Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुन्दर्या च केयमिति पृष्टा सा विनयवती मत्स्वसेति जगाद । तदा च तयाऽनङ्गसुन्दर्या फलके विरहार्ता हंसी लेखितुमुपचक्रमे । ततस्तां वीरभद्र ऊचे- त्वया विरहपीडितेयं लेखितुमारेभे, किन्तु दृष्ट्यादि न तादृशम्' । ततस्त्वमालिखेत्युक्त्वा सा तस्मै फलकमर्पयत् । वीरभद्रोऽपि तादृशीं हंसी लिखित्वा तस्यै समर्पयामास। सा च तन्निरूप्याऽब्रवीत्-अहो ! अन्तर्भावप्रकाशकमालेख्यनैपुण्यम् । ईदृशी कलाविदियत्कालं किं नाऽऽनीता ?
ततो वीरभद्रोऽवोचत्-गुरूणामभिशङ्कया नाऽहमिहाऽऽनीता, अन्यत् किमपि कारणं न । ततस्तया प्रत्यहमागन्तव्यमित्यूचे, नाम च पृष्टम् । वीरभद्रश्च झटिति वीरमतीति स्वं नामोक्तवान् । ततोऽन्या अपि कला वेत्सि किमिति तया भूयः पृष्टा विनयवत्युवाच-'स्वयमचिराज्ज्ञास्यसि' । तत एवमस्त्वित्युक्त्वाऽनङ्गसुन्दरी सत्कृत्य तदन्वितां विनयवतीं विससर्ज । ततो वीरभद्रो गृहे वधूवेषं मुक्त्वाऽऽपणे श्रेष्ठिनः पार्श्वे ययौ । श्रेष्ठिना चेयच्चिरं क्वाऽस्था इति पृष्टचोद्यानाय गतोऽस्मीत्युदतरत् । तथैव द्वितीयदिनेऽपि स तत्र गतोऽनङ्गसुन्दरी वीणां वादयन्तीं ददर्श । तदा स उवाच- 'एषा तन्त्री न सुस्वरा, यतोऽस्यां मनुष्यकेशोऽनुस्यूतोऽस्ति' । त्वया कथं ज्ञायत इति तया पृष्टश्च- 'त्वदुपक्रान्तरागनिर्वाह दृष्ट्वा ज्ञायत' इत्युक्तवान् ।
ततश्च स तयाऽपितां वल्लकी तत्क्षणमुत्कीलयामास । तन्मध्याच्च मनुष्यकेशमाकृष्य तस्या विस्मयमादधद् दर्शयामास । तथा तत्तन्त्रीं भूयः सज्जयित्वा वादयंश्च श्रवणामृतं रागं प्रपञ्चयामास । तत्कौशलेन च साऽनङ्गसुन्दरी सा पर्षच्चाऽतिविस्मिता जाता । तद्वीणागीतमाकर्ण्य च राजकन्या तस्मिन् नितरां सस्नेहा जाता । स च वीरभद्रस्तामवसरप्राप्तमन्यास्वपि कलासु प्रावीण्यं
षष्ठं पर्व - द्वितीयः सर्गः दर्शयामास । ततः स्वानुरक्तां तां ज्ञात्वाऽन्यदा रहसि शङ्खमवोचत्'तात ! विनयवत्याः पृष्ठतो युवतिवेषं विधाय प्रत्यहमहमनङ्गसुन्दर्याः पार्श्वे गच्छामि । तद्युष्माभिर्न भेतव्यम् । अहं तथा करिष्यामि, यथा न कोऽप्यनर्थो भवेत् । प्रत्युत गौरवमेव भवेत् । यदि नृपो मह्यं निजां कन्यां दातुं व: प्रार्थयते, तदा भवताऽऽदौ नाऽनुमन्तव्यम् । ततः श्रेष्ठ्युवाच-'त्वं विज्ञोऽसि, तथाऽपि स्वकुशलं कार्यमिति ब्रवीमि' । वीरभद्र उवाच- 'मा विमना स्म भूः, स्वसूनोः शुभपरिमाणं कौशलमचिरादेव पश्य' । ततस्त्वं वेत्सीत्युक्त्वा श्रेष्ठी मौनं समाश्रयत् ।
तदानीं च रत्नाकरनृपसभायां वार्ता जाता-'ताम्रलिप्त्याः कश्चिद् युवा शङ्खश्रेष्ठिगृहे समागतोऽन्वहं पुरे चित्राभिः कलाभिरचित्रीयत । किन्तु वैदेशिकत्वात् तस्य ज्ञातिर्न ज्ञायते । आकृत्या तु महाकुलोत्पन्न इव प्रतिभाति' । ततो नृपतिश्चिन्तयामास-'अयं युवा चेद् मत्पुत्र्यै रोचते, तदा शोभनम्' ।
एकदा च वीरभद्रेण 'भोगसामग्यां सत्यामपि किं भोगविमुखाऽसीति पृष्टाऽनङ्गसुन्दर्यवोचत्-'भोगाः कस्य न वल्लभाः? किन्त्वनुरूपो वल्लभो दुर्लभः । अनूढा नारी वरं, किन्त्वकुलीनेन पत्या विडम्बिता न । इयत्कालमनुरूपं वरं नाऽद्राक्षम्, अल्पगुणं वरं कृत्वाऽलम्' । ततो वीरभद्रः पुनरवोचत्-'ममाऽनुरूपो वरो नाऽस्तीति मा वोचः, यत इयं वसुन्धरा बहुरत्ना । कोऽनुरूपो वरस्तव, तत् कथय, अद्यैवाऽहं तत् सम्पादयामि' । तच्छ्रुत्वाऽनङ्ग सुन्दर्यवदत्-'एवमाशाप्रदानतः किं मां कदर्थयसि । अदो मिथ्या वदसि । यदि सत्यं, तर्झनुरूपं वरं दर्शय, येन मम कला-रूपयौवनादि कृतार्थं भवेत्' । तयेत्थमुक्तो वीरभद्रः स्वं रूपमदर्शयत्। ततः सोचे-'अहं त्वदधीनाऽस्मि, त्वं मम पतिः' ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129