Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दर्शनैर्मुहुस्तिरस्कारं दर्शयामास । स च श्रेष्ठ्यनिच्छयाऽपि परिवेष्य निविण्णः स्वामिपादान्ते वणिक्सहस्रेण समं प्राव्राजीत् । तथा द्वादशाङ्गधरो द्वादशाब्दी परं व्रतं कृत्वा मृत्वा सौधर्मे तत्कल्पेन्द्रः समजायत । स परिव्राजकोऽपि मृत्वाऽऽभियोग्येन कर्मणा तस्यैव वाहनमैरावणो द्विपोऽभूत् । तं च शक्रं प्रेक्ष्य सामर्षः पलायितुं प्रवृत्तः प्रसह्य धृत्वाऽऽरुरोह शक्रः । ततः स द्वे शीर्षे चकार । इन्द्रोऽपि यावच्छीर्षों गजस्तावच्छीर्षो बभूव। भूयः पलायमानः स शक्रेण वज्रेणाऽऽहत्य प्राग्जन्मवैरी वशंवदश्चक्रे ।।
सुव्रतस्वामिनश्चाऽऽकेवलाद् विहरत एकादशमासन्यूनाष्टिमाब्दसहस्यगात् । तदानीं प्रभोः परिवारे च श्रमणानां त्रिंशत्सहस्राणि, साध्वीनां पञ्चाशत्सहस्राणि, चतुर्दशपूर्विणां सहस्त्रार्धम्, अवधिज्ञानिनामष्टादशशतानि, मन:पर्ययिणां पञ्चदशशतानि. केवलिनामष्टादशशतानि, जातवैक्रियलब्धीनां सहस्रद्वितयम्, उत्पन्नवादलब्धीनां सहस्रं द्वे शते. श्रावकाणां लक्षमेकं द्वासप्ततिसहस्री च, श्राविकाणां सार्धा त्रिलक्षी चाऽभवन् । निर्वाणकाले च मुनिसुव्रतनाथः सम्मेतादि गत्वा मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते ज्येष्ठकृष्णनवम्यां श्रवणस्थे चन्द्रे तैमुनिभिः सममव्ययं पदं प्राप ।
तदेवं मुनिसुव्रतनाथस्य कौमार-व्रतयोः पृथक् सार्धाः सप्ताब्दसहस्राः, राज्ये पञ्चदश, एवं त्रिंशद्वर्षसहस्राण्यायुः । श्रीमल्लिस्वामिनिर्वाणाच्च चतुष्पञ्चाशदब्दलक्षेषु गतेषु मुनिसुव्रतनाथनिर्वृतिरभूत् । सुरेन्द्राश्च समुपेत्य तैर्मुनिभिः सममव्ययं पदं गतवतो मुनिसुव्रतनाथस्य मोक्षमहिमानं विदधुः ॥ ७ ॥
इति श्रीमुनिसुव्रतजिनचरितवर्णनात्मकः सप्तमः सर्गः ॥७॥
अष्टमः सर्गः
श्रीमहापद्मचक्रिचरितम् अथ जिनेन्द्रे मुनिसुव्रते विहरत्येव महापद्मचक्री बभूव । तच्चरितं यथा-इह जम्बूद्वीपे प्राग्विदेहेषु सुकच्छविजये श्रीनगरे पुरे प्रजापालो नाम राजा बभूव । एकदा स आकस्मिकं विद्युत्पातं दृष्ट्वा विरक्तबुद्धिः समाधिगुप्तमुनेः समीपे व्रतमादाय चिरं पालयित्वा विपद्याऽच्युतेन्द्रोऽभूत् ।
इतश्च जम्बूद्वीपे भरते हस्तिनापुरे इक्ष्वाकुवंशे पद्मोत्तरो नाम नृपो बभूव । तस्य च ज्वालानाम्नी महिष्यासीत् । तस्यां च तस्य केसरिस्वप्नसूचितो विष्णुकुमारो नाम प्रथमः पुत्रो जज्ञे । तथा प्रजापालजीवोऽच्युताच्च्युत्वा ज्वालादेव्या उदरे समवतीर्णश्चतुर्दशमहास्वप्नसूचितो महापद्मो नाम सुतोऽभवत् । तावुभावपि कुमारौ क्रमेण वर्धमानौ सर्वाः कला आचार्याज्जगृहतुः । तयोश्च महापद्मकुमारो जिगीषुरिति ज्ञात्वा पद्मोत्तरनृपेण यौवराज्ये निदधे ।
इतश्चोज्जयिनीनगरे श्रीवर्मा नाम नृपस्तदमात्यो नमुचिश्चाऽभूताम् । एकदा च विहरन् मुनिसुव्रतदीक्षितः सुव्रतो नामाऽऽचार्यः तत्र पुरे समवासरत् । तद्वन्दनाय गच्छतो नागरान् जनान् दृष्ट्वा क्वेमे गच्छन्तीति नृपो नमुचिं पृष्टवान् । नमुचिना च श्रमणवन्दनाय गच्छन्तीत्युक्तश्च नृपो वयमपि याम इत्यवोचत् । ततो

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129