भूमौ पप्रथे ।
तदा च श्राद्धः पूर्वजन्मनाम्ना वैश्वानरः सुरस्तापसभक्तो धन्वन्तरिश्च व्यवदाताम् । तयोरेक आर्हतं धर्ममितरश्च तापसानां धर्मं प्रमाणमाह । तदा च तयोर्निर्णयो जातो - यदार्हतेषु जघन्यस्तापसेषु च प्रकृष्टः, आवाभ्यां को गुणैरतिरिच्यत इति परीक्षणीयम् ।
षष्ठं पर्व चतुर्थः सर्गः
तदानीं च मिथिलापुर्यां नवधर्मपरिष्कृतः पद्मरथो नाम नृपो वासुपूज्यजिनान्तिकं दीक्षां ग्रहीतुं गच्छन् भावतो यतिस्ताभ्यां देवाभ्यां पथि ददृशे । ताभ्यां च परीक्षाकाङ्क्षया पाना-ऽन्ने ढौकिते, नृपस्तृषितः क्षुधितोऽपि तद् नाऽग्रहीत् । ततस्तौ देवौ कर्करकण्टकैर्नृपस्य पदोः पीडां चक्राते । तथाऽपि सोऽनाकुल एव प्रस्रवद्रक्तधाराभ्यां पादाभ्यां तादृशे पथि सञ्चचार । तथा ताभ्यां भूपतेः क्षोभाय गीत-नृत्तादि निर्ममे । तदपि तस्मिन् मोघमभवत् ।
ततस्तौ सिद्धपुत्ररूपेण पुरोभूयोचतुः - 'महाभाग ! तवाऽद्याऽपि महदायुः, युवा चाऽसि, तद्भोगान् स्वच्छन्दं भुङ्क्ष्व । यौवने तपोधीः का ? क उद्यमी निशीथकृत्यं प्रातः कुर्यात् ? तद्यौवनेऽतिक्रान्ते तपो गृह्णीया:' । तदा नृप ऊचे - 'यदि बह्वायुस्तदा बहु पुण्यं भविष्यति, यतो जलमानेन कमलनालं वर्धते । चपलेन्द्रिये यौवने यत् तपस्तदेव तपः । रणे यः शूरः स एव शूरः ' । ततस्तस्मिन् सत्वादचलिते साधु साध्विति वादिनौ तौ तापसोत्कृष्टं जमदग्नि परीक्षितुं जग्मतुः ।
तं जमदग्नि विस्तारिजटासंस्पृष्टभूतलं वल्मीकाकीर्णपादान्तं दान्तं दृष्ट्वा तत्श्मश्रुलताजाले मायया नीडं निर्माय तौ देवौ चटकमिथुनीभूय तस्थतुः । ततश्चटकञ्चटकामूचे - 'हिमवद्गिरौ यास्यामि' । सोचे- 'अन्यासक्तस्त्वं न समेष्यसि, अतोऽहं नाऽनुमन्तुं शक्नोमि । ततश्चटकञ्चटकामब्रवीत्- 'यद्यहं न समेष्यामि तदा गोघातपातकेन गृह्ये' ।
ततश्चटकोवाच- 'यद्यस्य मुनेः पापेन गृह्ये इति शपथं करोषि तदैव त्वां विसृजामि' । तच्छ्रुत्वा च क्रुद्धो जमदग्निरुभाभ्यामपि हस्ताभ्यां गृहीत्वोवाच-‘मयि दुष्करं तपः कुर्वाणे कीदृशं पापम् ?'

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129