Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चतुर्धन्वशतोच्चं चैत्यपादपं प्रदक्षिणीकृत्य यथोपचारं रत्नसिंहासनं पूर्वाभिमुखोऽधितष्ठौ । सुरादयश्च सर्वे यथोपचारं यथाविधि यथास्थानं निविविशिरे । प्रभुं समवसृतं ज्ञात्वा कुरुनृपश्चाऽप्यागत्य प्रभुं नमस्कृत्याऽनुशक्रं कृताञ्जलिनिषसाद । ततः शक्र-कुरुराजयोः स्तुत्वा विरतयोः सतोः श्रीकुन्थुनाथो धर्मदेशनां विदधे
"अयं भवाम्भोधिोनिलक्षचतुरशीत्यावर्तभीषणो महादुःखनिबन्धनम् । अस्य तरणे चेन्द्रियोर्मिजयोर्जिता मनःशुद्धिरेव यानपात्रम् । सा हि ज्वलन्ती दीपिकेव निर्वाणपथप्रदर्शिनी । तस्यां हि सत्यां सर्वे गुणाः सन्ति । तस्यामसत्यां च केऽपि गुणा न सन्त्येव । अतो बुधैः सैव कार्या । मनःशुद्धि विहाय मुक्तये तपश्चरणं नावं विहाय भुजाभ्यां समद्रतरणवद ज्ञेयम् । अन्धस्य दर्पण इव मनःशुद्धि विना ध्यानं मुधा। चञ्चलं चेतो हि मुक्तये तप्यमानान् देहिनो वात्येवाऽन्यत्र कुत्रचित् क्षिपति । मनोराक्षसो हि जगत्त्रयीं संसारावर्तगर्ते पातयति । मनोवृत्तिनिरोधे कर्माणि निरुध्यन्ते । तदनिरोधे च तानि प्रसरन्ति । तस्माद् मुक्तिमिच्छता मन:शुद्धिरवश्यं विधेया । अन्यथा तप:-श्रुतादयः कायक्लेशमात्रफला एव भवन्ति । राग-द्वेषजयश्च मनशद्ध्यैव कर्तव्यः । येनाऽऽत्मा कालुष्यं हित्वा स्वस्वरूपेऽवतिष्ठते"।
एवं प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । स्वयम्भूप्रमुखाः पञ्चत्रिंशच्च गणधरा अभूवन् । प्रथमपौरुष्यां व्यतीतायां प्रभौ देशनाविरते स्वयम्भूर्गणधरः स्वामिपादपीठस्थो देशनामकरोत् । सोऽपि द्वितीयपौरुष्यां व्यतीतायां देशनां पारितवान् । ततः सुरादयः प्रभुं नत्वा स्वं स्वं स्थानमगुः ।
षष्ठं पर्व - प्रथमः सर्गः
तत्तीर्थे समुत्पन्ने च हंसरथः कृष्णवर्णो दक्षिणाभ्यां बाहुभ्यां वरद-पाशधरो वामाभ्यां च मातुलिङ्गा-ऽङ्कुशधरो गन्धर्वयक्षः, केकिवाहना गौराङ्गी दक्षिणाभ्यां बाहुभ्यां बीजपूर-शूलधरा वामाभ्यां च मुषण्ढी-पङ्कजधरा बलादेवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् ।
ततोऽन्यतो विहरत: प्रभोः परिवारे च साधूनां षष्टिसहस्री, साध्वीनां सषट्शती षष्टिसहस्त्री, चतुर्दशपूर्वभृतां सप्तत्यधिकषट्शती, अवधिज्ञानिनां च सार्धं सहस्रद्वितयं, मनःपर्ययिणां चत्वारिंशदधिका त्रयस्त्रिंशच्छती, केवलिनां त्रीणि सहस्राणि शतद्वयं च, वैक्रियलब्धिमतां शतान्येकपञ्चाशच्च, जातवादलब्धीनां सहस्रद्वितयं, श्रावकाणां न्यूनाशीतिसहस्रयुग् लक्षमेकं, श्राविकाणां त्रीणि लक्षाण्येकाशीतिसहस्री चाऽभवन् ।
केवलात् त्रयोविंशत्यब्दसहस्रेषु चतुस्त्रिंशत्सहितेषु सप्तसु शतेषु गतेषु निर्वाणसमयं ज्ञात्वा सम्मेताद्रिमुपेत्य प्रभुर्मुनिसहस्रेण सममनशनं प्रपन्नवान् । मासान्ते च वैशाखकृष्णप्रतिपत्तिथौ कृत्तिकास्थे चन्द्रे प्रभुस्तैर्मुनिभिः सममव्ययं पदं प्राप । तदेवं प्रभोः कौमार-राज्य चक्रवर्तित्व-व्रतेष समभागकं पञ्चनवत्यब्दसहस्रमायुरभवत् । श्रीशान्तिजिननिर्वाणादर्धपल्योपमे गते श्रीकुन्थुनाथजिननिर्वाणमभूत् । सदेवैर्देवेन्द्रैश्च प्रभोनिर्वाणमहिमा विदधे । प्रभोर्दष्ट्रादि च पूजयितुं यथावद् निजनिजगृहेषु निन्ये ॥१॥
इति श्रीकुन्थुनाथचरितवर्णनात्मकः प्रथमः सर्गः ॥१॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129