Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः सोऽवोचत्- 'अस्त्वेवं किन्त्वपवादो मा भूदित्यतः परमिह नाऽऽगमिष्यामि, त्वया नृपो विज्ञाप्यः' । तया तत्स्वीकृते वीरभद्रो निजगृहं ययौ । साऽपि जननीमाहूयाऽवोचत् - 'मयाऽनुरूपो वरो निरूपितोऽस्ति, शङ्खश्रेष्ठिसूनुर्वीरभद्रः कला-रूपादिभिः पूर्णोऽस्ति । अद्यैव तस्मै मां देहि । तातो मदर्थे यथा श्रेष्ठिनं स्वयमर्थयते, तथा कुरु । तच्छ्रुत्वा मुदिता राज्ञी राज्ञे सर्वं वृत्तान्तमवोचत् । ततः प्रसन्नो राजा श्रेष्ठिनमाहूयाऽनङ्गसुन्दरीवीरभद्रयोर्विवाहं स्थिरीकृत्य शुभे दिने शुभे लग्ने समहोत्सव तौ पर्यणाययत् । तयोश्च दिने दिने प्रीतिरवर्धत । वीरभद्रश्च जैनं धर्ममुपदिशन् तां श्राविकां व्यधात् । पटेऽर्हत्प्रतिमां चतुर्विधं सङ्घ च स्वयं लिखित्वा तस्यै समार्पयत् । १४ अन्यदा च वीरभद्रो दध्यौ - 'मयि स्निग्धेयमीक्ष्यते, किन्तु प्रकृतिलोलानां स्त्रीणां स्थैर्ये न निश्चयः । अत एतस्या आशयं जानामि' । एवं विमृश्य सोऽनङ्गसुन्दरीमवोचत् - ' त्वत्तोऽन्यद् न मे किञ्चित् प्रियतमं, तथाऽप्यहं स्वदेशगमनाय त्वामापृच्छे, चिरं मद्वियोगकदर्थितौ मत्पितरौ गत्वाऽऽश्वासयामि, त्वमिहैव तिष्ठ, अहं द्रुतं भूयोऽप्यागमिष्यामि । त्वां विनाऽहमन्यत्र स्थातुं नेश्वरः ' । तच्छ्रुत्वा म्लानमुखी सोवाच- त्वया साधु जल्पितं, यच्छ्रवणमात्रेण मेसवो यियासन्तीव । त्वमीदृशः कठिनचित्तोऽसीत्येवमद्यैव ज्ञातम्' । ततो वीरभद्रोऽवोचत् प्रिये ! मा कुपः, त्वां सहैव नेष्यामि' । ततः सोऽनङ्गसुन्दर्या सहैव स्वदेशगमनाय नृपं सनिर्बन्धमपृच्छत् । नृपश्च कथञ्चित् प्रियान्वितं वीरभद्रं गमनायाऽनुज्ञातवान् । ततस्तौ पोतारूढौ जलवर्त्मना चेलतुः । पोते च कियन्तमध्वानं गते महावायुर्वातुमारब्धवान् । उत्तालतरङ्गवशादुच्छलितश्च पोतस्त्रिवासरीं षष्ठं पर्व द्वितीयः सर्गः भ्रामं भ्रामं ग्रावोपरि प्रस्फुटितवान् । स्फुटिते च पोते तदीयमेकं फलकं सम्प्राप्य पञ्चरात्रेण कथञ्चिदेकं वनाकुलं तटं प्राप । तत्र च मूच्छिता साऽनङ्गसुन्दरी केनचित् तापसकुमारेण दृष्ट्वोत्थाप्याऽऽश्रमपदं नीता । तत्र ‘पुत्रि ! विश्रब्धा तिष्ठे 'ति कुलपतिनोक्ता तापसीभिः पाल्यमाना कतिपयैर्दिवसैः स्वस्थाऽजायत । ततः कुलपतिस्तस्या रूपातिशयात् तापसानां समाधिच्छेदशङ्कया तामूचे'वत्से ! इतोऽदूरत एव पद्मिनीखण्डपत्तनमस्ति । तत्र ते भर्त्रा सह सङ्गमोऽवश्यम्भावी, तज्जरद्भिस्तापसैः सह त्वं तत्रैव गच्छ' । इत्थं कुलपत्याज्ञया सा तापसैः सह तत्पत्तनमगात् । तापसाश्च पुरप्रवेशो नाऽस्माकमर्ह इति प्रोच्य पुराद् बहिस्तां त्यक्त्वा व्यावृत्त्य जग्मुः । तत्र सेतस्तत ईक्षमाणा कायचिन्तार्थमायान्तीं सुव्रतानाम्नीं व्रतिनीं व्रतिनीभिः समन्वितामपश्यत् । ता दृष्ट्वा च- 'मम पत्या पटे लिखित्वैता दर्शिता' इति स्मृत्वा द्रुतमुपेत्य पूर्वाभ्यस्तेन विधिना सुव्रतां व्रतिनीश्च ववन्दे । तथा रचिताञ्जलिः सिंहलद्वीपचैत्यानि मगिरा वन्दस्वेति तामुवाच च । ततः सुव्रतया सिंहलात् कथमेकाकिनी निष्परिच्छदा समागताऽसीति पृष्टा सुस्था सर्वं कथयिष्यामीत्युक्त्वा तया सह तस्याः प्रतिश्रयं शीघ्रं जगाम । तत्र च भक्त्या साध्वीर्वन्दमाना सा तव सुतया प्रियदर्शनया दृष्ट्वा पृष्टा च सुव्रतादर्शनान्तं सर्वमात्मनो वृत्तान्तमचकथत् । ततः प्रियदर्शनया सोचे-'सुन्दरि ! मद्भर्तुर्वीरभद्रस्य त्वया वर्णितं सर्वं कलादि सम्वादि । किन्त्वेकः श्यामो वर्णो विसम्वदति' । ततो गणिन्या सुव्रतया 'इयं प्रियदर्शना ते धर्मस्वसेत्यनया सह धर्मानुष्ठानतत्परा तिष्ठेत्युक्ता तया सह साऽनङ्गसुन्दरी तत्र तस्थौ । इतश्च वीरभद्रोऽपि प्रवहणे भग्ने एकस्मिन् फलके लग्नः सप्तमे दिवसे रतिवल्लभनाम्ना विद्याधरेण दृष्टो वैताढ्यमूनि नीतश्च ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129