Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इत्यब्रवम् । सोऽवोचत्-“श्रेष्ठिन् ! वीरभद्रनामा सम्प्राप्तयौवनो रूपवान् कविर्ज्ञानी सङ्गीतादिकलाकुशलो गुटिकादिप्रयोगतः कामरूपी चाऽस्ति । तस्याऽनुरूपेयं कन्यका दृश्यते' । मयाऽप्युक्तं'ममैषा कन्यका कलाकुशला, अस्या अनुरूपवरार्थं चिराच्चिन्ताग्रस्तोऽस्मि । दैवानुकूल्यात् तदयं सङ्गम आवयोः, तद्वयोस्तनयौ वधूवरत्वेन घटेताम्' ।
ततः सहृष्टो निजां पुरीं गत्वा महत्या जन्ययात्रया वीरभद्रं प्राहिणोत् । स च मम कन्यां परिणीय कतिचिदहानि स्थित्वा सदारः स्वपुरीं ययौ । अन्यदा चाऽ श्रौषं यद् वीरभद्रो निशाशेषे मम तनयां सुप्तां मुक्त्वैकाकी क्वचिदप्यगात् । सम्प्रति च कोऽपि वामनस्तत्प्रवृत्तिमानैषीत् , किन्तु स व्यक्तं नाऽऽख्याति । ततः प्रभो ! स्फुटमाख्याहि' ।
एवं सागरदत्तेन विज्ञप्तः कुम्भो गणधरः प्राह- 'तस्यां रात्रौ तव जामातैवमचिन्तयत्-यत् कलाकुशलो यन्त्रनिपुणः सिद्धमन्त्रो ज्ञातदिव्यगुटिकाप्रयोग: सर्वविज्ञानपटुश्चाऽस्मि । किन्त्वप्रकाशनात् सर्वमपि निरर्थकम् । इह च गुरुलज्जया नियन्त्रितोऽस्मि । इह कूपमण्डूकवत् तिष्ठन् कापुरुषोऽस्मि । तदन्यदेशेषु गत्वा निजान् गुणान् प्रकाशयामि' । एवं विचिन्त्य समुत्थाय भूयः सोऽचिन्तयत्यदि मम प्रिया कृतकसुप्ता, तर्हि सा गतिविघ्नाय भवेत्' । ततः स कामक्रीडाकृते तां समुदस्थापयत् ।
सोवाच-शिरोतिर्मा बाधते, ततः किं कदर्थयसि । कस्य दोषेण तव शिरोतिरिति तेन पृष्टा सा त्वद्दोषेणेति जगाद । ततः कीदृशेन दोषेणेति पुनस्तेन पृष्टा सा-अत्राऽपि समये यत्तव वैदग्ध्यवाक्, तेनैवेत्युदतरत् । तत: सोऽवोचत्-मा कुपः, पुनर्ने दृशं करिष्ये' । तां साभिप्रायमेवमुक्त्वाऽधिकं रमयामास । साऽपि
षष्ठं पर्व - द्वितीयः सर्गः रतिश्रान्ता तां वक्रोक्तिमजानती सुखमस्वाप्सीत् । ततस्तां सत्यसुप्तेति मुक्त्वा वीरभद्रो निजाद् गृहाद् निर्जगाम । तथा स गुटिकाप्रयोगेण स्वं श्यामवर्णं चकार । तथा स्वकलापाटवं दर्शयन् ग्राम-पुरादिषु विद्याधर इव स्वैरमभ्राम्यत् । सा प्रियदर्शना च श्वसुरावापृच्छय पितृगृहमगात् ।
वीरभद्रश्चैकदाऽटन् सिंहलद्वीपे रत्नाकराख्यनृपाधिष्ठितं रत्नपुरं नाम पुरमगात् । तत्र शङ्खस्य श्रेष्ठिनो हट्टे निषण्णस्तेन कुत आगत इति पृष्टस्ताम्रलिप्त्याः स्ववेश्मतो रुषित्वा निःसृतो भ्रमन्निहाऽऽगममित्यवोचत् । ततः शङ्खोऽवोचत्-त्वया न साधुकृतं, तदेवं वक्रमपि कर्म दैवेन सरलीकृतं, यदक्षताङ्गो मम सन्निधावत्राऽऽगाः । एवमुक्त्वा तं स्वगृहं नीत्वा स्नान-भोजनादि कारयित्वा सस्नेहमुवाच-'ममाऽनुत्पन्नपुत्रस्य त्वमेव पुत्रः, तत्स्वामी भूत्वा मद्विभवमुपभुक्ष्व, दानधर्मादिकं कुरुष्व च । मदृशोः प्रीति कुरुष्व । धनं हि सुलभं, किन्तु तद्भोक्ता सुतो दुर्लभः' । ततो वीरभद्रोऽपि सविनयमुवाच-'पितुर्गेहाद् निष्क्रान्तोऽपि पितुर्गेह एवाऽहमागमम् । तवाऽऽज्ञावशंवदोऽस्मि, तथा सर्वदा तव शिष्योऽस्मि । अहं तव धर्मपुत्रोऽस्मि' । ततः शङ्खस्य श्रेष्ठिनो गृहे पौरान् कलाकौशलैर्विस्मापयन् सुखमस्थात् ।
तत्र च रत्नाकरनृपस्य विश्वसुन्दरी पुरुषद्वेषिण्यनङ्गसुन्दरी नाम सुताऽऽसीत् । शङ्खश्रेष्ठिसुता च विनयवती नाम तस्याः पार्श्वे प्रतिदिनं याति स्म । सैकदा क्व यासीति वीरभद्रेण पृष्टा यथातथमाख्यत् । सा ते सखी कैविनोदैः कालं गमयतीति तेन पृष्टा सा वीणाद्यैरित्यवोचत् । ततोऽहमपि यास्यामीति तेनोक्ता सा-तत्र पुंसो बालकस्याऽपि न प्रवेशः, तव कुत इत्युक्तो वधूरूपं विधाय यास्मामीत्यभिधाय स स्त्रीवेषमासाद्य तया सममगात् । अनङ्ग

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129