Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
क्षयात् प्रभोः केवलमुत्पन्नम् । सद्यश्च देवैर्विहिते समवसरणे यथाकल्पं प्रविश्य षष्ट्यग्रधनुस्त्रिशत्युन्नतं चैत्यवृक्षं प्रदक्षिणीकृत्य प्रभुः प्राङ्मुखो रत्नसिंहासने समुपाविशत् । ततो देवादिषु यथास्थानमुपविष्टेषु शक्रा-ऽरविन्दाभ्यां स्तुतः प्रभुर्धर्मदेशनां प्रारेभे
८
‘चतुर्वर्गेष्वेकान्तसुखसागरो मोक्षः प्रधानम् । तत्र साधकतमं ध्यानं, तच्च मनसोऽधीनम् । मनश्चाऽऽत्माधीनमपि कुर्वतां योगिनां रागादिभिः समाक्रम्य परायत्तं विधीयते । रागाद्याः पिशाचा इव मनागपि मिषं प्राप्य रक्ष्यमाणमपि मानसं मुहुर्मुहुश्छलयन्ति । तथा रागादिविलुप्तज्ञानेन मनसा जनोऽन्धेनाऽन्ध इव नरकगर्ते पात्यते । रागश्च द्रव्यादिषु रति-प्रीती । तेष्वेवाऽरत्यप्रीती च द्वेषः । एतावुभौ दृढतरौ सर्वप्राणिनां बन्धने सर्वदुःखवृक्षाणां मूलकन्दौ च । यदि राग-द्वेषौ न स्यातां तर्हि सुखे को विस्मयेत दुःखे कः कृपणो भवेत् मोक्षं को वा नाऽऽप्नुयात् ? राग-द्वेषयोश्च परस्परमविनाभावित्वम् । तयोरेकतरत्यागे द्वयमपि त्यक्तं भवति । कामादयश्च रागस्य सेवकाः, मिथ्याभिमानप्रमुखाश्च द्वेषस्य । तयोश्च मोहः पिता । एवमेते त्रय एव दोषाः, तैश्च जन्तवो भववारिधौ भ्रम्यन्ते ।
जीवः स्वभावतः स्फटिकवद् निर्मलः एतैरुपाधिभूतैस्तादात्म्येनाऽवभासते । एतैर्हि दोषैर्जीवानां स्वरूपं ज्ञानमेव ह्रियते । निगोदादित आरभ्याऽसन्नमुक्तिजीवपर्यन्तमेतेषां प्रसरः । एतैश्च वैरादिव मुक्त्या मुमुक्षुयोगः प्रतिषिध्यते । मुनिर्व्याधादिभ्योऽपि तथा न बिभेति यथा रागादिभ्यः । योगिनां वर्त्म हि पार्श्वस्थाभ्यां रागद्वेषाभ्यामतिसंकटम् । अतो मुमुक्षुभिरनलसैः समतया राग-द्वेषजयो विधातव्यः' ।
प्रभोरेवं देशनया प्रबुद्धा बहवो जना: प्राव्रजन् । कुम्भादयस्त्रयस्त्रिंशद् गणभृतश्च जज्ञिरे। प्रथमपौरुष्यां पूर्णायां प्रभौ
षष्ठं पर्व द्वितीयः सर्गः देशनाविरते द्वितीयपौरुष्यां पूर्णायां च कुम्भे गणधरे देशनावर शक्राद्याः प्रभुं नत्वा स्वं स्वं स्थानं ययुः ।
तत्तीर्थे समुत्पन्ने च श्यामवर्णस्त्र्यक्षः शङ्खरथो दक्षिणैः षड्भिर्भुजैर्मातुलिङ्ग-बाण- खड्ग मुद्गर- पाशा - ऽभयधरो वामैश्च नकुला-ऽसि-चर्म-शूला-ऽङ्कुशा - ऽक्षसूत्रधरो यक्षेन्द्रः, नीलाङ्गी कमलासना दक्षिणाभ्यां बाहुभ्यां मातुलिङ्गोत्पलधरा वामाभ्यां च पद्माऽक्षसूत्रधरा धारिणी नाम देवी च शासनदेवते अरनाथप्रभोः सदा सन्निहिते अभूताम् ।
***
अथाऽन्यदा प्रभुर्मेदिनीं विहरन् पद्मिनीखण्डपत्तने समवासार्षीत् । तत्राऽपि च देशनां कृत्वा विरते प्रभौ कुम्भे गणधरे च संशयच्छिदं देशनां कृत्वा विरते एको वामनोऽभ्येत्य धर्मं श्रोतुमुपाविशत् । ततः श्रेष्ठी सागरदत्तः कुम्भं गणधरं नत्वाऽब्रवीत् - 'भगवन् ! भविनः सर्वे भवप्रकृत्या दुःखिनः । तेष्वहं विशेषतो दुःखितोऽस्मि, यतो मम सुखलेशोऽपि नाऽस्ति । नित्य भार्यायां मे नामतः प्रियदर्शना रूपवती दुहितोत्पन्ना | कलाकुशला च सा यौवनं प्रपेदे । तस्या अनुरूपं वरमपश्यन् दुःखितो जिनमत्या किं चिन्तामाप्नोसीति पृष्टश्चिन्ताकारणमकथयम् । ततस्तयोक्तम् - 'श्रेष्ठिन् ! त्वया श्रेष्ठो वरो ग्राह्यः, येनाऽऽवयोरनुतापो न भवेत्' । मयोक्तं- 'भाग्याधीनमेतत् सर्वेऽपि हि स्वहितमिच्छन्ति' । तामेवमुक्त्वा विपणौ गच्छन् ताम्रलिप्त्याः पुर्याः समागतमृषभदत्तसार्थवाहमद्राक्षम् । तेन सह च साधर्मिकत्वात् सस्नेहाः पूर्वसुहृदेव वाणिज्यादिवार्ता: समभूवन् ।
एकदा च स मम गृहमागतः प्रियदर्शनां सुचिरमद्राक्षीत् । कस्य कन्येयमिति पृष्टोऽहं 'ममेयं, केन हेतुना त्वया सुचिरं वीक्ष्यते'

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129