Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
Catalog link: https://jainqq.org/explore/002627/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ काव्यमाला । सप्तमो गुच्छकः । मूल्यं सपादों है। रूप्यकः । Page #2 -------------------------------------------------------------------------- ________________ KAVYAMÂLÂ. A collection of old and rare Sanskrit Kâvyas Nâtakas, Champûs, Bhâņas, Prahasanas, Chhandas, Alankâras &c. PART VII. EDITED BY MAHÂMAHOPADHYAYA PANDIT DURGAPRASAD WASUDEV LAXMAN S'ASTRI PANS'ÎKAR, AND Fourth Revised Edition. PUBLISHED BY PANDURANG JAWAJÎ, PROPRIETOR OF THE 'NIRNAYA-SAGAR' PRESS, BOMBAY, 1926. Price Ranel Page #3 -------------------------------------------------------------------------- ________________ [ All rights reserved by the publisher. ] PRINTER:-Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, POBLISHER:-Pandurang Jawaji, S 26-28, Kolbhat Lane, Bombay. Page #4 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। ससमो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा च संशोधितः। (चतुर्थं संस्करणम् ।) सच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १९२६ (अस्य ग्रन्थस्य पुनमुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिप रेवाधिकारः ।) मूल्य शासप्रकलार Page #5 -------------------------------------------------------------------------- ________________ अनुक्रमणिका। नम् .... .... १. मानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् .... २. सिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् .... ३. वादिराजप्रणीतमेकीभावस्तोत्रम् ४. धनंजयप्रणीतं विषापहारस्तोत्रम् .... ५. भूपालकविप्रणीता जिनचतुर्विंशतिका .... ६. देवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् ७. सोमप्रभाचार्यविरचिता सूक्तिमुक्तावली ८. जम्बूगुरुविरचितं जिनशतकम्.... .... .... ९. पद्मानन्दकविप्रणीतं वैराग्यशतकम् .... १०. जिनप्रभसूरिविरचितः सिद्धान्तागमस्तवः (सावचूरिः).... ११. आत्मनिन्दाष्टकम् .... .... .... .... १२. जिनवल्लभसूरिविरचितं महावीरखामिस्तोत्रम् .... .... १३. हेमचन्द्राचार्यविरचितं १४. , , (द्वितीयम् ) १५. जिनप्रभसूरिविरचितः पार्श्वनाथस्तवः १६. , विरचितं गोतमस्तोत्रम् .... त्रम् .... .... .... १७. जिनप्रभाचार्यविरचितः श्रीवीरस्तवः • आवारस्तवः .... .... .... १८. जिनप्रभसूरिविरचितश्चतुर्विंशतिजिनस्तवः १९. " पार्श्वस्तवः .... २०. , श्रीवीरनिर्वाणकल्याणकस्तवः २१. विमलप्रणीता प्रश्नोत्तररत्नमाला २२. धनपालप्रणीता ऋषभपञ्चाशिका .... .... .... २३. शोभनमुनिप्रणीता चतुर्विंशतिजिनस्तुतिः ( सटिप्पणी) .... १०७ ११० ११२ . . . . ११९ १२१ १२४ १३२ Page #6 -------------------------------------------------------------------------- ________________ काव्यमाला। सप्तमगुच्छकः। श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् । भक्तामरप्रणतमौलिमणिप्रभाणा मुद्दयोतकं दलितपापतमोवितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा वालम्बनं भवजले पततां जनानाम् ॥ १॥ १. भक्तामरस्तोत्रप्रणेता मानतुगाचार्यों मालवदेशान्तर्गतोज्जयिनीनगर्या वृद्धभोजमहीपतिसमये बाणमयूरयोः समकालिक आसीदिति भक्तामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते. तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो बाणभट्टसमय एव मानतुङ्गसमय इत्यवसीयते. मेरुतुङ्गप्रणीतबन्धचिन्तामणौ तु 'अथ यदा मालमण्डले श्रीभोजराजो राज्य चकार तदात्र गुर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास' इत्यस्ति. तदनन्तरं भोजसभायां बाणमयूराभ्यां सह मानतुङ्गाचार्यस्य विवादादि भक्तामरस्तोत्रनिर्माणं च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजराथदेशीयेतिहासे स्फुटमेव. स एव मानतुङ्गस्य काल इत्यपि वक्तुं शक्यते, एवं किंवदन्तीनां परस्परविसंवादे संदिग्ध एव मानतुङ्गसमयः. एतादृश्यो जनश्रुतयस्तु समयादिनिर्णये नातीवोपयुक्ता इत्यसकृदुक्तमेव. स्तोत्रं चैतद्दिगम्बरैः श्वेताम्बरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मकं च पठन्ति. तत्रैकत्रिंशत्पद्यानन्तरं 'गम्भीरताररव-' इत्यादि पद्यचतुष्टयं दिगम्बरैरधिकमुद्धोष्यते. अस्माकं तु चतु. श्चलारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुकरणप्रवृत्तः सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्रं चतुश्चत्वारिंशच्छोकैरेव निर्मितवान्. अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चत्वारिंशत्पद्यात्मकमेव दृश्यते. गम्भीरेत्यादि चत्वारि पद्यानि तु केनचन पण्डितंमन्येन निर्माय मणिमालायां काचशकलानीव मानतुङ्गकवितायां प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कवित्वमर्मविद्भिर्विद्वद्भिबोढुं शक्यते. टीकाश्चास्य स्तवस्य श्वेताम्बरैर्दिगम्बरैश्च निर्मिता भूयस्यो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्य दिगम्बरं श्वेताम्बराश्च श्वेताम्बरं वदन्ति. उपोद्घातस्तु टीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोकं मन्त्रस्तत्प्रभावकथा च लिखितास्ति. ते च मन्त्रास्तत्तत्पद्येभ्यः कथं निर्गता इति त एव जानन्ति. मन्त्रशास्त्ररीत्या तु १ का० स० गु० Page #7 -------------------------------------------------------------------------- ________________ काव्यमाला । यः संस्तुतः सकलवाङ्मयतत्त्वबोधा दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम् ) बुद्ध्या विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् ।। बालं विहाय जलसंस्थितमिन्दुबिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धारो दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपलब्धम्-तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्यां चतुश्चत्वारिंशत्पद्यानि व्याख्यातानि. प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च वर्णितास्ति. टीकानिर्माणसमयस्तु समाप्तौ ‘वर्षे षड्विंशाधिकचतुर्दशशतीमिते (१४२६) च वर्षौं । मासि नभस्ये रचिता सरखतीपत्तने विवृतिः ॥' इत्थमुक्तः नागार्जुनप्रणीतयोगरत्नावल्याष्टीकाकारो गुणाकरस्वस्माद्भिन्नः यतस्तट्टीकान्ते श्रीमन्नुपविक्रमतो द्वादशनवषड्भिरंङ्किते ( १२९६) वर्षे । रचिता गुणाकरेण श्वेताम्बरभिक्षुणा विवृतिः ॥' इति टीकानिर्माणकालो वर्तते. (२) तपागच्छीयहीरविजयसूरिशिष्यकनककुशलप्रणीता टीका संक्षिप्ता उपोद्घातप्रभावकथाभी रहिता च. अत्रापि चतुश्चवारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥ नयनशररसेन्दु (१६५२)-' मिते वर्षे सुविराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि सुसमाप्ता ॥' एतदार्यायुग्मं वर्तते. (३) इयं टीका कर्तृनामरहिता सामान्या उपोद्घातमात्रसमेता वर्तते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते. यतोऽनेन मानतुङ्गाचार्यों बृहद्च्छाधीशः श्वेताम्बरश्वासीदित्युक्तमस्ति. किंवयमष्टचत्वारिंशच्छोकान्व्याख्यातवानित्यस्य श्वेताम्बरले मनाक्संदेहः (४) इयं टीका १६६७ संवत्सरे दिगम्बरभट्टारकरत्नचन्द्रेण प्रणीता. अत्रापि तादृश एवोपोद्धातोऽनुष्टुप्पद्यघटितस्तादृश्य एव प्रभावकथाश्च वर्तन्ते. मानतुङ्गाचार्यों दिगम्बर आसीदित्यप्यत्रास्ति. किं तु टीकाकारः सुतरामप्रौढः एतीकाचतुष्टयमस्मभ्यं सूरतनगरवासिनास्मन्मिन्त्रेण केवलदासात्मजभगवा. नदासनेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि वस्माभिर्जयपुरेऽधिगतानि. तदाधारेणास्माभिरेतत्स्तोत्रमुद्रणमारब्धमिति शुभम्. १. श्रीनाभेयमिति गुणाकरः. वृषभमिति रत्नकुशलः, श्रीआदिनाथमिति कर्तृ. नामरहितटीका. Page #8 -------------------------------------------------------------------------- ________________ भक्तामरस्तोत्रम् । वक्तुं गुणान्गुणसमुद्र शशाङ्ककान्ता न्कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्र को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४ ॥ सोऽहं तथापि तव भक्तिवशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ ५॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतु ॥ ६ ॥ त्वत्संस्तवेन भवसंततिसंनिबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ मत्त्वेति नाथ तव संस्तवनं मयेद___ मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८॥ आस्तां तव स्तवनमस्तसमस्तदोषं __ त्वत्संकथापि जगतां दुरितानि हन्ति । “ दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासमाञ्जि ॥ ९ ॥ नात्यद्भुतं भुवनभूषणभूत नाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । Page #9 -------------------------------------------------------------------------- ________________ काव्यमाला । तुल्या भवन्ति भवतो ननु तेन किं वा ___ भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥ ११ ॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां __ यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ वकं क ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क निशाकरस्य __ यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लश्यन्ति । .. ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मैन्दरादिशिखरं चलितं कदाचित् ॥ १५॥ निर्धूमवर्तिरपवर्जिततैलपूरः __ कृत्लं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ १६ ॥ १. 'मन्दरो मेरुः । युगान्ते सर्वपर्वतानां क्षोभो भवति न तु मेरोः' इति टीकाकृतः. Page #10 -------------------------------------------------------------------------- ________________ भक्तामरस्तोत्रम् । नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र लोके ॥ १७ ॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभाजते तव मुखाजमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ किं शर्वरीषु शशिनाह्नि विवखता वा युष्मन्मुखेन्दुदलितेषु तमःसु नाथ । निष्पन्नशालिवनशालिनि जीवलोके __ कार्य कियजलधरैर्जलभारनप्रैः ॥ १९ ॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं __ नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ मन्ये वरं हरिहरादय एव दृष्टा ___ दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रा- नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । Page #11 -------------------------------------------------------------------------- ________________ काव्यमाला। त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥ २३ ॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानवरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधा त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धातासि धीर शिवमार्गविधेर्विधाना व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ॥ २५ ॥ तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदधिशोषणाय ॥ २६ ॥ को विस्मयोऽत्र यदि नाम गुणैरशेषै__ स्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रयजातगर्वैः ___ खमान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ उच्चैरशोकतरुसंश्रितमुन्मयूख___ माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ सिंहासने मणिमयूखशिखाविंचित्रे विभाजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥ २९ ।। १. मदनस्य क्षयहेतुम्. २. 'विबुधाश्रय' इति पाठः. Page #12 -------------------------------------------------------------------------- ________________ भक्तामरस्तोत्रम् । कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनिर्झरवारिधार मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त मुच्चैःस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ [गम्भीरताररवपूरितदिग्विभाग त्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स__न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ ३२ ।। मन्दारसुन्दरनमेरुसुपारिजात संतानकादिकुसुमोत्करवृष्टिरुद्धा । गन्धोदबिन्दुशुभमन्दमरुत्प्रयाता दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३ ॥ शुंभत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां युतिमाक्षिपन्ती । प्रोद्यदिवाकरनिरन्तरभूरिसंख्या दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ खर्गापवर्गगममार्गविमार्गणेष्टः ___ सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व भाषास्वभावपरिणामगुणप्रयोज्यः ॥ ३५ ॥] १. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरैर्न व्याख्यातम्. अस्माकमप्येतत्प्रक्षिप्तमेव भाति. २. 'ध्वनति'. उद्धा प्रशस्ता. मतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्तवाचकाः उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्. Page #13 -------------------------------------------------------------------------- ________________ काव्यमाला। उन्निद्रहेमनवपङ्कजपुञ्जकान्ती __पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३६॥ इत्थं यथा तव विभूतिरभूजिनेन्द्र __धर्मोपदेशनविधौ न तथा परस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा ___ तादृक्कुतो ग्रहगणस्य विकासिनोऽपि ॥ ३७ ॥ श्योतन्मदाविलविलोलकपोलमूल मत्तभ्रमद्भमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३८ ॥ भिन्नेभकुम्भगलदुज्वलशोणिताक्त मुक्ताफलप्रकरभूषितभूमिभागः ।। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३९ ॥ कल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव संमुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ४० ॥ रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेण निरस्तशङ्कस्त्वन्नामनागदमनी हृदि यस्य पुंसः ।। ४१ ॥ १. औषधिविशेषः. Page #14 -------------------------------------------------------------------------- ________________ भक्तामरस्तोत्रम् । वलगत्तुरङ्गगजगर्जितभीमनाद__ माजौ बलं बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२ ॥ कुन्तामभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ४३ ॥ अम्भोनिधौ क्षुभितभीषणनकचक्र पाठीनपीठभयदोल्बणवाडवामौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा स्वासं विहाय भवतः स्मरणाद्रजन्ति ॥ ४४ ॥ उद्भूतमीषणजलोदरभारभुमाः शोच्यां दशामुपगताश्च्युतजीविताशाः। त्वत्पादपङ्कजरजोभृतदिग्धदेहा __ मां भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः वयं विगतबन्धभया भवन्ति ॥ ४६॥ मत्तद्विपेन्द्रमृगराजदवानलाहि सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७ ॥ १. वारिवाहा जलप्रवाहाः. २, 'चके' इति पाठः. ३. 'भमाः', 'ममाः' इति च पाठा. Page #15 -------------------------------------------------------------------------- ________________ काव्यमाला। स्तोत्रस तव जिनेन्द्र गुणैर्निबद्धां __ भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४८॥ इति श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् । श्रीसिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि भीताभयप्रदमनिन्दितमङ्घ्रिपद्मम् । संसारसागरनिमज्जदशेषजन्तु पोतायमानमभिनम्य जिनेश्वरस्य ॥ १ ॥ यस्य खयं सुरगुरुगरिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । १. मानतुङ्गमिति खकीयं नामाप्याचार्येण युक्त्या चरमपद्ये निवेशितम्. २. कल्याण मन्दिरस्तोत्रं सिद्धसेनदिवाकरेण प्रणीतमिति प्रसिद्धिरस्ति. स्तोत्रान्तिमपद्ये तु कुमुदचन्द्र इति कर्तुर्नाम लभ्यते. तच सिद्धसेनदिवाकरस्य गुरुणा दीक्षावसरे विहितं नामेति स्तोत्रटीकाकर्ता वक्ति. सिद्धसेनदिवाकरो विक्रमादित्यसमय उज्जयिन्यामागत इत्यादि प्रबन्धचिन्तामणौ विक्रमादित्यप्रबन्धे वर्तते. स च श्वेताम्बर आसीदित्यपि ततः एव प्रतीयते. दिगम्बरास्तु दिगम्बरमेनं वदन्ति. ख्रिस्ताब्दीयषष्टशतकोद्भूतः श्रीवराहमिहिराचार्यो बृहज्जातकस्य सप्तमेऽध्याये कंचन सिद्धसेननामानं गणक स्मरति, स चायमेव सिद्धसेनदिवाकरः स्यात्. अन्येऽपि द्वित्राः सिद्धसेना जैनेषु प्रसिद्धाः सन्ति. कल्याणमन्दिरस्तोत्रं तु दिगम्बराः श्वेताम्बराश्च पठन्ति. किं तु भक्तामरस्तोत्रवदस्य भूयस्यष्टीकाः प्रतिपद्यं मन्त्रास्तत्प्रभाव किंवदन्त्यश्च नातीव प्रच. रिताः सन्ति. मध्ये प्रक्षिप्तश्लोका अपि न दृश्यन्ते. अस्मदृष्टेषु निखिलेष्वपि पुस्तकेषु चतुश्चत्वारिंशत्पद्यान्येव वर्तन्ते. एतन्मुद्रणावसरे चास्माभिरेकं कर्तृनामरहितसंक्षिप्तटीकासमेतमपरं हिन्दीभाषान्तरसहितमिति पुस्तकद्वयं भगवानदासश्रेष्ठितः प्राप्तम्. द्वित्राणि मूलपुस्तकानि चेति. Page #16 -------------------------------------------------------------------------- ________________ कल्याणमन्दिरस्तोत्रम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो. .. स्तस्याहमेष किल संस्तवनं करिष्ये ॥ २ ॥ (युग्मम् ) सामान्यतोऽपि तव वर्णयितुं खरूप मस्सादृशाः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल धर्मरश्मेः ॥ ३ ॥ मोहक्षयादनुभवन्नपि नाथ मर्यो नूनं गुणान्गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा न्मीयेत केन जलधेर्ननु रत्नराशिः ॥ ४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि - कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णतां कथयति खधियाम्बुराशेः ॥ ५॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जाता तदेवमसमीक्षितकारितेयं जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ ६ ॥ आस्तामचिन्त्यमहिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान्निदाघे प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ हृवर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । १. कमठो नाम पार्श्वनाथप्रभोस्तपोविघ्नकर्ता कश्चन दैत्य आसीत्. पार्श्वनाथस्यानुजन्मैव शत्रुभूतः कमठ इत्यपि केचिद्वदन्ति. 'शठकमठकृतोपद्रवाबाधितस्य' इति पार्श्वनाथस्तवेऽपि पार्श्वनाथविशेषणम्. Page #17 -------------------------------------------------------------------------- ________________ १२ १. सूर्ये. काव्यमाला | सद्यो भुजंगममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८ ॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोखामिनि स्फुरिततेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ त्वं तारको जिन कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा हेतिस्तरति यज्जलमेष नून मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धरवाडवेन ॥ ११ ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना स्त्वां जन्तवः कथमयो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ १२ ॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तस्तदा वद कथं किल कर्मचौराः । लोषत्यमुत्र यदि वा शिशिरापि लोके नीलमाणि विपिनानि न किं हिमानी ॥ १३ ॥ त्वां योगिनो जिन सदा परमात्मरूपमन्वेषयन्ति हृदयाम्बुजकोषदेशे । ३. निर्वाणं नीताः. २. चर्मभत्रा. Page #18 -------------------------------------------------------------------------- ________________ १३ कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य__ दक्षस्य संभवपदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाजिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां व्रजन्ति । तीव्रानलादुपलभावमपास्य लोके . चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विषविकारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि __ नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काँचकामलिभिरीश सितोऽपि शङ्खो ___ नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा___ दास्तां जनो भवति ते तरुरप्यंशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः ॥ १९ ॥ चित्रं विभो कथमवाड्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । १. अक्षस्य पद्मवीजस्य. २. 'संभविपदं' इति पाठः. ३. काचकामलादयो नेत्ररोगास्तद्युतैः. ४. श्रीपार्श्वनाथोऽशोकवृक्षतले स्थितवान्. 'उच्चैरशोकतरुसंश्रितं' इति भक्तामरस्तवेऽपि.. २ का० स० गु० Page #19 -------------------------------------------------------------------------- ________________ काव्यमाला। त्वद्गोचरे सुमनसां यदि वा मुनीश __ गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ स्थाने गभीरहृदयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसङ्गभाजो __ भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥ २१ ॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै नतिं विदधते मुनिपुङ्गवाय ते नूनमूर्ध्वगतयः खलु शुद्धमावाः ॥ २२ ॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै श्चामीकरादिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ उद्गच्छता तव शितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव । सांनिध्यतोऽपि यदि वा तव वीतराग नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ भो भोः प्रमादमवधूय भजध्वमेन___ मागत्य निर्वृतिपुरीं प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ उद्दयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः । मुक्ताकलापकलितोरुसितातपत्र व्याजात्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥ Page #20 -------------------------------------------------------------------------- ________________ कल्याणमन्दिरस्तोत्रम् । खेन प्रपूरितजगत्रयपिण्डितेन ___ कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यस्रजो जिन नमत्रिदशाधिपाना मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३० ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्गर्जदूर्जितघनौघमदभ्रमीम भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दभ्रे तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥ ३२ ॥ १. प्राकारत्रयेण. २. पार्थिवश्चासौ निपो घटः. 'पार्थिवनिभस्य', 'पार्थिवभवस्य' इति च पाठः. ३. घटस्तु वह्निकृतपाकेन शून्यस्तारयितुमसमर्थो भवति. ४. तरवारि खड्गः. 'विमलतरवारिधारात्रासितराजहंसमण्डलः' इति वासवदत्ताश्लेषः. Page #21 -------------------------------------------------------------------------- ________________ १६ काव्यमाला | ध्वस्तोर्ध्वकेश विकृताकृति मर्त्यमुण्डप्रालम्बभृद्भयदवत्रविनिर्यदभिः । प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ये त्रिसंध्यमाराधयन्ति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलक पक्ष्मल देहदेशाः पादद्वयं तव विभो भुवि जन्मभाजः ॥ ३४ ॥ अस्मिन्नपरभववारिनिधौ मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्र पवित्रमन्त्रे किं वा विपद्विषधरी सविधं समेति ॥ ३५ ॥ जन्मान्तरेऽपि तव पादयुगं न देव मन्ये भया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन पूर्वं विभो सकृदपि प्रविलोकितोऽसि । मैर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥ ३७ ॥ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि तेन जनबान्धव दुःखपात्रं यस्मात्क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्यपुण्यवसते वशिनां वरेण्य । १. गोत्रं नाम. २. मर्मभेदकाः. Page #22 -------------------------------------------------------------------------- ________________ एकीभावस्तोत्रम् | भक्त्या नते मयि महेश दयां विधाय दुःखाडुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ निः संख्यसारशरणं शरणं शरण्यमासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥ ४० ॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाहृद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । त्वद्विम्ब निर्मलमुखाम्बुजबद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३ ॥ जननयनकुमुदचन्द्र प्रभाखराः खर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ ( युग्मम् ) इति श्री सिद्धसेनदिवाकरविरचितं पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम् ॥ श्रीवादिराजप्रणीतं एकीभावस्तोत्रम् | एकीभावं गत इव मया यः खयं कर्मबन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति । १७ १. बिम्बं प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतत्प्रणीतमेकीभावस्तोत्रं दिगम्बरा एवं पठन्ति अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचूरिस्त्रीणि मूल पुस्तकानि चास्माभिर्जयपुर एव समधिगतानि. Page #23 -------------------------------------------------------------------------- ________________ १८ काव्यमाला | तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चेज्जेतुं शक्यो भवति न तया कोsपरस्तापहेतुः ॥ १ ॥ ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोवासे भवसि च मम स्फारमुद्भासमानस्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुमीष्टे ॥ २ ॥ आनन्दाश्रुस्त्रपितवदनं गदं चाभिजल्प यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥ ३ ॥ प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्या त्पृथ्वीचक्रं कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकरं स्वान्तगेहं प्रविष्ट - स्तत्किं चित्रं जिन वेपुरिदं यत्सुवर्णीकरोषि ॥ ४ ॥ लोकस्यैकस्त्वमसि भगवन्निर्निमित्तेन बन्धु स्त्वय्येवासौ सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतां चिरमधिवसन्मामिकां चित्रशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ ५ ॥ जन्माटव्यां कथमपि मया देव दीर्घं भ्रमित्वा प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी | तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं निर्मग्नं मां न जहति कथं दुःखदावोपतापाः || ६॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीं हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः । १. पूजयेत्. 'चायृ पूजा निशामनयोः '. २. कुष्ठरोगाक्रान्तं मदीयं शरीरमिति टीकाकारः. Page #24 -------------------------------------------------------------------------- ________________ एकीभावस्तोत्रम् । सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे । श्रेयः किं तत्वयमहरहर्यन्न मामभ्युपैति ॥ ७ ॥ पश्यन्तं त्वद्वचनममृतं भक्तिपाच्या पिबन्तं कारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् । त्वां दुर्वारस्मरमदहरं त्वत्प्रसादैकभूमि क्रूराकाराः कथमिव रुजाकण्टका निर्लठन्ति ॥ ८॥ पाषाणात्मा तदितरसमः केवलं रत्नमूर्ति निस्तम्भो भवति च परस्तादृशो रत्नवर्गः । दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ॥ ९ ॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही सद्यः पुंसां निरवधि रुजाधूलिबन्धं धुनोति । ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट स्तस्याशक्यः क इह भुवने देव लोकोपकारः ॥ १० ॥ जानासि त्वं मम भवभवे यच्च याक्च दुःखं जातं यस्य स्मरणमपि मे शस्त्रवन्निपिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ।। ११ ।। प्रापदैवं तव नुतिपदैर्जीवकेनोपदिष्टैः पापाचारी मरणसमये सारमेयोऽपि सौख्यम् । कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम् ॥ १२ ॥ शुद्ध ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिों चेदनवधि सुखावञ्चिका कुञ्चिकेयम् । । १. 'जीवकेन क्षत्रियवंशचूडामणिश्रीसत्यंधरमहाराजपुत्रेण' इति टीकाकारः. २. सौख्यमित्वस्य दैवमिति विशेषणम्. सारमेयः श्वा. Page #25 -------------------------------------------------------------------------- ________________ २० काव्यमाला । शक्योद्धारं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३ ॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तैरगाधैः । तत्कस्तेन व्रजति सुखतो देव तत्त्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ १४ ॥ आत्मज्योतिर्निघिरनवधिर्द्रष्टुरानन्दहेतुः कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः स्तोत्रैर्बन्धप्रे कृतिपरुषोद्दामधात्रीखनित्रैः ॥ १५ ॥ प्रत्युत्पन्नानयँहिमगिरेरायता चामृताब्धे - र्या देव स्वत्पदकमलयोः संगता भक्तिगङ्गा । चेतस्तस्यां मम रुजिवशादाष्ठतं क्षालितांह: कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥ १६ ॥ प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा । मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेषरूपां दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ १७ ॥ मिथ्यावादं मलमपनुदसप्तभङ्गीतरङ्गै र्वागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते । तस्यावृत्ति सपदि विबुधाश्चेतसैवाचलेन व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ १८ ॥ १. तत्त्वैः सप्तसंख्यैरवभासते यः २. 'प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतयः' इति टीका. ३. स्याद्वादनय हिमाचलात्. ४. स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति, स्यादवक्तव्यम्, स्यादस्त्यवक्तव्यम्, स्यान्नास्त्यवक्तव्यम्, स्यादस्ति च नास्ति चावतव्यं च इति सप्त भङ्गाः स्याद्वादनये प्रसिद्धाः ५. चेतोरूपपर्वतेनावृत्तिं मथनम् . Page #26 -------------------------------------------------------------------------- ________________ एकीभावस्तोत्रम् । आहार्येभ्यः स्पृहयति परं यः स्वभावादहृद्यः शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः । सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां तत्किं भूषावसनकुसुमैः किं च शस्त्रैरुदस्त्रैः ॥ १९ ॥ इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते तस्यैवेयं भवलयकरीं श्लाघ्यतामातनोति । त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं त्वं लोकानां प्रभुरिति तव श्लाध्यते स्तोत्रमित्थम् ॥२०॥ वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्यः स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते । मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टा स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति ॥ २१ ॥ कोपावेशो न तव न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयेवानपेक्षम् । आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी कैवंभूतं भुवनतिलकं प्राभवं त्वत्परेषु ॥ २२ ॥ देव स्तोतुं त्रिदिवगणिकामण्डली गीतकीर्ति तोतूर्ति त्वां सकलविषयज्ञानमूर्तिं जनो यः । तस्य क्षेमं न पदमटतो जातु जोईर्ति पन्थास्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति मर्त्यः ॥ २३ ॥ चित्ते कुर्वन्निरवधिसुखज्ञानदृग्वीर्यरूपं देव त्वां यः समयनियमादादरेण स्तवीति । श्रेयोमार्गं स खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विषयः पञ्चधा पैंञ्चितानाम् ॥ २४ ॥ २१ १. बाह्यभूषणादिभ्यः २. प्रभुत्वम्. ३. स्तोतुं तोतूर्ति त्वरितो भवति. ४. कुटिलो भवति ५. संदेहं प्राप्नोति ६. विस्तृतानाम्. Page #27 -------------------------------------------------------------------------- ________________ काव्यमाला। भक्तिप्रह्वमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः - सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते __ खात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥२५॥ वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्यसहायः ॥ २६ ॥ इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥ श्रीधनंजयप्रणीतं विषापहारस्तोत्रम् । खात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः। प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ १ ॥ परैरचिन्त्यं युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ २ ॥ तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धम् । वल्पेन बोधेन ततोऽधिकार्थ वातायनेनेव निरूपयामि ॥ ३ ॥ त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेष निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥ व्यापीडितं बालमिवात्मदोषैरुल्लाघतां लोकमवापिपस्त्वम् । हिताहितान्वेषणमान्यभाजः सर्वस्य जन्तोरसि बालवैद्यः ॥ ५॥ १. सर्वेऽपि शाब्दिकास्तार्किकश्रेष्ठाः कवयः सज्जनाश्च वादिराजाच्यूना इत्यात्मप्रशंसां कविः कृतवानिति तात्पर्यम्. २. द्विसंधानकाव्यकर्ता कश्चिदन्योऽयमेव धनंजयइति न निश्चयः. स्तोत्रस्यास्य द्वित्राणि मूलपुस्तकानि कर्तृनामरहिता टीका चासादितास्माभिः. ३. एक एवान्यपुरुषैर्मनसाप्यस्मरणीयं प्राणिप्राणधारणोपायप्रदर्शनवरूपं युगभारं वहन्धारयन्निति टीका. ४. वां स्तोतुमहं शक्त इत्यभिमानम्. ५. खल्पाद्वोधात्. ६. स्वल्पेनापि गवाक्षेण बृहदपि पर्वतादि यथा विलोक्यते तद्वदहं खल्पेनापि बोधेनाधिकार्थं निरूपयामीति तात्पर्यम्. ७. प्रापितवानसि. Page #28 -------------------------------------------------------------------------- ________________ विषापहारस्तोत्रम् । दाता न हर्ता दिवसं विवखानद्यश्व इत्यच्युत दर्शिताशः । संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ ६ ॥ उपैति भक्त्या सुमुखः सुखानि त्वयि खभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यंत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ ८ ॥ तैवानवस्था परमार्थतत्त्वं त्वया न गीतः (नरागमश्च । दृष्टं विहाय त्वमदृष्टमैषीविरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ ९ ॥ स्मरः सुदग्धो भवतैव तस्मिन्नुभूलितात्मा यदि नाम शंभुः। अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥ १० ॥ स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्र्यैव न ते गुणित्वम् । खतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥ ११ ॥ कर्मस्थिति जन्तुरनेकभूमि नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥ १२ ॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमत्वदीयाः ॥ १३ ॥ विषापहारं मणिमोषधानि मन्त्रं समुद्दिश्य रसायनं च ।। भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । ' · हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥ १. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशां दर्शयन्नशक्तः सन्सव्याज दिवसं गमयति, केवलं कालक्षेपं करोतीत्यर्थः. अन्यत्राशा दिशः. २. यत्र स मेरुर्वर्तते तत्रैव तुङ्गा प्रकृतिर्नान्यत्र. ३. तव मतेऽनवस्था परमार्थतत्त्वं वर्तते. ४. पुनरावृत्तिः. ५. वाञ्छितवानसि. ६. पापरहितः स ब्रह्मादिदेवसमूहः. ७. सरोवरादेः स्तोकापवादेन खल्पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते, स तु खभावेनैव महान्, ८. जीवकर्मणोरन्योन्यस्य नेतृभावं भवाब्धौ समाख्यः कथितवानसि, यथा समुद्रे नौका नाविकं नयति नाविकश्च नौकां तद्वत्. ९. खत्तः पराङ्मुखाः. Page #29 -------------------------------------------------------------------------- ________________ २४ काव्यमाला । त्रिकालतत्त्वं त्वमवैस्त्रिलोकीस्वामीति संख्यानियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यंस्तेऽन्येऽपि चेयाप्स्यदमूनपीदम् ॥ १६ ॥ नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानोरुबिभ्रतश्छत्रमिवादरेण ॥ १७ ॥ क्वोपेक्षकस्त्वं क सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः । क्कासौ क वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते ॥ १८ ॥ तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्न धनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवा२३कापि निर्याति धुनी पयोधेः ॥ १९ ।। त्रैलोक्यसेवानियमाय दण्डं दधे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्य भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥ २० ॥ श्रिया परं पश्यति साधु निःखः श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम् ॥ २१ ॥ खवृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः । किं चाखिलज्ञेयविवर्तिबोधखरूपमध्यक्षमवैति लोकः ॥ २२ ॥ तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ॥ २३ ॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः ॥ २४ ॥ मार्गस्त्वयैको ददृशे विमुक्तेश्चैतुर्गतीनां गहनं परेण । सर्वं मया दृष्टमिति स्मयेन त्वं मा कदाचिद्भुजमालुलोक ॥ २५ ॥ खर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः । संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥ २६ ॥ अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति । हरिन्मणि काचधिया दधानस्तं तस्य बुद्ध्या वहतो न रिक्तः ॥ २७ ॥ १. अवजानन्ति. २. पाषाणोद्भवम्. ३. नरदेवतिर्यगादीनाम्. ४. काचम्. ५. हरिन्मणेः. Page #30 -------------------------------------------------------------------------- ________________ विषापहारस्तोत्रम् । २५ प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ॥ २८ ॥ नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तः। निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः खरेण ॥ २९ ॥ न कापि वाञ्छा वैवृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः ।, न पूरयाम्यम्बुधिमित्युदंशुः खयं हि शीतद्युतिरभ्युदेति ॥ ३० ॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ ३१॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥ ततस्त्रिलोकीनगराघिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ॥ ३३ ॥ अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि ॥ ३४ ॥ अगाधमन्यैर्मनसाप्यलयं निष्किचनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपारं पतिं जनानां शरणं व्रजामि ॥ ३५ ॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६ ॥ खयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् । न लाघवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ।। ३७ ॥ इति स्तुति देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि । छायातलं संश्रयतः खतः स्यात्कश्छायया याचितयात्मलाभः ॥ ३८ ॥ १. पूर्वापरविरोधरहितार्थम्. २. प्रवृत्ता. ३. उत्कृष्टाः. ४. खयमेवोन्नतः, न तु क्रमेण वर्धमानः. वर्धमान इति च महावीरखामिनो नामान्तरम्. यथा मेरुः पूर्व गण्ड. शैलतुल्यस्तदनन्तरं पर्वतकल्पस्ततः कुलपर्वतोऽभूदिति न क्रमः. उत्पत्तिसमकालमेव कुलपर्वतत्वं मेरोः. एवं जिनोऽपि जन्मनैवोन्नतो न तु नामानुरूपं क्रमेण वर्धमान इति तात्पर्यम्. ३ का० स० गु० Page #31 -------------------------------------------------------------------------- ________________ २६ काव्यमाला। अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९ ॥ वितरति विहिता. यथाकथंचिन्जिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषादिशति सुखानि यशो धनं जयं च ॥४०॥ इति श्रीधनंजयकृतं विषापहारस्तोत्रम् ॥ श्रीभूपालकविप्रणीता जिनचतुर्विशतिका। श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनानिद्वयम् ॥ १॥ शान्तं वपुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्थलरेन्दसान्द्र च्छायामहीरुह भवन्तमुपाश्रयन्ते ।। २ ।। खामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्धकूपोदरा दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ।। ३ ।। निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४ ॥ १. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता. तत्र टीकायां तत्कर्तुर्नाम नास्ति. २. पण्डिताः. ३. रुन्दा विस्तीर्णा. ४. सिंहासनस्य. Page #32 -------------------------------------------------------------------------- ________________ .जिनचतुर्विंशतिका । राज्य शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोकालोकमपि (१) खबोधमुकुरस्यान्तः कृतं यत्त्वया । सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते ॥ ५ ॥ दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च बयः कृताः। शीलानां निचयः सहामलगुणैः सर्वः समासादितो __ दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम् ॥ ६ ॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत__ स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः ___ संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे ॥ ७ ॥ जयति दिविजवृन्दान्दोलितैरिन्दुरोचि निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी युवतिनवकटाक्षक्षेपलीलां दधानः ॥ ८ ॥ देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा पुष्पौघासारसिंहासनसुरपटहैरष्टभिः प्रातिहाथैः । (2) साश्चर्यजमानः सुरमनुजसभाम्भोजिनीभानुमाली पायान्नः पादपीठीकृतसकलजगत्पालमौलिर्जिनेन्द्रः ॥९॥ नृत्यत्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारी निकायः ___ सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः । हस्ताम्भोजातलीलाविनिहितसुमनोदामरम्यामरस्त्री काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते ॥ १० ॥ १. आज्ञाविधेयः शक्रो यस्मिन्. २. चमरिरहं चामरम्, भाश्चक्रं भामण्डलम् , भाषा दिव्यध्वनिः. 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥' इति शान्तिपाठे पद्यम्. Page #33 -------------------------------------------------------------------------- ________________ काव्यमाला। चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वकेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् । येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ॥ ११ ॥ कन्तोः सकान्तमपि मल्लमवैति कश्चि न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृतत्रिदशयोषिदपाङ्गपात स्तस्य त्वमेव विजयी जिनराज मल्लः ॥ १२ ॥ किसलयितमनल्पं त्वद्विलोकाभिलाषा कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानीं __नयनपथमवाप्ताद्देव पुण्यद्रुमेण ॥ १३ ॥ त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः । स जयति जिनराजबातजीमूतसङ्घः शतमखशिखिनृत्यारम्भनिर्बन्धबन्धुः ॥ १४ ॥ भूपालखर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुमलास्त्रिः परीत्य श्रीपादच्छाययापस्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५॥ देव त्वदङ्गिनखमण्डलदर्पणेऽस्मि नये निसर्गरुचिरे चिरदृष्टवक्रः । श्रीकीर्तिकान्तिधृतिसंगमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥ १६ ॥ १. कामस्य. २. माद्यन्. ३. जिनानां गणधरदेवानां राजानस्तेषां प्रातः समूह एक मेघसंघ इति टीका. ४. वृक्षविशेषस्य. ५. अपस्थितो दूरीभूतः. Page #34 -------------------------------------------------------------------------- ________________ जिनचतुर्विशतिका। जयति सुरनरेन्द्रश्रीसुधानिझरिण्याः कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥ विनमदमरकान्ताकुन्तलाक्रान्तकान्ति स्फुरितनखमयूखद्योतिताशान्तरालः ।। दिविजमनुजराजव्रातपूज्यक्रमाजो जयति विजितकारातिजालो जिनेन्द्रः ॥ १८ ॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्र त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥ त्वं धर्मोदयतापसाश्रमशकस्त्वं काव्यबन्धक्रम क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः कैर्भूपाल न धार्यसे गुणमणिसम्मालिभिर्मोलिभिः ॥ २० ॥ शिवसुखमजरश्रीसंगमं चाभिलष्य __ खममि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१ ॥ देवेन्द्रास्तव मज्जनानि विदधुर्देवाङ्गना मङ्गला न्यापेठुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे तत्किं देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥ २२ ॥ देव त्वजननाभिषेकसमये रोमाञ्चसत्कञ्चकै देवेन्द्रैर्यदनति नर्तनविधौ लब्धप्रभावैः स्फुटम् । १. हे जगत्पालक. Page #35 -------------------------------------------------------------------------- ________________ काव्यमाला। किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम प्रेडद्वल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्बुजदलोरेक्षणं पश्यतां यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं ___दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले __ स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्चकोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनदर्शनम् ॥ २६ ॥ इति श्रीभूपालकविप्रगीता जिनचतुर्विंशतिका ॥ समाप्तेयं जिनपञ्चस्तवी। श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमान जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनॉभिराजतनुभूपदवीक्षणेन प्रापे जनैर्वितनुभूपदवी क्षणेन ॥ १ ॥ येन स्मरास्त्रनिकरैरपराजितेन सिद्धिर्वधूभ्रुवमबोधि पराजितेन । १. जन्माभिषेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि, टीका तु न प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम्. ३. देदीप्यमानैः. ४. प्रतिभयानुपमैः. ५. नाभिराजतनुभूवृषभनाथस्वामी तच्चरणविलोकनेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गो रत्नत्रयात्मकः. ७. परा उत्कृष्टा, अजितेन एतन्नाम्ना जिनेन. Page #36 -------------------------------------------------------------------------- ________________ सिद्धिप्रियस्तोत्रम् | संवृद्धधर्मसुधिया कविराजमानः (१) क्षिप्रं करोतु यशसा स विराजमानः ॥ २ ॥ श्रुत्वा वचांसि तव संभव कोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवंप्रमुक्तसुमनोभवनाशनानि स्वार्थस्य संसृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक रिछन्द्यात्स भिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेघजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ वरानतेन कामश्रिता सुमतिनाथ वरा न तेन ॥ ५ ॥ मोहप्रमादमद कोपरतापनाशः (?) पञ्चेन्द्रियाश्वदमकोऽपरतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् ॥ ६ ॥ ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्तिं मनः समधियावनिनाय कोपि । १. संभवेति जिननाम. २. हे देव, प्रमुक्तसुमनोभवन, अश ( स ) नानि प्रेरकाणि स्वार्थस्य ३. हे वर, आनतेन. ४. लक्ष्मीः. ५. विनयस्येनं प्रभुम् अहीनभोगाः. ६. देवलोक व्योमयानश्रियः ७ कोपयुक्तं मनः शान्तिमवनिनाय. ३१ Page #37 -------------------------------------------------------------------------- ________________ ३२ काव्यमाला | चन्द्रप्रभ प्रभजति स्म रेमा विना शं दोर्दण्डमण्डितरति स्मरमाविनाशम् ॥ ८ ॥ श्री पुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां स्थानं व्यधायि हृदये तेनुना सुराणाम् ॥ ९ ॥ श्रीशीतलाधिप तवाधिसभं जनानां भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् । प्रीतिं करोति विततां सुरसारमुक्ति मुक्तात्मनां जिन यथा सुरसार मुक्तिः ॥ १० ॥ पादद्वये मुदितमानसमानतानां श्रेयान्मुने विगतमान समानतानाम् । शोभां करोति तव कांचन भा सुराणां देवाधिदेव मणिकाञ्चनभासुराणाम् ॥ ११ ॥ घोरान्धकारनरकक्षतवारणानि श्रीवासुपूज्यजिन दक्ष तवरणानि । मुक्त्यै भवन्ति भवसागरतारणानि वाक्यानि चिंतंभवसागरतारणानि ॥ १२ ॥ भव्यप्रजाकुमुदिनी विधुरञ्जनानां हन्ता विभासि दलयन्विधुरं जनानाम् । इत्थं खरूपमखिलं तव ये विदन्ति १२ राज्यं भजन्ति विमलेश्वर ते विदन्ति ॥ १३ ॥ १. द्वितीयाबहुवचनम्. २. सुखम् ३. दोर्दण्डमण्डितरतेः स्मरस्य माया लक्ष्म्याश्च विनाशो यस्मिन्सुखे, मोक्षमुखमिति भावः. ४. सूक्ष्मेण ५. सुशब्दां रतिम्. ६. सुरसा-अरं-उक्तिः, ७. हे सुरश्रेष्ठ ८. मानत्वेन सहवर्तमानानाम् ९. अरणानि युद्धनिषेधकानि. १०. चित्तभवमायाः कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. ११. कल्मषाणाम्. १२. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. हस्तियुक्तं राज्यमित्यर्थः. Page #38 -------------------------------------------------------------------------- ________________ सिद्धिप्रियस्तोत्रम् । खर्गापवर्गसुखपात्र जिनातिमात्रं ___ यस्त्वां स्मरन्भुवनमित्र जिनाति मात्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवीं चैंतिकान्तकान्ताम् ॥ १४ ॥ जन्माभिषेकमकरोत्सुरराजनामा __ यस्याश्रितो गुणगणैः सुरराज नामा । धर्मः करोत्वनलसं प्रति बोधनानि __सिद्ध्यै मनः सपदि संप्रति वो धनानि ॥१५॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतपो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ १६ ॥ कुन्थुः क्षितौ क्षितिपतिर्गतैमानसेनः __ पूर्वं पुनर्मुनिरभूद्धतमानसेनः। योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधद्धर्युदयानि धीनाम् ॥ १७ ॥ या ते शृणोति नितरामुदितानि दानं ___ यच्छत्यभीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं जिनौर गुणभाजन कोपि" तापि ॥ १८ ॥ मल्लेर्वचास्यनिकृतीनि संभावनानि धर्मोपदेशमकृतीनि संभावनानि । १. जीर्यते वृद्धो भवति. २. मां मोक्षलक्ष्मी त्रायते मात्रस्तम्. ३. मुक्तिप्रभो. ४. हे व्रतिक व्रतदानदक्ष, अन्तकान्तां यमस्य विनाशकां पदवीम्. ५. ना पुरुषो गुणगणैः अमा सह सुछु रराज. ६. गता कामिना नीतिर्यस्मात्तपसः. ७. अगता न प्राप्ता कामिन्य ईतयश्च यत्र तादृशं पदम्. ८. अप्रमाणा सेना यस्य. ९. आगामिवाञ्छाम्. १०. हे जिन, हे अर. ११. कोपयुक्तं तापयुक्तं च चित्तं नो करोति. १२. भावनया सहितानि. १३. सभाया अवनानि. Page #39 -------------------------------------------------------------------------- ________________ काव्यमाला। कुर्वन्तु भव्यनिवहस्य नभोगतानां मङ्क्ष श्रियं कृतमुदं जनभोगतानाम् ॥ १९ ॥ संस्तूयसे शुभवता मुनिना येकेन नीतो जिनाशु भवता मुनिनायकेन । नाथेन नाथ मुनिसुव्रत मुक्तमानां मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ॥ २० ॥ चित्तेन मेरुगिरिधीर दयालुनासि सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां लक्ष्मीं करोतु मम निर्ममतापसानाम् ॥ २१ ॥ येनोद्धशृङ्गगिरनारगिराविनापि नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदर्पदलनः क्षतमोहतान स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ २२ ॥ गन्धर्वयक्षनरकिंनरदृश्यमानः प्रीतिं करिष्यति न किं नरदृश्यमानः । भानुप्रभापविकसत्कमलोपमायां पार्श्वः प्रसूतजनताकमलोऽपमायाम् ॥ २३ ॥ श्रीवर्धमानवचसा पैरमाकरेण रत्नत्रयोत्तमनिधेः परमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥ २४ ॥ १. देवानां जनभोगस्य तानो विस्तारो यस्यां तां श्रियं भव्यनिवहस्य कुर्वन्तु. २. यकेन येन. ३. कथितप्रमाणाम्. ४. निःशेषेण मतामपस्यन्तीति निर्ममतापसास्तेषाम्. ५. उद्धशब्दः प्रशंसावचनः. प्रशस्तशिखरे गिरिनारि पर्वते. ६. इना कामे नापि. ७. मनुष्यमात्रदृष्टौ. ८. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्येन. ९. श्रीमहावीरखामिवाक्येन. १०. परमेणाकरेण खनिरूपेण. ११. परलक्ष्मीकरण. १२. जनतातो बहिर्भूताः. अलौकिका इत्यर्थः. Page #40 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली। वृत्तात्समुल्लसितचित्तवचःप्रसूतेः __ श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं __लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (?) ॥ २५ ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता सर्व वस्तु विजानता शमवता येन क्षता कृच्छ्रता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥२६॥ इति श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । श्रीसोमप्रभाचार्यविरचिता (सिन्दूरप्रकरापरपर्याया) सूक्तिमुक्तावली। सिन्दूरप्रकरस्तपः करिशिरःकोडे कषायाटवी___ दावार्चिर्निचयः प्रबोधदिवसपारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव प्रोल्लासः ऊमयोर्नखातिभरः पार्श्वप्रभोः पातु वः ॥ १॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेनं किम् ॥ २ ॥ १. चक्रबन्धपद्यमेतत्. तत्र तृतीयवलये 'देवनन्दिकृतिः' इत्युद्भियते. २. अस्याः सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्. तत्र प्रथमं जयपुरीयविद्याविभागाध्यक्ष 'मास्टर ऑव् आर्ट्स' इत्युपाधिमण्डितश्रीयुतहरिदासशास्त्रिणां त्रयोदशपत्रात्मकं शुद्धं नातिनवीनं च क-संज्ञकम्. द्वितीयं संवेगिसाधुसत्तमशमदमादिभूषितनिष्परिग्रहश्रीशान्तिविजयाभिधानां जैनमुनीनां पत्रत्रयात्मकं प्राचीनं शुद्धं च ख-संज्ञकम्. तृतीयमपि पूर्वोक्तमुनीनामेव द्वादशपत्रात्मकं प्राचीनं नातिशुद्धं गुर्जरभाषासंकीर्णया कर्तृनामरहितया संक्षिप्तटीकया समेतं ग-संज्ञकम्. ३. पादयोः. ४. प्रथनेन. Page #41 -------------------------------------------------------------------------- ________________ ३६ काव्यमाला | अथ धर्मप्रक्रमः । त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ ॥ ३ ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्लेन करोति मूढः । केशप्रबन्धेन स लब्धमब्धौ चिन्तामणिं पातयति प्रमादात् ॥ ४ ॥ स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्येवभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं यो दुष्प्रापं गमयति सुधा मर्त्यजन्म प्रमत्तः ॥ ५ ॥ ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणिं क्रीणन्ति ते रासभं ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया ॥ ६ ॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः । ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ ७ ॥ भक्ति तीर्थकरे गुरौ जनमते स च हिंसानृतस्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपोभावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ॥ ८ ॥ अथ पूँजाप्रक्रमः । पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । १. काष्ठभारम्. ४. साधुसमूहे. ५. 'पूजाद्वारम्' ग. क-पुस्तके तु प्रक्रमविभागो नास्ति. २. पर्वत तुल्यम्. 'गिरीन्द्रसदृशं' इति क-पाठः ३. मज्जन्. Page #42 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली । सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः खर्ग यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ ९॥ वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा सौभाग्यादिगुणावलिर्विलसति खैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ १० ॥ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो न मुञ्चत्यभ्यर्ण सुहृदिव जिनार्चा रचयतः ॥ ११ ॥ यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते ___ यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परन वृत्रदमनस्तोमेन स स्तूयते ___ यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२ ॥ अथ गुरुप्रक्रमः। अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । से सेवितव्यः खहितैषिणा गुरुः वयं तरंस्तारयितुं क्षमः परम् ॥ १३ ॥ विदलयति कुबोधं बोधयत्यागमार्थ ___ सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ १४ ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ १५॥ १. रोगः. २. इन्द्रसमूहेन. ३. 'गुरुद्वारम्' ग. ४. निर्दोषे. ५. 'स एक सेव्यः' क. ४ का० स० गु० Page #43 -------------------------------------------------------------------------- ________________ काव्यमाला। किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं पूर्ण भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥ १६ ॥ अथ जिनमतप्रक्रमः । न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्म नाधर्मं न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ १७ ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयो निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ १८ ॥ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमव न्मित्रं शात्रववत्स्रजं भुजगवञ्चिन्तामणिं लोष्टवत् । ज्योत्स्ना ग्रीष्मजघर्मवत्स मनुते कारुण्यपण्यापणं - जैनेन्द्रं मतमन्धदर्शनसमं यो दुर्मतिर्मन्यते ॥ १९ ॥ धर्म जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मनाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यतज्जैन मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥ २० ॥ अथ संघप्रक्रमः। रत्नानामिव रोहण क्षितिधरः खं तारकाणामिव खर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । १. 'दमैः' क. २. स्वामिरहितसैन्यवत्. ३. 'जिनमतद्वारम्' ग. ४. 'सङ्घद्धारम ग. ५. 'रोहणः क. Page #44 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली। पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा वित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः ॥ २१ ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते ___ यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिनमस्यत्ति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स सङ्घोऽर्च्यताम् ॥२२॥ लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । खःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः सङ्घ गुणसङ्घकेलिसदनं श्रेयोरुचिः सेवते ॥ २३ ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिक गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः सङ्घः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ २४ ॥ अथाहिंसाप्रक्रमः। क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवो दन्वन्नौर्व्यसनामिमेघपटली संकेतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकसःप्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ।। २५ ॥ यदि ग्रावा तोये तरति तरणिर्यधुदयते _प्रतीच्या सप्तार्चिर्यदि भजति शैत्यं कथमपि । यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः कापि सुकृतम् ॥ २६ ॥ स कमलवनममेर्वासरं भावदस्ता दमृतमुरगवक्रात्साधुवादं विवादात् । १. 'सुखं' ख. २. 'निःश्रेणी त्रिदिवौकसां' क. Page #45 -------------------------------------------------------------------------- ________________ ४० काव्यमाला। रुगपगममजीर्णाजीवितं कालकूटा दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं खामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाध्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्टान्तरम् ॥ २८ ॥ अथासत्यप्रक्रमः । विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पंथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ २९॥ यशो यस्माद्भस्मीभवति वनवहेरिव वनं निदानं दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्याच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ।। असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१ ॥ तस्यामिर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिर्गृहमहिर्माल्यं मृगारिम॒गः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सृगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ।। ३२ ॥ अथ स्तेयप्रक्रमः। तमभिलपति सिद्धिस्तं वृणीते समृद्धि स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः । स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ ३३ ॥ १. मार्गोपयुक्तं भोजनम्. शम्बलमिति यावत्. २. आतपे छायेव. ३. दुष्टगजः. Page #46 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली । अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ३४ ॥ यन्निर्वर्तितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्बधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ ३५ ॥ परजनमनःक्रीडाक्रीडावनं वधभावना भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम् ॥ ३६ ॥ अथ शीलप्रक्रमः । दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक - चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ३७ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं स्वर्निर्वाण सुखानि संनिदधते ये शीलमाबिभ्रते ॥ ३८ ॥ हरति कुलकलङ्क लुम्पते पापप सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोंपसर्ग रचयति शुचि शीलं खर्गमोक्षौ सलीलम् ॥ ३९ ॥ ४१ १. 'क्लिष्टाशयोद्दीपनम् ' ख. २. 'कामार्तस्त्यजति प्रभोदयभिदाशस्त्रीं परस्त्रीं न यः ' इति क· पुस्तके चतुर्थः पादः. ३. गच्छति. Page #47 -------------------------------------------------------------------------- ________________ ४२ काव्यमाला। तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति श्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्धवम् ॥ ४० ॥ अथ परिग्रहप्रक्रमः। कालुष्यं जनयझंडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्धयन् । मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशकिं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥ ४१ ॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्र द्वेषदस्युपदोषः । सुकृतवनदवाग्निर्दिवाम्भोदवायु नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ ४२ ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥ ४३ ॥ वह्निस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि स्तद्वल्लोभघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं __ यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ ४४ ॥ अथ क्रोधप्रक्रमः । यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः। चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् ॥ ४५ ॥ १. जलस्य मूर्खस्य च. २. 'मोहघनो' क. ३. 'अन्यदहने' क. Page #48 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली। फलति कलितश्रेयःश्रेणीप्रसूनपरम्परः __प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो ___ भजति लभते भस्मीभावं तदा विफलोदयः ॥ ४६॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय___ त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्तिं कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं __ दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ ४७ ॥ यो धर्म दहति द्रुमं दव इवोन्मन्नाति नीति लतां __दन्तीवेन्दुकलां विधुतुद इव क्लिश्नाति कीर्तिं नृणाम् । खार्थं वायुरिवाम्बुदं विघटत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ ४८॥ अथ मानप्रक्रमः । यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिन्शिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रिं परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडी विघटय न्किरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम् । भ्रमन्ना खैरं विनयवनवीथीं विदलय___ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभवानिव __ प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणी मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥ ५१ ॥ मुष्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् । Page #49 -------------------------------------------------------------------------- ________________ काव्यमाला। जात्यादिमानविषजं विषमं विकारं तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ ५२ ॥ अथ मायाप्रक्रमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ॥ विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः खमेव ॥ ५४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया। सोऽनर्थसाथै न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन् ॥५५॥ मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः ।। जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ ५६ ॥ अथ लोभप्रक्रमः। यदुर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं ___ गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघदृदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ ५७ ।। मोलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः ___ क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेविवेकशशिनः खर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ ५८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे । Page #50 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली। बाढं धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौधः ॥ ५९॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः खर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥ ६०॥ - अथ सुजनप्रक्रमः। वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ ६१ ॥ सौजन्यमेव विदधाति यशश्चयं च ___ श्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थ _धान्येऽनलं क्षिपसि तजलसेकसाध्ये ॥ ६२ ॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा मसाधुचरितार्तिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा नतु श्वयथुसंभवा स्थूलता ॥ ६३ ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । खश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ ६४ ।। ___ अथ गुणिसङ्गप्रक्रमः । धर्म ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा काव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधः श्रुतम् । १. 'शमदयाशून्यो' क. Page #51 -------------------------------------------------------------------------- ________________ काव्यमाला। वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः सङ्गं गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति ॥६५॥ हरति कुमति भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्म व्यपोहति दुर्गतिं जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ ६६ ॥ लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्म समासेवितुम् । रोद्धं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त समीहसे गुणवता सङ्गं तदङ्गीकुरु ॥ ६७ ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति देयारामे क्षेमक्षमाभृति वज्रति । समिधति कुमत्यमौ कन्दत्यनीतिलतासु यः किमभिलषतां श्रेयः श्रेयान्स निर्गुणिसंगमः ॥ ६८ ॥ अथेन्द्रियप्रक्रमः । आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पयते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुभव ॥ ६९ ।। प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां करणनिकुरम्बं कुरु वशे ॥ ७० ॥ धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यता मस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् । १. 'अपाहतु' ख. २. 'दमारामे' ख. ३. 'श्रेयः' क-ख. ४. 'शूकल' क. 'सूकलाश्वायते दुर्विनीततुरंग इवाचरति' इति टीका. ५. इन्द्रियसमूहम्. ६. वने तिष्ठतु. Page #52 -------------------------------------------------------------------------- ________________ ४७ सूक्तिमुक्तावली। श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय___ वातं जेतुमवैति भस्मनि हुतं जानीत सर्व ततः ॥ ७१ ॥ धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा___ लंकर्माणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमॅनयात्यन्तीनमिष्टे यथा___ कामीनं कुंपथाध्वनीनमजयन्नक्षौधमक्षेमभाक् ।। ७२ ॥ ____ अथ लक्ष्मीस्वभावप्रक्रमः। निम्नं गच्छति निम्नगेव नितरां निदेव विष्कम्भते __ चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय त्युल्लासं कुलटाङ्गनेव कमला खैरं परिभ्राम्यति ॥ ७३ ।। दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा___ दुवृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् ।। ७४ ।। नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति __ शत्रोरप्यगुणात्मनोऽपि विदधत्युचैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनखिनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ॥७५|| लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी- संसर्गादिव कण्टकाकुलपदा न कापि धत्ते पदम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभियं तदस्याः फलम् ॥ ७६ ॥ १. 'शान्तरसाच्छादनम्' इति टीका. २. 'सर्वभक्षकम्' इति टीका. ३. 'अनयेऽत्यन्तगामिनम्' इति टीका. ४. 'इष्टे वस्तुनि यथाकामीनं यथाभिलाषिणम्' इति टीका. ५. 'कुमत' क. ६. 'विनाशयति' इति टीका. ७. 'रतिम्' क. Page #53 -------------------------------------------------------------------------- ________________ काव्यमाला। अथ दानप्रक्रमः। चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं दलयति खर्ग ददाति क्रमा निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ।। ७७ ।। दारियं न तमीक्षते न भजते दौर्गत्यमालम्बते ___ नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ ७८ ॥ लक्ष्मीः कामयते मतिम॑गयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नो रोगतालिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते खोपभोगस्थिति मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ।। ७९ ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंपत्सप्तक्षेत्र्यां (2) वपति विपुलं वित्तबीजं निजं यः ।। ८० ॥ - अथ तपःप्रक्रमः । यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ ८१ ॥ . यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां खाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ॥८२।। १. 'धिनोति' ख. २. 'पवित्रे' ख. Page #54 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली । कान्तारं न यथेतरो ज्वलयितुं दक्षो दवानिं विना दावामिं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कौघं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ ८३ ॥ संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः पंञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भःपूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः ॥ ८४ ॥ अथ भावनाप्रक्रमः। नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानाहदर्चातपः___ खाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ ८५ ॥ सर्व ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं भित्सति __ क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ ८६ ॥ विवेकवनसारिणी प्रशमशर्मसंजीवनी ___ भवार्णवमहातरी मदनदावमेघावलीम् । चलाक्षमृगवागुरां गुरुकषायशैलाशनिं विमुंक्तिपथवेसरी भजत भावनां किं परैः ॥ ८७ ॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । १. 'अपरं हतु समर्थ' ख-ग. २. पञ्चेन्द्रियाणि पश्चाक्षी. ३. 'निस्तारभोगः' ग. ४. 'तपःपादपोऽयम्' क-ग. ५. 'मित्सति' क-ग. ६. 'खण्डयितुमिच्छति' इति टीका. ७. मार्गोपयुक्तामश्वतरीम्. ५ का० स० गु० Page #55 -------------------------------------------------------------------------- ________________ काव्यमाला। तपस्तीनं तप्तं चरणमपि जीर्ण चिरतरं न चेच्चित्ते भावस्तुषपवनवत्सर्वमफलम् ॥ ८८ ॥ ____ अथ वैराग्यप्रक्रमः । यदशुभरजःपाथो हप्तेन्द्रियद्विरदानुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः ॥ ८९॥ चण्डानिलः स्फुरितमब्दचयं दवार्चि वृक्षत्र तिमिरमण्डलमर्कबिम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ ९० ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरसि चेत् ॥ ९१ ॥ भोगान्कृष्णभुजंगभोगविषमान्राज्यं रजःसंनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजं. स्तेष्वासक्तिमनाविलो विलभते मुक्तिं विरक्तः पुमान् ॥ ९२॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ ९३ ॥ त्रिसंध्यं देवा! विरचय चयं प्रापय यशः श्रियः पात्रे वापं जनय नयमार्ग नय मनः । स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां . जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ ९४ ।। १. 'चारित्रम्' इति टीका. Page #56 -------------------------------------------------------------------------- ________________ सूक्तिमुक्तावली। कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं स्मृत्वा पञ्चनमस्त्रियां कुरु करकोडस्थमिष्टं सुखम् ॥ ९५ ॥ प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा भ्युदयजननी याति स्फीतिं यथा गुणसंततिः । कलयति यथा वृद्धिं धर्मः कुकर्महतिक्षमः सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् ॥ ९६ ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा देयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ९७ ॥ सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु। तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ ९८ ॥ अभजदजितदेवाचार्यपट्टोदयाद्रि धुमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रमेण व्यरचि मुंनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ ९९ ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुक्तावली । १.जिनमतप्रसिद्धां पञ्चपरमेष्ठिनमस्कृतिम्. २. 'कुशलसुलभे' क-ख. ३. एतच्छोकानन्तरं क-पुस्तके 'करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयोः । हृदि खच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥' अयं श्लोकोऽधिकः. ४. 'विमुच्यैनं दूरे भव जनमनःश. मसदनम् ख. ५. 'सोमप्रभाचार्यममा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमु. मिनुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥' अयं क-पुस्तकपाठः शृङ्गारवैराग्य. तरङ्गिणीधृतपाठसमानः । अत्र ग्रन्थका सोमप्रभाचार्य इति खकीयं नाम युक्त्या निवेशितम्. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ७. मुनीन्द्रनायकेन. Page #57 -------------------------------------------------------------------------- ________________ काव्यमाला । श्रीजम्बूगुरुविरचितं जिनशतकम् । श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्व त्सत्खप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः । सूर्यं वीर्याव्हार्यादभिभवितुमिवाभीशवो यस्य दीप्राः प्रोत्सर्पन्त्यङ्मियुग्मप्रभवनखभुवः स श्रिये स्ताजिनो वः ॥ १॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपकौघममा. नुद्धर्तुं सत्त्वसार्थानिव नखजमृजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था __ भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणझु ॥ २ ॥ प्रोद्यद्दीप्रप्रभाढ्यक्रमनखमुकुरकोडसंक्रान्तबिम्बं वकं वृत्तस्य शत्रुः खकमधिकरुचिं बिभ्रदभ्रान्तचेताः । पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीत्प्रमोदा द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ ३ ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै बध्नात्यहाय रात्रौ पुनरलिपटलैरारटन्तीं रटद्भिः । मामम्भोजन्मधाग्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मी रुद्विमेवापविघ्नं मकजमगमद्यस्य सोऽव्याजिनो वः ॥ ४ ॥ १. शतकस्यास्यैकं सटीकं मनोहरमपर्युषितं नातिशुद्धं चाष्टादशपत्रात्मकं पुस्तकं श्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. तत्र नागेन्द्रकुलोद्भूतसाम्बमुनिप्रणीता समी. चीना टीका वर्तते. स च साम्बष्टीकासमाप्तौ 'शरदां सपश्चविंशे शतदशके (१०२५) खातिभेच रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥' इत्थमात्मनो प्रन्थनिर्माणसमयं वदति. द्वितीयं तु मूलमात्रं शुद्धं पञ्चचतुष्टयात्मकं प्राचीनं पुस्तकं जोधपुरनगरपाठशालाध्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रणं तु पुस्तका. न्तराभावाद्दष्करमिति मत्वा ततः संक्षिप्तमुपयोगिटिप्पणमात्रमेवात्रोद्धृतम्. २. अस्वा. मिकमिव. ३. सन्नुत्पद्यमानश्चासौ मन्युस्तेन. ४. हर्तुमशक्यात्. ५. अपारसंसारसमुद्र एव महानरकदुःखं तदेव पकौघस्तत्र मन्नान्. ६. नखोत्पन्ना दीप्तय एवाजीर्णा नवा रज्जवः. ७. प्रसारितवन्तः. ८. शीघ्रम्. ९. कमलरूपगृहै. १०. निरुपद्रवंयथा स्यात्. ११. च. रणकमलम्. Page #58 -------------------------------------------------------------------------- ________________ ५३ जिनशतकम् । निर्विघ्नान्विघ्ननिम्नानतिघनघृणया श्लाघ्यघोषानघोषा न्धोराघौधेरैनुद्धापधनसुघटिताशीघ्रमुद्धाझिपाणीन् । अर्घोपन्नान र्घान्धटयति लघिमालिङ्गितान्वोऽलधिष्ठा__ श्लाघ्यं यस्याड्रियुग्मं विघटयतु घनं सोऽघसंघातमहन् ॥ ५॥ रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । वैकुण्ठाभ्यर्चितोऽपि प्रकटमपचितः पण्डितैः खण्डितांहा स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्ग्रन्थनाथः ॥ ६ ॥ खान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क स्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोज ___ यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥ ७ ॥ जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाढ्या__ प्रेकन्तीभिर्नखार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः । प्रेक्ष्य प्राप्तेप्सितार्थैर्भुवि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्कयतेऽङ्गीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ ८ ॥ क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः । १. अनुद्धा अप्रशस्ता अपघना अगानि. २. प्रशस्तहस्तपादान. ३. अर्धेण पूजया आश्रितान्. : ४. पूजारहितान्. ५. भयानकभयकर्ता. भयानकभयं कृन्ततीति विरो. धपरिहारः. ६. सततं निरन्तरं गृहीतस्य वृत्तस्यैकदेशतो भङ्गोऽतिचारः स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोधः प्रायो बाहुल्येन चित्तस्य प्रहीता आवर्जकः सततं निरतिचारश्चानतिक्रमणीयश्चति परिहारः. ७. अपचितोऽपचयं नीत इति विरोधः. अपचितः पूजित इति परिहारः. ८. निर्ग्रन्थास्तपखिनस्तषां नाथो जिनः ९. चर। णयोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. १०. बलवदत्यर्थमवाञ्चोऽधोमुखाः कल्पवृक्षाः. ११. पूजायां बहुवचनम्. Page #59 -------------------------------------------------------------------------- ________________ काव्यमाला। अक्षोभाः क्षीणरूक्षाक्षरपटुवचनाभिक्षवो मझ्वलक्ष्मी साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदजी ॥९॥ तन्वाना वैनतेयश्रियमैहितवृषोत्कर्षमोषिप्रतापाः कामं कौमोदकीनाशरणशरणदा नीरजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यक़माश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥१०॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालो खःसन्मूर्धाधिरूढोद्भटमुकुट कुटैर्निर्यदंशूदभारैः । संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्प्रवालावलीव द्धत्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥११॥ द्यां द्युत्योहयोत्य मुद्यद्दयुसदधिपमता विद्युदुद्दयोतजेच्या विद्यौनद्याद्यसद्योनय उपदधते संद्यमोद्यानमोदम् । . दुर्भेद्यावद्यमुद्यद्दयुमणिमिव समाच्छाद्य नन्द्याभिवन्द्याः ___ सद्यो यत्पादकंदा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ १२ ॥ निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः। आलोक्यारे कितैवं चरणनखभवा वो विभाविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ॥१३॥ १. भिक्षवो यतयो यदजी साक्षाद्वीक्ष्य मधु शीघ्रमलक्ष्मी क्षिपन्ति स जिनः क्षय्यपक्षं शत्रुपक्षं क्षपयतु. २. वै निश्चयेन नते प्राणिनि अयश्रियं शुभावह विधिसंपत्तिम्:(पक्षे) वैनतेयो गरुडः. ३. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे ) वृषोऽरिष्टासुरः ४. को भूमौ मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदाः; (पक्षे) कौमोदकी गदा तस्या इनाः प्रभ. वोऽशरणशरणदाश्च. ५. नीरजेष्विवोदारो रागो येषु,(पक्षे)नीरजः शकः. ६. प्रकृष्टं घुम्न तेजः; (पक्षे) प्रद्युम्नो वासुदेवपुत्रः ७. सदसि सभायाम् (पक्षे) संश्वासावसिः खगो नन्दकतेन कृता मुद्येषाम्. ८. क्रमाः पादा वासुदेवा इव. ९. पूरितमनोरथाः. १०. कुटो घटः ११. मुदं यनाच्छन्. १२. विद्यैव नदी तस्या आद्याः सद्योनयः शोभनान्युत्पत्तिस्थानानि. १३. संश्चासौ यमश्च (नियमसहचरः) स एवोद्यानं तस्य मोदं पुष्टिलक्षणम्. १४. कं जलं ददतीति कंदा मेघाः पादा एव कंदाः. कमित्यव्ययं जलवाचकम्, १५. आरेकिता उत्प्रेक्षिता. १६. आविर्भवन्ती ऊर्ध्व गच्छन्ती. Page #60 -------------------------------------------------------------------------- ________________ जिनशतकम् । शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमिनतया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृतीर्थनाथः ॥ १४ ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धेयन्तौ वारी वारीतिमी नतससुरमहादेवराजौ बैराजौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ १५ ॥ कृत्वाधः पादयोर्मां निरतिशयशमश्रीसमालिङ्गिताङ्गः स्वस्थ स्तिष्ठत्यनिष्टः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्वं बीणाशनिर्वा मृदुहृदयभिदे भाति रांगेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरतिं रातु स श्रीजिनो वः ॥ १६ ॥ चार्वाचारोक्तिचश्च प्रवचनचतुराचार्यचक्रस्य चश्च नोयेताचण्ड रोचीरुचिरुचिररुचिर्यस्य वाचां प्रपचैः । उच्चैश्चञ्चूर्यमाणश्चरणगुणचयैश्चारुचिचार्चितार्च श्वेतः शौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ॥ १७ ॥ पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभी शयन्हेलयायं कोsस्मन्मूर्धोद्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवहेः । ज्वाला निर्यात्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ १८ ॥ ५५ १. इन्द्रस्योलूकस्य च. २. कोः पृथिव्या मुदम्. ३. सूर्यत्वेन च. ४. दुष्टं च तद्रेपः पापं तस्माद्दूरे स्थानेऽसुमतां वसतिं साधयन्तौ खर्गप्रदावित्यर्थः ५. वारीव जलमिव अरीतिं शत्रूपद्रवं धयन्तौ पिबन्तौ नाशयन्तावित्यर्थः ६. श्रेष्ठयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः ७. यस्यानी आयस्य लाभस्याप्तिहेतू. ८. अकृशतेजाः . ९. ऊर्ध्व क्षिप्ता. १०. बाणावलीव. ११. कामेन. १२. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्. १३. चारुचित्तैरिन्द्रादिभिरर्चिता अर्चा मूर्तिर्यस्य स जिनः . १४. पातालमुद्भिय. Page #61 -------------------------------------------------------------------------- ________________ ५६ काव्यमाला। प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढा सन्मीनाक्षीरनीरेश्वरत इव यदङ्मयोर्युगान्निर्गता भा। वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदन. श्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ १९ ॥ मा पप्तत्तत्यभावात्कलिकलिलभराक्रान्तमेत त्पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्रावष्टम्भनार्थ प्रचुरभरसहौ निर्मिमाते यदी वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः ॥ २० ॥ दुर्गे खर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदाग स्तिग्मांशूतप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः सिद्ध्यध्वन्यध्वनीनाववतु स मुनिपः पादपद्मो यदीयः ॥ २१ ।। यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि भ्रातृव्यायाप्ययोषाः प्रमदभरनमन्मस्तकस्रस्तदानः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुङ्मञ्जरीकर्णपूरैः ___ पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्धः स दध्यात् ।। २२ ।। सर्वोभृित्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । बल्ग्वमुल्यनपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्योसमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु ॥ २३ ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः । १. शेषनागस्य कान्त्या अशेषया पूर्णया कान्त्या च. २. सन्तौ विद्यमाना मीना लाञ्छनरूपा यत्र. ३. क्षीरसमुद्रात्. ४. पादतलवर्तिनी लाञ्छनरूपां पद्मपति विश्वम्भरावद्भमिवत्. ५. तपश्चरणाभावात्. ६. नरककर्दमे त्रिभुवनरूपं गृहं मा पप्तन्न पततु. ७. विधात्रा. ८. सच्चक्रयुक्ततया. ९. सह स्यदेन वेगेन यदागः पापं तदेव तिग्मांशुः, १०. अहिर्वृत्रासुरस्तस्य भ्रातृव्यः शत्रुरिन्द्रस्तस्यायाप्या अनवद्या योषाः स्त्रियोऽप्सरसः. ११. धुत्संदोहो दीप्तिसमूहः. Page #62 -------------------------------------------------------------------------- ________________ जिनशतकम् । प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ २४ ॥ उज्जैम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थं त्रैलोक्यत्रासन्ध्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभ्राजितत्वाद्वृषभगतितया चाद्विजेशायते य त्पादाम्भोजं स सद्यो भवतु भवभयाभोगभित्केवेलीशः ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णनं नाम प्रथमः परिच्छेदः । कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्ते सक्ते व्यक्तं जडौंधैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा खसद्मेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये छेको दानैच्छलेन त्रिजगदधिपतेर्वः पुनीतात्स हस्तः ॥ १ ॥ प्रध्वस्ताशर्मधर्मप्रणयन विधये व्यापृतः प्राणिपूगाकालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहर्तुं विषार्ति किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनैवृषभनरेन्द्रस्य पाणिर्द्रुतं वः ॥ २ ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं विश्रदुद्भूतभव्यं भूषाभावं सभाया भवभवभय भिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते ५७ भूयाद्भूत्यै स भूतेभुविभु विभवाधीश भूभर्तृभाजः ॥ ३ ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैर्विघातं कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा प्रज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः ॥ ४ ॥ १. शिष्टाशेष प्रयोजनम्. २. केवलं सर्वद्रव्यपर्यायग्राहक मप्रतिहतं ज्ञानं तद्वतामीशो जिनः . ३. चतुरा. ४. सांवत्सरिक महादानव्याजेन. ५. जिनवृषभ एव नरेन्द्रो विषवैद्यः ६. लक्ष्म्याः. ७. ऋभवो देवास्तद्विभुरिन्द्रः विभवाधीशः कुबेर: भूभर्तारो राजानः तान्भजते तस्या भूतेः ८. जिनपक्षे प्रकृष्टो लयो मोक्षः ९. व्याख्यायाम्. Page #63 -------------------------------------------------------------------------- ________________ ५८ काव्यमाला। गीर्वाणैर्निर्मितोरुिहबहलदलश्यामलामीशुजालै र्जीमूतैः प्रावृषण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्व स्त्राणाय स्तात्स हस्तस्तैनुरहितजितः साधु बोधोद्यतोऽध ॥ ५॥ चञ्चच्चकोऽप्यकृष्णो विवरयुतर्तेलोऽप्यस्तरन्ध्रानुषङ्गः सत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्यङ्ग दोषाकरो नो। यः सार्वज्ञः सुपर्वा शय इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धोर्निधनकरमरं वस्तु वः स्तूयमानः ॥ ६ ॥ द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं __ श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणानेहसि श्रीजिनस्य ___ स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावादृतानां स वृद्ध्यै ॥ ७ ॥ वजिन्वजं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितोऽभू यज्ञ क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै याख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः ॥ ८ ॥ जेताजावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जैजौर्जाविजितजनजितां खौजसा दुर्जनानाम् । योऽन्यजोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मबीजं जयतु सरजसौर्जित्यजित्सोऽञ्जसा वः ॥ ९॥ भित्त्वा. दोषानुषङ्गं जनवनजवनं बोधयामीद्धधाम्ना___ मोत्कर्ष सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । १. उर्वीरुहोऽत्राशोकः. २. त्रिदशसमूहै:. ३. मदनजयिनः. ४. हस्तपक्षे विवराः पक्षिश्रेष्टा हंसादयस्तच्चिह्नाङ्कितः. ५. सत्कारार्हः. ६. कमलो हरिणः. ७. शयो हस्तः, ८. हे कुबेर. ९. 'जजि युद्धे । जजन्तीति जजा योधास्तेषामूर्जा बलं तेनाविजितं जनं जयन्ति ये तेषाम्. १०. न विद्यते न्यब्ज उपतापो रोगो वा यस्य. ११. हस्तः, १२. अश्रेष्ठम्. १३. कर्म. १४. सह रजसा वर्तन्ते सरजसाः सरागा अज्ञानिनो मिथ्या दृष्टयस्तेषामौर्जित्यं बलवत्त्वं जयतीति सः. १५. जनरूपकमलवनम्. Page #64 -------------------------------------------------------------------------- ________________ ५९ जिनशतकम् । साक्षाद्दोष' श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिने तीव प्रेकन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥१०॥ स्निग्धं मूर्भोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे निर्मूलं लोकभर्तुचरणकृतमते ति यः पाणिपद्मः । अन्तर्वर्त्यतिकृत्किं शिति कलिलमिदं कर्षतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स साक् Uणातु ॥ ११ ॥ दक्षं दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्तीः ___ सत्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ १२ ॥ यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्बणस्य द्रष्टणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः । लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ १३ ॥ मथ्यप्यस्मिन्मयाँरौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमिर्तंकि भवद्ममावादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालानाले व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिींजः ॥ १४ ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोगभाक्त्वा सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्यतेकीव । १. भुजम्. २. जिनस्य. ३. प्रतिकूलहन्ता. ४. चरणं प्रव्रज्या. ५. कृष्णम्. ६. पापम्. ७. आशामानः. ८. हिनस्तु. ९. शीघ्रं यथा स्यात्. १०. जिनस्य. ११. प्रकर्षणानमन्ती कंधरा येषाम्. १२. आप्तो जिनस्तस्य सक्तस्तदीयः. १३. गर्वनाशके. १४. इतकि इति अकजागमः. १५. भवजायमानो भूम्रा बाहुल्येन यो भामः क्रोधस्तस्मादिव. १६. ग्रहणकाले. १७. सन्तः शोभना उपला मणयो येषु तानि वलयानि तेषामामुक्तिः परिधानं ततः. १८. जिनस्य. १९. रागो मन्मथासक्तिरपि. २०. इतीव । प्राग्वदकजागमः. Page #65 -------------------------------------------------------------------------- ________________ ६० काव्यमाला। मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणाहत्करो यः सोऽहांस्यह्राय हन्तुं प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ १५ ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपंथिकासद्महानोचितायाः कोषाधीशैर्निशान्ते नमुचिरिपुगिरासद्महाँ नो जितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशॉलीक्षयाय प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पैर्वशालीक्षयाय ॥ १६ ॥ युक्ता यर्मिंनृजिम्ना मंसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धखरूपाः । पुष्पेषोर्निर्जितस्येषव इव विषमाः संग्रहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरहद्भुजस्थः ॥ १७ ॥ ब्रनेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भाजनार्थ नखाभाः स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ १८ ॥ यो नान्वीतो जडिम्ना नयति न कुमुदं नंदधुं दीप्यमानो __ न ज्योतिानियुक्तोऽहनि मलिनतम लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयान्नो ___ सोऽपूर्वो यत्नखेन्दुश्वरमंतनुशयो योग्यतां वो युनक्तु ॥ १९ ॥ अर्थव्यक्तिं विविक्तां विदधति बहवो यां करा हारिदश्वा विश्वमिंस्तीवरूपाः प्रशममितवतैकाकिना सा मयापि । १. शिवपुरपथिकाश्च तेऽसमानोऽनगारास्तेषां हानं त्यागस्तस्योचिताया योग्यायाः. २. इन्द्रवचनेन. ३. असहा नो किं तु सद्महाः सत्तेजोविशिष्टः करः. ४. पूरितायाः. ५. पर्वयुक्तः. ६. ईक्षया दर्शनेनायस्य शुभावह विधेः प्राप्तेर्हेतुः ७. पर्वाण्युत्सवानि श्यन्ति तनूकुर्वन्तीति पर्वशा विपक्षास्तेषामाली पतिस्तस्याः क्षयाय. ८. ऋजुत्वेन. ९. श्लक्ष्णप्रन्थयः १०. दीर्घत्वेन प्रशस्तरूपाः. ११. पञ्चसंख्याकाः. १२. क्षिप्रतरम. १३. कुत्सितां मुदम्. १४. समुद्रम् । (पक्षे) दीनं न. १५. चरमतनुर्जिनस्तस्य हस्ता. Page #66 -------------------------------------------------------------------------- ________________ जिनशतकम् । प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती ___ येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धसक्तः करोऽस्तु ॥ २० ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धिं धरित्रीम् । व्याधिध्वंसं पुरंध्रीर्जितविबुधवधर्मवृद्धेः समृद्धिं धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः ॥ २१ ॥ ज्येष्ठासक्तं सचित्रं गुरुमहिमपुनर्वस्खपोढात्मकं नो नित्यं सत्कृत्तिकं यजनितवृषतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य ॥ २२ ॥ दारियाद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे बिभर्ति __ प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते __पीतात्पातात्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ॥ २३ ॥ यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरैतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुंदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ २४ ॥ सत्स्कन्धाबद्धमूलाँवृजितभुजलतालग्नमम्लानरूपं बिभ्रद्वन्धूककान्तिं करतलमचलं पल्लवभ्रान्तिभाग्भिः । १. जयपताका का मया सह स्पर्धेत्येवंरूपा. २. बुद्धो जिनस्तत्संबन्धी. ३. धर्मोक्तौ धर्मकथने प्रोद्धृत ऊवीकृतः. ४. ज्येष्ठेषु वृद्धेष्वेवोपदेशार्थमासक्तम्. ५. शङ्खचक्रादि चित्रसहितम्. ६. गुरुमहिमा यस्य. ७. पुनःपुनरपि वसुना तेजसा अपोढात्मकं रहितात्मकं नो. ८. सती शोभना कृत्तिश्चम यस्य. ९. वृषतुलामीनकुम्भा रेखात्मकाः. १०. शून्यवृत्त्या अलमत्यर्थं प्रविरहितम्, व्योमपक्षे तु ज्येष्ठाचित्रागुरुपुनर्वसुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः. व्योम शून्यं भवति. ११. अस्खलितः. १२. रक्षतात्. १३. अपगतशत्रुसमूहः पारिजातरहितश्च. १४. असून्रातीत्यसुरा प्राणप्रदा तनुर्यस्य । पक्षे सुरारहितदेहः. १५. मुद्रासहितः सागरश्च. १६. उद्गतहर्षेण, १७. अजिता सरला. ६ का० स० गु० Page #67 -------------------------------------------------------------------------- ________________ ६२ काव्यमाला। मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥ २५॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो ___ मॉ शक्त्या वियुक्तं सदलमपि जये वाञ्छतीत्युच्छलच्छूि । हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि__यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहतिं तत्तनोत्वाप्तवक्रम् ॥ १ ॥ भाखान्भाखानपि खैघृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो नेता नेतुं तनुत्वं तदतनिम मनो मोहयन्मानवानाम् । . मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डैितामूर्तिकीर्ते__ स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः ॥ २ ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च खभावा त्तुल्यर्द्धि स्पर्धयान्यं क्रमत इंतिसहीतीव धात्रा व्यधायि । मर्यादार्थ यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशनैः शाश्वतं तद्भवयः ॥ ३ ॥ सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा बिभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः खर्भवो याः समायुः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं ताखेवास्यं जिनस्य प्रणुदतु तदधं वः स्वरूपश्रियैव ॥ ४ ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्यार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टिं द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ ५ ॥ १. सदलं सपरिकरमपि. २. आप्तस्य जिनस्य मुखम्. ३. समर्थः. ४. अगुणं तमोगुणादिरहितमपि गुणानां सौन्दर्यादीनां धिष्ण्यम्. ५. खण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य. ६. अतिशयेन पृथु. ७. एव. ८. शं सुखम्. ९. शीघ्रम्. १०. वर्गोत्पन्नाः ११. समागताः, Page #68 -------------------------------------------------------------------------- ________________ जिनशतकम् । दर्प कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त क्रोधाद्वेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । आस्ते न्यस्तं लसद्भूयुगलमिति नृभिर्भाव्यते यत्र वक्र तद्रष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थ हताद्वः ॥ ६ ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै राख्योऽपि क्षीणदायों वसति वनभुवि ब्रीडयेवालखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं . दृग्भृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ ७ ॥ शान्तं श्वेतांशुशोचिःशुचिदशनमेशं स्यादृशां दृश्यमानं विश्वक्लेशोपशान्ति दिशदतिविशदैश्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्क दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ ८॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि .. क्षीयन्ते दक्षमणां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो- . रू/धोमध्यलोकश्रितजनसमितेरास्यमस्यत्वघं तत् ॥ ९ ॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी शुंभेर्दन्तैः सदन्तैर्वरविवरंभृतः प्रस्फुरद्ण्डैशैलात् । यस्माद्वौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तजैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥ १० ॥ दुर्बोधो दुर्विधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था नस्तश्रेष्ठौष्ठमुद्रो व्यसनशतशमप्रत्यलावाप्तिरुच्चैः । ...... १. मुनीन्द्रसंबन्धि. २. न शमशं दुःखम्. ३. स्पष्टतरयशःसमूहम्. ४. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. ५. सत्पर्यन्तैः. ६. विवरं मुखान्तरालं गुहाश्च. ७. गण्डा. वेव शैलाविति मुखपक्षे. ८. गङ्गा. ९. भाग्यहीनैः. १०. व्यसनशतशमे प्रत्यला समर्थी अवाप्तिर्यस्य सः. Page #69 -------------------------------------------------------------------------- ________________ ६४ काव्यमाला । सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वस्तत्त्वार्थं सत्वरं वस्त्वरयतु स गुरुबद्धुमध्यामरूपम् ॥ ११ ॥ किं बिम्बं पद्मबन्धोर्नहि दहनमहस्तन्मनाभेदमिन्दोस्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टुर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो मूर्यद्विभर्तुर्यर्देजितलपनं वस्तदेनस्तृणे ॥ १२ ॥ मान्ये मान्येन कारि स्वहगशुभतरात्रेतिकृष्णा तिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भ्रूलतारीलतारा । रक्षारक्षालिनी वेत्यवहितविधिना यत्र पापा पापा दव्यादव्यापैदास्यं तदमेरैणगुरोर्वः सदन्तं सदन्तम् ॥ १३ ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था मत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति । साक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा स्तद्वक्रं वैतरागं गुरुगद्गहनध्वंसनाद्वो विनोतु ॥ १४ ॥ श्रीमत्पौरंदरं मलिनघनवनं वनमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवर्णपरिकरः खातिरक्तो बुधप्रीः । स्वाभिर्यो दीधितीभिः कुरुत इतितैरामाचरन्नप्यचण्ड चण्डांशोः कर्म धर्माधिपलपनविधुर्वे विरुद्धं स बध्यात् ॥ १५ ॥ सणं सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजांनां राज्यापूर्णं सदन्तच्छदलसदसिकं काननं वनिनं वः । १. प्रकटतरम्. लपनं मुखम्. २. दाहात्मकतेजोविशिष्टम्. ३. इन्द्रस्य. ४. अजितस्य जिनस्य ५. हिनस्तु. ६. कृष्णादप्यति कृष्णा. ७. दिशां समूहे यद्गच्छत्सिततरं यशो यस्य. ८. कुटिलकनीनिका दृकू. ९. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. १०. अवहितेन धात्रा. ११. त्रपामापयति प्रापयति तस्मात्. १२. निरुपद्रवम्. १३. जिनस्य. १४. दन्तैः सहितम् १५. शोभनप्रान्तम्. १६. म्लानमपि. १७. प्रत्यक्षत्वेन यदीक्षणं तेन. १८. श्रवण कर्णौ श्रवणं च नक्षत्रम्. १९. शोभना आतिर्गतिः. २०. बुधान्प्रीणयति. २१. अतिशयेन. २२. मुखपक्षे बाणः शब्दः . २३. दन्तानां पक्षिणां च पङ्ख्या. २४. इवार्थे वा. Page #70 -------------------------------------------------------------------------- ________________ जिनशतकम् । ६५ संतप्ति सप्तसप्तेरव विषमगतेरागसोऽतीव गुर्वी मुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ १६ ॥ यद्यप्यन्तन धत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोया बहिरपि निरतैः पूर्वपृक्तरितीव । लग्नो रोगो गरीयस्यधरवरमणौ यत्र चित्रातिचण्ड त्रासात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ १७ ॥ दैवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः ___ पार्श्वस्थारक्तवर्णो भवति स लभते भूरिशोभा सुवृत्तः । स्थैर्य लब्धा समाधौ ब्रुवदिव युगलं तारयोर्लोचनान्त यत्रैवं राजते तन्मुखमुपशमयत्वाहतं गर्हितं वः ॥ १८ ॥ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्या दर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्योपसर्पि द्वितयमुपवहाधिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मली हेलया वः ॥ १९ ॥ राजीव त्वं निजा जयसि बहुरजः सत्कथं कथ्यतां मा___ मृलेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटलपोच्छलद्राणतो य द्वक्तीव व्यक्तमक्तानपयतु रजसा वस्तदर्हन्मुखाजम् ॥ २० ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्तिं व्यालोक्यालोकिताशः कृशतनुरविशत्खश्रियोऽन्तर्द्धिमिच्छुः । स ब्रीडत्वादिवेन्दुर्मुडविकट जटाजूटरौद्राटवीं वो यच्छत्वच्छिन्नवाञ्छं सुषममितमृतेराननं तन्मनोहृत् ॥ २१ ॥ लावण्यार्णःप्रपूर्णं चलहगनिमिषं राजहंसोपजीव्यं भ्राम्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् । १. पूर्वसंबन्धात्. २. अरुणत्वं मानसो विकारश्च. ३. निकटस्था अनुरक्ता वर्ण ब्राह्मणादयो यस्य. ४. शब्दतः. ५. रजसा पापेनातान् लिप्तान्. ६. शोभनम् . ७. गतमरणस्य जिनस्य. Page #71 -------------------------------------------------------------------------- ________________ ६६ काव्यमाला । सच्छङ्ख मानसाहू सर इव तरसा मानसस्यातनोति प्रहत्तिं वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ २२ ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्त- . खश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलमे __ यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ २३ ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखोली लालितालं |बलबलकुलोन्मूलिना शैलराजे प्रहन्ना लीलया वो दलयतु कलिलं लोलक्तजिनास्यम् ॥ २४ ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो __ गोभृद्गोत्रस्य हन्ता बलभिदहमपि त्वत्समानं तथैव । तस्माद्दविलेपं जहिहि हरिमितीवाहसत्सत्मितैर्य त्तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः । ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकृद्वैबुधानां विशुद्ध्या गुर्वी भाखसुवर्णावनरुचिखचिता चारुचामीकराद्रेः । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै रुल्लच्यालङ्घनीया बृहंदवमवने वैन्यवह्नीयतां वः ॥ १ ॥ १. परितोषम्. २. एतेन मुखेन आत्ता गृहीता या खश्रीः सूर्याचन्द्रमसोः स्वकीया शोभा तथा लन्धुमिच्छा तया आकुलमङ्गं ययोः. ३. विलोक्य. ४. अमलकलः पूर्णिमाचन्द्रस्तस्येवासमन्तालाञ्छनम्. ५. देवपतिः. ६. अत्यर्थ ललिता. ७. इन्द्रेण. ८. मेरौ. ९. पविं वज्रं त्रायते पवित्रः. १०. गोत्राख्यस्य कर्मण इति जिनपक्षे. ११. बलं संनहनाख्यं कर्म. १२. सकलोपद्रवान्. १३. वाणी. १४. ब्रह्म परमपदं तस्याधिभर्ता जिनः. १५. देवसमूहानाम्. १६. अवने रक्षणे या रुचिः, मेरुचूडापक्षे तु वनस्य रुचिस्तया खचिता. १७. सूर्यस्य किरणसीमाम्. १८. महतामवमानां पापानां वने. १९. दावानलायताम्. Page #72 -------------------------------------------------------------------------- ________________ जिनशतकम् । इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थक ऋक्षनाथैः . सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिजैः साधुभिः साधितार्थम् । गन्धर्वैर्गीतगर्भ कृतकरमुकुलैः श्रूयमाणानणीयो जैनी गौौरवं वोऽतनुभुवनकुटीकोटरान्तःकरोतु ॥ २॥ या मैन्दारैरशोकैः प्रविकचसुमनःशोभितैर्भिक्षुवृ:. स्तुङ्गीरांगमानैः सततमुपचिता भारती वैतरागी । खच्छायाच्छिन्नतापा विधितशुभफलालंकृतारामलेखा__तुल्या कल्याणमाल्यैबहुभिरिह तनूभूषयत्वाशु सा वः ॥ ३ ॥ यूथैर्या संयैतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणे गुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा साधीयोधीधनरतिसमधिकतां सा क्रियात्सिद्धगीर्वः ॥ ४ ॥ संसारोदन्वदम्भस्यमितिमृतिमहोर्मिण्यगण्योद्भवौर्व द्युद्धीमे लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्रायजिह्मवरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥५॥ नाभीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या दन्यद्वस्त्वित्यवेत्य खमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्धैः सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमलं विजेतुम् ॥ ६ ॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मिन्वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् । १. साध्यस्यार्थस्य सिद्ध्यै धुता दितिः खण्डनं यत्र. २. मन्दं आरं अरिसमूहो येषाम्. ३. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषां तैः; भिक्षुपक्षे तु रागमानाभ्यां रहितैः. ४. उपवनराजीसमाना. ५. संयतास्तपखिनो बद्धाश्च. ६. अमितयो मृतयो मरणान्येव महान्तस्तरङ्गा यत्र.. ७. नौरिवाचरति. ८. या वागस्मिञ्जगति एकमेव वस्तु द्विप्रकारं द्विभेदं प्रकटयति प्रतिपादयति । कुतः । नयद्वन्द्वं नययुग्म द्रव्यास्तिकनयः पर्यायास्तिकनयश्च तस्मात् । एवमित्यनेन प्रकारेण । यन्मृदादिवस्तु द्रव्यादेशनयापेक्षया नित्यं तत्पर्ययादेशत इतरदनित्यम्. Page #73 -------------------------------------------------------------------------- ________________ काव्यमान कुमाहोगग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचपन्ती खेतोभूप्रच्युति कः सुमतियति पुरोगस्य सा वाग्विधेयात् ॥ ७ ॥ निर्दोषा सन्निशीथाप्यवितथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युन्नतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमसाप्युन्नतासत्तमाया मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राहयलं वोऽविलम्बम् ॥ ८ ॥ सत्या सत्यानताले तनुमति भविका सर्वदा सर्वदाग__ स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानीयमाना । नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताऑरिताशा ___ गौर्वा गौमिपके मुनिपलपनभूर्वः संदावासदावा ॥ ९ ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्चूचुरन्मा चिराया त्युच्चैस्ताश्चीरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तभूध्वान्तचित्या सचेतोम्भोजचक्रं प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ १० ॥ श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां ___ संसद्यासाद्य सद्यः परिणमति वचोऽर्हन्मुखान्निर्गतं सत् । तेषां भाषाविशेषैर्विषमिव विषदाद्भविभागान्विभिन्ना खैः सर्बणैः सुवर्ण यदनुगुणयतात्वश्रुतौ तत्मनो वः ॥ ११ ॥ या वारिक्षीरयोर्वा प्रकृतिपुरुषयोः श्लिष्टयोस्त्रोटयन्ती संबधं निर्विबन्धं ललितपदगती रोमैरामेव रम्या । सा वः शुक्लाभदेहा दहतु महद्वपि क्षुद्रपक्षद्रुमाणां वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ १२ ॥ १. निशीथो ग्रन्थविशेषः, २. सती शोभना अहीना च. ३. असन्नविद्यमानः कृतान्तो यमो यस्याम् ; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. ४. द्विष्टोऽर्थो द्रव्यादिर्यया. ५. सर्व ददातीति सर्वदा. ६. पापविस्तारे. ७. वामपके मिथ्यादृष्टिरूपकर्दमे नाशमयमाना गच्छन्ती. ८. अरितां शत्रुतां श्यति सा. ९. सदावासो मोक्षस्तं ददति ते ज्ञानादयस्तानवति सा. १०. मदनान्धकारसमूहेन. ११. पर्यायान्तरमनुभवति. १२. जलमिव. १३. जलदात्. १४. कर्मजीवयोः. १५. मनोहरवनितेव. Page #74 -------------------------------------------------------------------------- ________________ ६९. जिनशतकम् । गृभुत्वात्तत्त्वगन्धाधिगमविषयतः सफ्तद्भिः समुद्भिः सद्भिः सद्भिरेिफैरिव मधुररवैश्वारुपक्षैः सुदक्षैः । यत्प्राप्य प्राप्यते शं खरिनकरिमदाम्भोवदीप्तं वचो व स्तक्लेशाश्लेषशोषोपशमकृतिविधिं प्रत्यलंभूष्णु भूयात् ॥ १३ ॥ नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः । शैटिं वः सत्पटीवोत्केटकटुकफलाकार्यशीतस्य गौ - ___ क्संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जिंतोत्सेकमूर्तेः ॥ १४ ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं __ खनाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे । ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः __ संख्यं प्रेङ्क्षन्मनोभूविशिखमुखभिदः खण्डयत्वस्खलन्ती ॥ १५ ॥ वर्णैः पूर्णाप्यवर्णा कुंजनपरिचिताप्याप्सलोकविता साराप्युच्चैरसारा रतिसुखकृदपि प्रास्तकंदर्पदर्पा । या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भारतीनां रतीनां ___ सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा ॥ १६ ॥ भद्रा द्रोणी समुंद्रे द्रविणवरनिधिनायेऽपिधानः खापस्त्वानूपपातापदि परिपता दूंवरी दुर्गमार्गे । युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरौर्यार्यगीर्या ___सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता ॥ १७ ॥ १. इन्द्रगजदानोदकवत्. २. आप्तो जिनस्तस्येदमाप्तम्. ३. समर्थम्. ४. नाशम्. ५. उत्कटकटुकं फलं यस्य तादृशं यदकार्य दुष्कर्म तदेव शीतं तस्य. ६. जितगर्वा मूर्तिर्यस्य । शान्ताकृतरित्यर्थः. ७. छेदने. ८. मोहरूपं प्रेम. ९. जिनस्य. १०. शुक्लादिवर्णरहिता. ११. भूमिस्थलोकैः. १२. अभिष्टुता. १३. सारे गमनं तद्रहिता । स्थिरे. त्यर्थः. १४. रतिसुखं कृन्ततीति विरोधपरिहारः. १५. सनिष्पत्ति शरहिता च. १६. भारती वाणी ईनां लक्ष्मीणां रतीनां च निमित्तं चरितमुपदधातु. १७. नौका. १८. धनाभिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः. १९. निर्जलदेशगमनापदि खापः शोभनजलम्. २०. रथः. २१. आर्याणां तपखिनामार्यः स्वामी जिनस्तस्य गीः. Page #75 -------------------------------------------------------------------------- ________________ काव्यमाला। भूमानं बिभ्रतोऽपि प्रकटयति झटित्योजसा खेन हानि स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । यान्यादृक्षेव साक्षात्कृतनयनपथातीतवस्तुखरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ १८ ॥ ज्योतिर्मत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या सार्हद्भास्त्यरत्या वियुततनुलतान्वः क्रियादक्रमेण ॥ ११ ॥ सालंकारां करोति श्रुतिमति विशंदन्यायरत्नोद्भटश्रि श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भाखराङ्गम् । सद्वृत्तोदात्तरूपं व्युपरतविकृतेर्यत्तुलां कुण्डलस्य क्षिप्रं बिभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदर्यम् ॥ २० ॥ नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्रौद्धदेवा दश्रीणां नाश्रयोऽभु स्रुतिरति न नवा विसा न श्रमो वः । नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः श्रुत्वा यां श्रीजिनस्याश्रियमभिभवतागौरसौ साक्श्रुतीष्टा ॥ २१ ॥ मिथ्यादृक्पाथसान्त तगुरुविपदावर्तगर्त गरीयः- . सर्पत्कंदर्पसर्प प्रचरितकुनयानेकनकादिचक्रम् । यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधिं साधुबन्धं - पातात्योतायमानं तदवमपतनाज्जैनचन्द्रं वचो वः ॥ २२ ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती क्लेशग्रीष्मोष्मशोषं खमहिमभवनात्संहरन्ती रजांसि । विस्फूर्जन्नीतिधारानिकरपतनतः प्रावृषा या समाना मानारेर्माननामाप्यपनुदतु भवत्खाशु सा सूनृता वाक् ॥ २३ ॥ या . १. पण्डितैः. २. विशदा न्याया नीतय एव रत्नानि. ३. जिनस्य. ४. यमात्. ५. जरा. ६. रक्षतात्. ७. पापपातात्. ८. अपनयन्ती. ९. खकीयमाहात्म्यभावात्. १०. जिनस्य. Page #76 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । लक्ष्मीर्वा दुग्धसिन्धोधरणिधरवराज्जझुकन्येव मान्या श्यामेशाच्चन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः । ध्वान्ताबन्धोरहःश्रीरिव समुदभवद्भारती रत्यधीन्द्र द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह बिभ्र स्कण्ठे निर्लोट्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम् । यां रक्षां वा विवेकी बहुविधविपदां मेदिकां दैन्यशून्या। न्युष्मान्मान्याग्रगेस्याननवनजशया वागसौ द्राग्विधेयात् ॥ २५॥ इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णनं नाम चतुर्थः परिच्छेदः । समाप्तमिदं जिनशतकम् । श्रीपद्मानन्दकविप्रणीतं वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो वीतत्रासविलासहासरभसः पायाजिनानां पतिः ॥ १॥ यैः क्षुण्णाः प्रसरद्विवेकप॑विना कोपादिभूमीभृतो __योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमत्रविधिना यैः प्रौढकामज्वर___ स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥ २ ॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी लक्ष्मीः प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः। १. ध्वान्तशत्रोः. २. रत्यधीन्द्रं कामं द्रोग्धुद्वेष्टर्जिनात्. ३. इव. ४. जिनस्य. ५. मुखकमलस्था. ६. कवेरस्य देशकालौ न ज्ञायेते. एकमेव पुस्तकमस्य शतकस्य प्रायः शुद्धं पत्रचतुष्टयात्मकं संवेगिसाधुसत्तमश्रीशान्तिविजयमुनिभिरस्मभ्यं प्रहितं तदाधारेगैतन्मुद्रणं विहितम्. ७. वज्रेण. Page #77 -------------------------------------------------------------------------- ________________ ७२ काव्यमाला। भुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ ३ ॥ यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ४ ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते दुर्गन्धेन न बाध्यते न च सदामोदेन संप्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्चानेन विद्वेष्यते ___माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ५ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते __भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते __ येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ ६ ॥ सौन्दर्यैकनिधेः कलाकुलविधेावण्यपाथोनिधेः ___ पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः । कान्ताया नवयौवनाञ्चिततनोयॆरुज्झितः संगमः सम्यङ्मानसगोचरे चरति किं तेषां हताशः स्मरः ॥ ७ ॥ शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता प्रोद्गच्छत्सुमनोभिषङ्गसुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षेऽपि रे ॥ ८ ॥ आताम्रायतलोचनाभिरनिशं संतj संतर्घ्य च क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्चाङ्गनाभिर्भृशम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां येषां शुद्धविवेकवज्रफलकं पार्थे परिभ्राम्यति ॥ ९ ॥ अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । १. नागकन्यातुल्यायाः. Page #78 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । ७३ आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराञ्चिततनोविच्छेदने बिभ्यतां मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ ११ ॥ मध्ये खां कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां . कौटिल्यं चिकुरेषु रागमधरे मान्धं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः पश्यन्तोऽपि जडा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ अन्यायार्जितवित्तवत्वचिदपि भ्रष्टं समस्तै रदै. स्तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् । . केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि खैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ १४ ॥ उद्गुणन्ति प्रपञ्चेन योषितो गद्गदां गिरम् । तामामनन्ति प्रेमोक्तिं कामग्रहिलचेतसः ॥ १५ ॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं सिद्धान्तार्थमहौषधेर्निरुपमश्चूर्णो न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्सरोत्थो ज्वरः शान्ति याति न तात्त्विकी हृदय हे शेषैरलं भेषजैः ॥ १६ ॥ शृङ्गारदुमनीरदे प्रस्मरक्रीडारसस्रोतसि प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति । ७ का० स० गु० Page #79 -------------------------------------------------------------------------- ________________ ७४ काव्यमाला । तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८ ॥ लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मत्रतं भ्रश्यति ज्ञानं संकुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् । यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषण - स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येषा विषैौधायते ॥ १९ ॥ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता संतोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैन्थ्येन परिग्रहग्रहिलता यैर्योवनेऽपि स्फुटं पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥ २० ॥ यत्रानोऽपि (1) विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषन्निषण्णमनसां येषां मनः सर्वथा तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् ॥ २१ ॥ स्वाध्यायोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः सम्यग्ज्ञान विलासमण्डपगताः सद्ध्यानशय्यां श्रिताः । तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासङ्गिनो निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥ २२ ॥ किं लोलाक्षि कटाक्षलम्पटतया किं स्तम्भजृम्भादिभिः किं प्रत्यङ्गनिदर्शनोत्सुकतया किं प्रोल्लसच्चाटुभिः । आत्मानं प्रतिबाधसे स्वमधुना व्यर्थं मदर्थं यतः शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ २३ ॥ सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृततरुः । श्रद्धाजलेन सिक्को मुक्तिफलं तस्य स ददाति ॥ २४ ॥ Page #80 -------------------------------------------------------------------------- ________________ ७५ वैराग्यशतकम् । क्रोधाधुग्रचतुष्कषायचरणो व्यामोहहस्तः सखे रागद्वेषनिशातदीर्घदशनो दुरिमारोद्भुरः । सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ २५ ॥ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये सर्वखं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते खामिनो द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः ॥ २६ ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । कायः परहितोपायः कलिः कुर्वीत तस्य किम् ॥ २७ ॥ नास्त्यसद्भाषितं यस्य नास्ति भङ्गो रणाङ्गनात् । नास्तीति याचके नास्ति तेन रत्नवती क्षितिः ॥ २८ ॥ आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया लक्ष्मीः कस्य न वल्लभा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं सर्वाशाद्रुमकर्तनैकपरशुर्मृत्युन चेत्स्याज्जनोः ॥ २९ ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः ___ वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया ___ मृत्युं पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ ३० ॥ कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ । पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥ ३१ ॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः। Page #81 -------------------------------------------------------------------------- ________________ ७६ काव्यमाला | तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ॥ ३२ ॥ बालो यौवनसंपदा परिगतः क्षिप्रं क्षितौ लक्ष्यते वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोsपि कापि गतः कृतान्तवशतो न ज्ञायते सर्वथा पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं ग्रासाभाववशान्न संचरति यद्रङ्कोऽपि तेषां पुनः ( 3 ) । येsभूवन्विमुखाः खकुक्षिभरणे तेषामकस्मादहो यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो । मृत्युना नीयमानस्य पुण्यपापे परं पुरः || ३५ ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोह प्रसरावरोधनविधिं सद्ध्यानतो लीलया नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६ ॥ बद्धा येन दशाननेन नितरां खट्रैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन खदोललया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः कथा ॥ ३७ ॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोके निगद्यते । रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्र गतिभिः संचारितस्योद्भटैरत्युग्रभ्रममुद्गराहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्चोरव न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥ Page #82 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । दुष्पापं मकराकरे करतलाद्नं निमग्नं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ ४० ॥ येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना . .. सयापारवियोजितेन परमं निर्वाणमप्याप्यते । प्रीतिस्तेन हहा सखे प्रियतमाववेन्दुरागोद्भवा क्रीता खल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥ ४१ ॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यसनं । कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भन्यो द्रव्यसमर्जने किल महारम्भोद्यमः किं तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं , लोभोन्मूलनहेतवे खविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं दुष्प्रापो नृभवो मया हतधिया हा हारितो हारितः ॥ १३ ॥ सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गुरं ... कासश्वासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । प्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः ___ कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः ॥ ४४ ।। संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्यानया सर्वथा रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ ४५ ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्न्या धुरं - पृष्ठेनोपचितेन नैव वहसे प्रोच्चैरहिंसाभरम् । Page #83 -------------------------------------------------------------------------- ________________ काव्यमाला। मिथ्या त्वन्निवयं (१) पदाहतिवशाद्भो गाहसे त्वं यत श्वेतस्तद्गतशङ्क साङ्कवृषवन्निन्धं परिभ्राम्यसि ॥ ४६ ॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपातं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये रे जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः ॥ ४७ ॥ क्रोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं __ माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीव्रोत्कटकूटचित्तवशग खान्त त्वया हारितं हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ १८ ॥ बाल्ये मोहमहान्धकारगहने ममेन मूढात्मना तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना। वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना __ मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ।। ४९॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवीं गाहसे मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (१) मे तदा ॥ ५० ॥ अज्ञानाद्रितटे कचिवचिदपि प्रद्युम्नगर्तान्तरे मायागुल्मतले कचित्वचिदहो निन्दानदीसंकटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी___ मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ५१ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ ५२ ।। Page #84 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो। किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया ___ वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ ५३ ।। रोढुं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते ___ भेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः ॥५४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्धा क्रोधपयोनिधिं कुटिलतालकां क्षपित्वा क्षणात् । नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरैर्दारैर्विहारैर्वरैः केयूरैर्मणिरत्नचारुशिखरैर्दारैरुदौरैश्च किम् । प्राणान्पद्मदलानवारितरलाञात्वा जवाज्जीव रे दानं देहि विधेहि शीलतपसी निर्वेदमाखादय ॥ ५६ ॥ ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्यं वपु स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोर्बलम् । रे रे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ ५७ ॥ श्रीखण्डपादपेनेव कृतं स्वं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ॥ ५८ ॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा किं पीतेन सुधारसेन बहुधा खाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ५९ ॥ Page #85 -------------------------------------------------------------------------- ________________ 4o काव्यमाला। मां बाल्यादपि निर्निमित्तनिबिडप्रोद्भूतसख्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा प्रालेयोत्करवद्भवन्त (द्धत्तं त) मनया द्रक्षाम्यहं त्वां कथम् ॥६०॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृल्लोभान्न चान्यो रिपु- युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ॥ औचित्यांशुकशालिनी हृदय हे शीलाङ्गरागोज्वलां श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराकिताम् । सबोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ ६२ ।। यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नति न व्याधिन धनं तथैव न वधो ध्यानं न नाध्येषणा। नो दास्यं न विलासरम्यवदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ ॥ तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवा न्संपूर्णेन्दुमुखीप्रिया प्रियमहीमाधुर्यहृया तथा । ............................................... || ६४ ॥ ..........."हृदये। मन्त्ररहस्योद्भारी मंत्रीव स दूरतस्त्याज्यः ॥ ६५ ॥ धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके ___ कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि । अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः ॥ ६६ ॥ Page #86 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्रादेऽपि ताराः स्फुटं हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥ ६७ ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च तथा शीलमखण्डितम् ॥ ६८ ॥ मायया राजते वेश्या शीलेन कुलबालिका । न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ ६९ ॥ यावद्याधिविबाधया विधुरतामङ्गं न संसेवते यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी । तावन्निष्कलनिश्चला मलपदं कर्मक्षयायाधुना ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे ॥ ७० ॥ अज्ञानावृतचेतसो मम महाव्यामूढतां ......... कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि द्रुतं मां पुण्याप्त गुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ॥ ७१ ॥ तन्नो नागपतेर्भुजंगवनिताभोगोपचारैः परै स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल । तन्नो वज्रधरस्य देववनिताक्रीडारसैर्निर्भरै र्यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् ॥ ७२ ॥ मध्यक्षामतया योषित्तपः क्षामतया यतिः । मुखक्षामतया चाश्वो राजते न तु भूषणैः ॥ ७३ ॥ तन्व्या श्रोत्ररसा [ यनेन वचसा ] सप्रेम संभाषितः सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान्न तिला मात्रमपि यः संक्षोभितुं शक्यते रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः ॥ ७४ ॥ ८१ Page #87 -------------------------------------------------------------------------- ________________ काव्यमाला। आताम्रायतलोचनातुरमिदं न्यकारवाङ्गिन्दितं बद्धभ्रूकुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति स्मरविह्वलीकृतहृदो ही कामिनां मूढता ॥ ७५ ॥ कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थमानमहः परं यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ ७६ ।। क कफात मुखं नार्याः क पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ ७७ ॥ पाशे कुरङ्गनिवहो न पतत्यविद्वा न्दाहात्मतामकलयब्शलभः प्रदीपे । जानन्नहं पुनरमून्करिकर्णलोला न्भोगांस्त्यजामि न तथापि क एष मोहः ॥ ७८ ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योषिदेव परा जरा ॥ ७९ ॥ धिकंदर्प जगत्रयीविजयिनो दोःस्थामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र ......भवान्सर्पजराराक्षसी___ वक्रान्तः पतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ।। ८० ।। तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः । यस्यां मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ॥ ८१ ॥ रेरे मोहहताश तावकमिदं धिक्पौरुषौज्जृम्भितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । Page #88 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं ___ शौटीर्यं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ ८२ ॥ रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ॥ ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४ ।। याच्ञायै वचनक्रमं रचयतः पादौ परिभ्रान्तये नेत्रे रोषकषायितानि वदनान्यालोकितुं खामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं तत्किं हन्त परिश्रमोऽपि निकटीभूयं(?) न संपन्नवान् ॥ ८५ ॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाज्जनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शकतेऽपि ॥ ८६ ॥ बन्धो क्रोध विधेहि किंचिदमरं खस्याधिवासास्पदं भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हंहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि ॥ ८८ ॥ विश्वाः कला परिचिता यदि तास्ततः किं तप्तं तपो यदि तदुग्रतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि मन्तर्विवेककलिका यदि नोल्ललास ॥ ८९ ॥ Page #89 -------------------------------------------------------------------------- ________________ ८४ काव्यमाला। स्फूर्जल्लोभकरालवत्रकुहरो हुंकारगुञ्जारवः कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । खैरं यत्र स बम्भ्रमीति सततं मोहाह्वयः केसरी __ तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ॥९॥ एकः स वैवखत एव देवः शौटीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ॥ ९१ ॥ एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुष्व मयि वक्रविलोकितानि । उन्मीलति स्म ललिताझ्यधुना स एव मन्मानसे शुचिविवेककलाविलासः ॥ ९२ ।। प्रत्यक्षो नरकः स एष वसुधापीठे परायत्तते त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी()वशवर्तिनोऽपिविषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्कुरचर्विताङ्गलतिकः किं नाम नैवोज्झति ॥ ९३ ।। ता एवैताः कुवलयदृशः सैष कालो वसन्त___ स्ता एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किंतूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानी हसति हृदयं यौवनोन्मादलीलाः ॥ ९४ ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं खकीयगुणदोषविज्ञानम् ॥ ९५ ॥ यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां सिद्धिं याति कथं नृधान्यनिकरस्तस्मिन्कुपात्रे श्रितः ॥ ९६ ॥ हे मोहाहत जीव हुं शृणु वचः श्रद्धास्ति चेत्कथ्यतां प्राप्तं किंचन सत्फलं भवमहाटव्यां त्वया भ्राम्यता । Page #90 -------------------------------------------------------------------------- ________________ वैराग्यशतकम् । भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हि किं शून्यं पश्यसि पङ्गुवन्ननु गतं नोपक्रमे तिष्ठति ।। ९७ ॥ शौक्ये हंसबकोटयोः सति समे यद्वद्गतावन्तरं कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । प्रैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्धता मानुष्ये सदृशे तथार्यखलयोर्दूरं विभेदो गुणैः ॥ ९८ ।। त्वदृष्टिपातनिहताः खलु तेऽन्य एव धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता स्तत्किं विडम्बयसि मन्मथविभ्रमैः खम् ॥ ९९ ॥ संपत्स्यते मम कदाचन तद्दिनं किं सध्यानरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥ १०० ॥ ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां खयं सिद्धैव भारती ॥ १०१ ।। सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः _श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः ___ पद्मानन्दशतं(इति) व्यधत्त सुधियामानन्दसंपत्तये ॥ १०२ ॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये श्रीखण्डद्रवलेपने न च न च द्राक्षारसाखादने । आनन्दः स सखे न च क्वचिदसौ किं भूरिभिर्भाषितैः पद्मानन्दशते श्रुते किल मया यः खादितः खेच्छया ॥१०॥ इति श्रीपद्मानन्दप्रणीतं वैराग्यशतकम् । ८ का० स० गु० Page #91 -------------------------------------------------------------------------- ________________ काव्यमाला। श्रीजिनप्रभसरिविरचितः सिद्धान्तागमस्तवः। सावचूरिः। ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः ॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां खशैक्षशिष्यादिपठनविलोकनायर्थ यमकश्लेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः । तेष्वयं सर्वसिद्धान्तस्तवो बहूपयोगिलाद्विवियते-- नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ १ ॥ गुरुभ्यः श्रुतदेवतायै सरखसै सुधर्मणे च पञ्चमगणधराय नला । त्रिषु नतिक्रिया । 'अभिप्रेयवाचतुर्थी' इति सूत्रेण संप्रदानाच्चतुर्थी । श्रुतभक्तिप्रेरितोऽहं निरुद्धा रुद्धा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यैस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि ॥ सामायिकादिकषडध्ययनखरूप मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिभाष्यवरचूर्णिविचित्रवृत्ति स्पृष्टीकृतार्थनिवहं हृदये वहामि ॥२॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुर्विंशतिस्तव-वन्दनकतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम् । शिवरमाया (मोक्षलक्ष्म्याः ) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रबाहुकृता एकत्रिंशच्छतप्रमाणा । भाष्यं सूत्रार्थप्रपञ्चनम् । वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता । विचित्रवृत्तिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टीकृतोऽर्थनिवहो यस्य तथाविधं हृदये वहामि स्मरामि ॥ युक्तिमुक्ताखातिनीरं प्रमेयोर्मिमहोदधिम् । विशेषावश्यकं स्तौमि महाभाष्यापरायम् ॥ ३ ॥ १. स्तोत्रस्यास्यैकमेवाष्टपत्रात्मकं सटीकं पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनीनां सकाशादधिगतम्. तच नातिशुद्ध शतवर्षप्राचीनमिवानुमीयते तदाधारेणैतन्मुद्रणं विहितमस्ति. Page #92 -------------------------------------------------------------------------- ________________ सिद्धान्तागमस्तवः । युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्खातिनीरम् । प्रमेयाः पदार्थास्त एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाष्यमित्यपर आह्वयो यस्य तद्विशेषावश्यक स्तौमि ॥ दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ।। ४ ।। विकालेनापराहरूपेण निर्वृत्तानि वैकालिकानि दशाध्ययनानि यत्र तत् शय्यंभवसूरिकृतं दशवैकालिकं मेरुमिव रोचिष्णू चूलिके इह खचूलिपारूपे यत्र । पक्षे चत्वारिंशद्योजनमाना । सुमनसामुत्तमानां पक्षे देवानां प्रीतिस्थानम् । सत्कल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः ॥ उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोषयुक्तिम् ॥ ५॥ उद्धां प्रशस्यां मितामिधानां स्तोकशब्दाममिताभिधेयां बह्वर्थाममोघयुक्तिं सफलयुक्तिमोधनियुक्ति नौमि स्तौमि । किंविशिष्टाम् । उपोद्धातः शास्त्रस्यादिस्तस्य विकल्पा द्वाराणि 'उद्देसे निदेसे निग्गमे' इत्यादीनि षडिशतिः। तत्र विकल्परूपाखस्य मेदा एकादश नामस्थापनाद्रव्यादयः 'दव्वे अठ्ठअहाउ अउवक्कमे' इत्यादिगाथोकास्तेषु षष्ठमेदस्योपक्रमकालस्य प्रमेदौ सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च । तयोः प्रथमस्य त्रयः प्रतिमेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्यं संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओघनियुक्तिः श्रीभद्रबाहुखामिना नवमपूर्वोत्ततीयादाचाराभिधवस्तुनो विंशतितमप्राभृतानियूंढा सांप्रतिक. साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनियुक्तौ गणधरवादस्याग्रे संप्रति च सुखपाठाय पृथग्ग्रन्थरूपा विहितास्ति ताम् ॥ पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् ।। ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ ६ ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धतज्ज्ञाने संपूर्णकौशलवितरणसक्कां ललितानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टां (मृष्टां) मधुरां पिण्डनियुक्ति वयमभिष्टुमः॥ प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ ७ ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोषः तन्मूलखानाटकस्य । प्रपञ्चितं प्रकटीकृतं ज्ञानपञ्चकस्य मतिश्रुतावधिमनःपर्ययकेवलज्ञानरूपस्य सतत्त्वं खरूपं यया सा नन्दिरस्माकममन्दतमं बहुतरमानन्दं कन्दलयतु वर्धयतु ॥ Page #93 -------------------------------------------------------------------------- ________________ काव्यमाला । अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८॥ श्रुतमेव सौधं गृहं तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनरस्य द्वाराणीवानुयोगद्वाराणि जीयासुः ॥ अनवमनवमरससुधाहदिनी पत्रिंशदुत्तराध्ययिनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥९॥ अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य ह्रदिनी नदी षट्त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवर्तिभिर्नारदादिभिः प्रणीतानध्ययनविशेषान् ॥ उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ १०॥ आचारविचारचारु योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकत्वादाचार नामाद्य मामहं प्रपद्ये श्रये । किंविशिष्टम् । उच्चैस्तराः शब्दार्थाभ्यामतिशायिन्य उदश्चिताः प्रकटीकृताः पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाश्चूडासंज्ञाः । पुनः किविविष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगमिनीविद्या तस्य । तत एवोद्धृत्य श्रीवज्रखामिना प्रभावना कृता ॥ त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददर्पाद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृदङ्गं शिवश्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि । किंविशिष्टम् । त्रिषष्ट्यधिकशतत्रयीमिता । ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पाद्रिविमेदे हादिनी वज्रसमम् ॥ स्थानाङ्गायदशस्थानस्थापिताखिलवस्तुने । नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्थानान्यधिकारविशेषाः तथाहि-तनुइन्दा.................कम्म बन्धन्ति' इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाङ्गायाहं नमामि । 'विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाङ्गायेति संप्रदानम् ॥ तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवाया समवायैः स्तुतं सताम् ।। १३ ।। तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपणं कथनं तत्र परायणं तत्परं सतां समवायैः समूहैः समवायाझं वयं स्तुमः ॥ Page #94 -------------------------------------------------------------------------- ________________ सिद्धान्तागमस्तवः। या पत्रिंशत्सहस्रान्प्रतिविधिसजुषां बिभ्रती प्रश्नवाचां चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह प्रज्ञप्ती पञ्चमाझं जयति भगवती सा विचित्रार्थकोषः ॥ १४ ॥ या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचां षट्त्रिंशत्सहस्रान्बिभ्रती दधती या चत्वारिंशच्छतेष्वधिकारविशेषेषूद्देशकानां श्रेणिं परितः सर्वतः प्रथयति सा विवाहप्रज्ञप्ती नानी पश्चमाङ्ग रङ्गन्तो ये भङ्गा रचनाविशेषास्तैरुत्तरङ्गा उत्कल्लोला तया युक्तयो गमाः सदृशपाठास्तैर्गहना प्रन्थिला अकुशलैर्दुर्विगाहा विचित्रार्थकोषो जयति । भगवतीति पूज्याभिधानम् ॥ कथानकानां यत्रार्धचतस्रः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथाः श्रये ॥ १५ ॥ यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम षष्ठमनमुत्क्षिप्तादिभिर्टातैदृष्टान्तैर्हद्या श्रियेऽस्तु (श्रये ) ॥ आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः । विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ १६ ॥ आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्येतिवृत्तानि चरितानि तैः सुभगार्था उपासकदशा नाम सप्तमाझं विशदां भावदृशं मम सदा दिशन्तु ॥ महदृषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतोचैरन्तकृद्दशाः कृतिनः ॥ १७ ॥ गौतमपद्मावतीप्रमुखाणां महर्षीणां महासतीनामधिकृतानि प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशा हे कृतिनः, उच्चैयूयं स्मरत ॥ गुणैर्यदध्ययनकलापकीर्तिता अनुत्तरा प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥१८॥ यदध्ययनकलापे कीर्तिताः कथिताः प्रशमिषु ऋषिषु गुणैश्चारित्रादिभिरनुत्तराः प्रधानाः । जालिमुख्यका जालि म ऋषिः स एव मुख्यो येषां ते जालिमुख्यकाः। खार्थे कप्रत्ययः । अनुत्तराणि विजयादीनि पञ्चविमानानि तेषां श्रियमभजन । अनुत्तरोपपातिकमित्युपपदं पूर्वपदं यासां ता अनुत्तरोपपातिकदशा अहं श्रयामि ॥ अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यानां भवनमुदात्तवैभवानाम् । निर्णीताश्रयविधिसंवरखरूपा प्रश्नव्याकरणदशा दिशन्तु शं नः॥१९॥ Page #95 -------------------------------------------------------------------------- ________________ ९० काव्यमाला । अङ्गुष्ठादिषु आदिशब्दाद्दीप जलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिनां विद्यानां भवनं स्थानम् । आश्रयविधिः कर्म पुद्गलानां संवरस्तनिरोधः । निर्णीतं तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमा नोऽस्माकं शं सुखं दिशतु ॥ ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पङ्किसंख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥ २० ॥ मृगापुत्रसुबाहुवादिभिर्दृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केषाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाकश्रुतमेकादशमङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवर्णादेः' इत्यनेन सूत्रेण परतो त्वम् । एतान्यप्येकादशान्यङ्गानि श्रीसुधर्मस्वामिना रचितानि । अन्येषां गणभृतां पूर्वनिर्वृतत्वेन सर्वगणधर शिष्याणामेतद्वा चनाग्रहणात् । अत एवादौ श्रीसुधर्मा नमस्कृतः ॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ २१ ॥ यत्प्रणिधाय स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणिः प्रवृत्ता । अतिदेशोऽन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः संक्षेपेण कथनम् । तदुपपातिकमाचाराङ्गोपाङ्ग देवनारकाणामुपपाद उत्पादस्तस्य वैचित्रीं प्रकटयत् हे विद्वांसः, यूयं नमत | आचाराङ्गस्य शास्त्रपरिज्ञाध्ययनाख्ये द्वे शतके । सूत्रमिदं 'एवमेगे सिनोनायं भवइ' इत्यादि । अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदत्र प्रपञ्चयत इत्यर्थः । अङ्गस्योपसमीप इत्युपाङ्गम् ॥ सूर्याभवैभवविभावनहृष्टतीर्थप्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राजप्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ २२ ॥ सूर्याभदेवस्य वैभवमृद्धिस्तस्य विभावनेनेचणेन हृष्टं यत्तीर्थं प्रथमगणधरचतुर्विधः संघो वा तस्य प्रश्नात्पृच्छाया अनन्तरमिनस्य श्रीवीरस्याननं मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोभि । उपपत्तिशतैर्युक्ति शतैरिद्धं दीप्तं राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि । प्रदेशी केशिना प्रतिबोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः तत्रात्यद्भुतं तस्य तेजो वीक्ष्य श्रीसंघेन प्रश्नः कृतः सर्वेभ्योदेवेभ्यः किमित्ययमुत्कृष्ट इति ॥ Page #96 -------------------------------------------------------------------------- ________________ सिद्धान्तागमस्तवः। जीवाजीवनिरूपिद्वेधाप्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ २३ ॥ जीवाजीवनिरूपिण्या या द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारास्तासां नवकेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाङ्गोपाङ्गं ध्यायेम । जीवानामुपलक्षणादजीवानामप्यभिगमो ज्ञानं यत्र तत् ॥ षत्रिंशता पदैर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ २४ ॥ षट्त्रिंशता पदैरधिकारैर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाङ्गोपाङ्गं पनायामि स्तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः । तत्र तदधिकारात् ॥ विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बुद्वीपप्रज्ञप्ते तुभ्यमस्तु नमः ॥ २५ ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाङ्गोपाङ्ग......... विवृता प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये । गुम्फवपुषैव नवरं नातिभिदार्थात्मनापि ययोः ॥ २६ ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजाते नवरं केवलं गुम्फवपुषैव गुम्फेनैव नव्ये भिन्नग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेदः । अपिशब्दाच्छन्दतोऽपि ॥ कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥ २७ ॥ कालादिदशकुमाराणां चेटककोणिकवैरे महाहवारम्भसंभृतैर्महायुद्धारम्भोपार्जितैः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेषीरन्विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः। यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥ २८ ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वमुपेयिवांसः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतंसिका वयमुपास्महे ।...... ॥ चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुष्पयन्तु नः ॥ २९ ॥ Page #97 -------------------------------------------------------------------------- ________________ काव्यमाला। यत्र संयमविराधनायाः फलं चन्द्रसूर्यौ राजानौ पूर्वभवे गृहीतदीक्षा बहुपुत्रिकानपत्या पूर्वभवे प्रव्रजिता......."अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्लयन्तु । यत्र ग्रन्थेऽङ्गिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिताः (१) ॥ श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ ३० ॥ श्रीह्रीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूपं यत्र सूत्रितं कथितं ताः पुष्पचूलिका मे मम प्रसादानुकूलिकाः प्रसादतत्पराः सन्तु ॥ वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः । पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम् ॥ ३१ ॥ निषधादीनां राज्ञां वृष्णीनामन्धक ... 'वृष्णिदशा भक्तिपरायणानां शुभां दशां पुष्णन्तु ॥ नन्यनुद्योगद्वारयोः पूर्व कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति वन्दे मरणसमाधि प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ ३२ ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् । द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च नुमः ॥ ३३ ॥ अहं वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महाप्रत्याख्यानमातुरप्रत्याख्यानं च । संस्तार-चन्द्रवेध्यक-भक्तपरिज्ञा-चतुःशरणमिति समाहारः । वीरतवं-देवेन्द्रस्तवं-गच्छाचारं गणिविद्यां द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ॥ .. शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः ॥ ३४ ॥ मोक्षमार्गदीपाय उद्धातो गुरुप्रायश्चित्तविशेषः । अनुद्धातस्तु तद्विपरीतः । लघुरित्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजनं तदात्मा स्वरूपं यस्य स तस्मै उद्धातानुद्धातारोपणात्मने ॥ चित्रा विविधा उत्सर्गापवादा यत्र । उत्सर्गो मुख्यमार्गः । अपवादः करणे प्रतिषिद्धसेवा । निशीथमर्धरात्रस्तद्वद्रहोभूतं यध्ययनं तन्निशीथं तस्मै निशीथाचाराङ्गपञ्चमचूडायै नमो नमः॥ नियुक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ ३५ ॥ नियुकिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतं विस्तारितं वाच्यजातं यत्र तं दशाध्य Page #98 -------------------------------------------------------------------------- ________________ सिद्धान्तागमस्तवः। यनानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचारस्वत्प्रतिपादको ग्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादको अन्थोऽपि व्यवहारः। ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे ॥ षट्सप्तपतिविंशतिषड्गुणसप्तप्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात्पश्वकल्पो नः ॥ ३६ ।। षट् सप्त पतिर्दश विंशतिः षड्गुणसप्त द्विचत्वारिंशत् एतत्प्रकारा ये कल्पास्तेषां विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफलप्रदः स्यात् ॥ लेभे यव्यवहारेणाधुनान्त्येनापि मुख्यता। तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ।। ३७ ॥ अन्त्येनापि यद्व्यवहारेण यदाचारेणाधुना मुख्यता लेमे । एतदाधारेणैव प्रायश्चित्तविधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः शासनरमाया आकल्पकल्पं वेषतुल्यं श्रये। व्यवहाराः पञ्च । आगमः श्रुतमाज्ञा धारणा जीतं चेति सन्ति । .............. । एवं जीतव्यवहारोऽन्त्यः॥ अञ्चामि पञ्चननवप्रमाणमाचाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ।। ३८ ॥ पञ्चन्ननवतिः पञ्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (१) साध्यम् । कुमतैरवाध्यम् । महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिप्रापकलात् । मोक्षमार्गभूतं महानिशीथमञ्चामि पूजयामि ॥ नियुक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका। सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ ३९ ॥ - नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुक्तानुक्तदुरुक्कार्थानां चिन्ताकारि । संग्रहणी सूत्रार्थस्य संग्राहिका । चूर्णिरवचूर्णिः । टिप्पनकं विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एषां सर्वेषामपि पूर्वोक्तग्रन्थानां नश्चेतसि सततं निवसन्तु ॥ परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥ ४०॥ परिकर्म सप्तमेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः कालानुयोगः । प्रथमे जिनचक्रिदशारचरितानि । कालानुयोगेऽर्थतो जिनैः शब्दतो गणधरश्च पूर्व रचितखात् पूर्वाणि चतुर्दशापि पूर्वगतम् । चूलिका उक्तशेषबाष्पा (१) एतेपश्च मेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामि । च पुनर. Page #99 -------------------------------------------------------------------------- ________________ काव्यमाला। न्यत्कालिकमगाढायोगसाध्यमुत्कालिकमनागाढायोगसाध्यं ध्यायामि । श्रुतं हि द्विधाअङ्गप्रविष्टमनङ्गप्रविष्टं च । ...... ॥ यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥ ११ ॥ यस्या अद्याप्येकोनषोडश पञ्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवती संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्डसिद्धप्राभृतवसुदेवहिण्डींश्च ॥ ४२ ॥ विशेषणवती संपत् । एतान्ग्रन्थानहं वन्दे ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । ... समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ ४३ ॥ कर्मखरूपप्रतिपादको प्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरिचरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दुप्रायाणि ॥ व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥ व्याकरणादिकं मिथ्याग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च। तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्कारोमि ॥४५॥ कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पञ्चनमस्कृतिं पञ्चनमस्कारं शासनप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां गुणगणकथां कण्ठे कुर्याजिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा ............. माहात्म्यादयस्तेषां गणः समूहस्तस्य कथां जल्पनमेतत्स्तवरूपां कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्खता फलानां 'कुत्रचिन्नगरे बहुपद्मपरि Page #100 -------------------------------------------------------------------------- ________________ आत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्ते तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोकं य एतदानयति तद्धर्ममहं प्रतिपद्य इति । यदा परतीर्थिकरुपक्रमेणाप्यादातुं न शक्तं मंत्रिणा जैनर्षिराकारितः। तेन च सचित्तजलास्पर्शिना (?) त्रिः प्रदक्षिणीकृत्य पालिस्थनैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययनं पेठे । ततस्तत्पुण्डरीकमुत्पत्य राज्ञोऽके पपात । तदनु सपरिकरो राजा जैनोऽजनि । इत्यादीनां प्रथा विस्तारो यस्यास्तां प्रसिद्धफलप्रथाम् । तस्मै श्रुतदेवता वरं वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृहयति । अत्र पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्तं जिनप्रमेति खनामाभिहितवान् ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विवृतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमस्तवः । आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हताः कुत्र यामः ॥ १॥ एकेनापि महाव्रतेन यतिनः खण्डेन भनेन वा । दुर्गत्यां पततो न सोऽपि भगवानीष्टे खयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियजानाति तत्केवली ॥२॥ कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुञ्चनं . __ स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्के वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं __ वेषाडम्बरिणः स्वजीवनकृते विद्मो गतिं नास्मनः ॥ ३ ॥ भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । १. पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्. २. एतदष्टकमस्मभ्यं बृहत्खरतरगच्छमण्डनायमानजङ्गमयुगप्रधानभट्टारकश्री १०६ श्रीपूज्यजिनमुक्तिसूरिभिः सांप्रतं जयपुरमलंकुर्वद्भिर्दत्तमस्ति. तत्र च पुस्तके कर्तुर्नाम नास्ति. Page #101 -------------------------------------------------------------------------- ________________ काव्यमाला । आत्मारामतया तथा क्षणमपि प्रोज्ड्य प्रमादद्विषं खार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ ४॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे __लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे । क्वापि कापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे ___ कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥५॥ किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् । वह्निज्वालेव शिक्षा व्रतमपि विषवत्खड्गधारा तपस्या खाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति ॥ ६॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थांषधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं यास्यामः कथमीहशेन तपसा तेषां हहा निष्क्रयम् ॥ ७ ॥ अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम्(?) ।. पाखण्डव्रतधारिणां बकदृशां मिथ्याशामीदृशां । बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः ॥ ८॥ येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना ___ मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे __ संविना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये ॥९॥ रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जम्भते द्वेषो मां भजति क्षण क्षणमथो मैत्री समालिङ्गति। दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते ....... कोपेयं कृपणो कृपापरिवृतैः(१) कार्य हहा कर्मभिः ॥ १॥ . इत्यात्मनिन्दाष्टकम् । - Page #102 -------------------------------------------------------------------------- ________________ श्रीमहावीरखामिस्तोत्रम् । श्रीजिनवल्लभमरिविरचितं ___समसंस्कृतप्राकृतं श्रीमहावीरस्वामिस्तोत्रम् । भावारिवारणनिवारणदारुणोरु कण्ठीरवं मलयमन्दरसारधीरम् । वीरं नमामि कलिकालकलङ्कपङ्क___ संभारसंहरणतुङ्गतरङ्गतोयम् ॥ १॥ बाढं विसारिगरिमा महिमा तवेह बुद्धो न देवगुरुणा न पुरंदरेण । तं कोऽवगन्तुमखिलं जडिमालयोऽह मिच्छामि किं तु तव देव गुणाणुमेव ॥ २ ॥ सन्तो गुणा गुणिगुरो तव हासहंस___ नीहारहारधवला बहुलीभवन्ति । ते सोमसूरहरिहीरविरञ्चिबुद्ध___ मायाविदेवनिवहेन मलीमसा वा ॥ ३ ॥ देवं भवन्तमवहाय दुरन्तमोह संच्छन्नबुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ ४ ॥ सासूयसंगमसुरोरुसमूढदम्भ संरम्भसंतमससंचयचण्डभासम् । हिंसासरोरुहतमीरमणं चिरोढा हंकारकन्दलदलीकरणासिदण्डम् ॥ ५॥ वन्देऽहमिन्दुदलमालममन्दभेद.. संदोहमन्दिरवरं दरकन्दकोलम् । ' १. स्तोत्रस्यास्यैकमेव पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. पुस्तकान्तरं टीका वा नोपलब्धेति क्वचित्क्वचित्संदेहो वर्तते । ९ का० स० गु० Page #103 -------------------------------------------------------------------------- ________________ काव्यमाला । गम्भीरसंभवजरामरणोरुनीर. संसारसागरतरीकरणिं च वीरम् ॥ ६ ॥ (युग्मम्) उद्दामकामभरभङ्गुरमङ्गभङ्ग___ संसङ्गबन्धुरमुरोरुहभारखिन्नम् । देहं सलीलपरिरिणम शिञ्जि मञ्जीरचारुचरणं सरसं वहन्ती ॥ ७ ॥ संगेयताललयचञ्चुरचारचारी___ संचारिणी करणबन्धकलासु सज्जा । उन्नालनीररुहकोमलबाहुवल्ली ___ भल्लीव विद्धबहुकामिकुरङ्गसंघा ॥ ८ ॥ हेलाविलोलमणिकुण्डललीढगल्ला __ ककेल्लिपल्लवकरा वरकम्बुकण्ठी । केलीललामरमणी रमणीयहावा नालं निहन्तुमिह ते विमलाभिसंधिम् ॥९॥ (विशेषकम्) संचारिकिंनरगणारवरेणुवीणा संरावभिन्नकलगेयरवाभिरामा । आकालभाविकुगुरूहकुधीकुदेव संबद्धबुद्धहरणी तव देव वाणी ॥ १० ॥ संदेहदावजलवाहमजीवजीव भावावभासतरणिं भवसिन्धुनावम् । आगामिकेवलरमातरुणीविवाहा देवागमं तव नरा विमला वहन्ति ॥ ११ ॥ देवा महापरिमलं तरलालिजाल झंकारहारि तव वीर सभासु भूरि । फुल्लारविन्दनवसुन्दरसिन्दुवार मन्दारकुन्दकबरं कुसुमं किरन्ति ॥ १२ ॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीमहावीरखामिस्तोत्रम् । निःसीमभीमभवसंभवरूढगूढ१. संमोहभूवलयदारणसारसीरम् । वीरं कुवासमलहारिसुवारिपूर___ मुत्तुङ्गमारकरिकेसरिणं नमामि ॥ १३ ॥ मिन्दन्तमन्तरणकारणमन्तरायं - संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं __ वीरं नमामि नवहेमसमिद्धकायम् ॥ १४ ॥ वन्दारुवासवसुरासुरभासुरालं '• कारामलच्छविपरागसमुद्भुराणि । सेवामि ते चरणवारिरुहाणि भूरि संदेहरेणुहरणोरुसमीर वीर ॥ १५ ॥ अञ्चामि ते चरणतामरसालिलीला संघायि पञ्चममहागणधारिवाणी (४) । संबन्धबुद्धिकरुणालयलिङ्गसिद्ध-: _ 'संधावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥ (१) उच्चण्डधारकरवालकरारिवार विच्छिन्नकुम्भगलनालकरालनागे । कुन्तासितोमरविभिन्नपरासुदेहे __ कङ्कालसंकुलभयावहभूमिभागे ॥ १७ ॥ सावेगहुंकरणडामरमुण्डरुण्ड कीलाललालसविहंगकुलावरुद्धे । आबद्धबाणविसरे सहसा नुवन्तो वीरं नरा रणभरेऽरिबलं यजन्ति ॥१८॥ (युगलकम् ) आसन्नसिद्धिकमलापरिरम्भलम्भ दम्भोलिपाणिमिव मोहगिरि किरन्तम् । Page #105 -------------------------------------------------------------------------- ________________ काव्यमाला । संपत्तिकारणममङ्गलमूलकीलं सेवन्ति के न भगवन्तमपं हरन्तम् ॥ १९ ॥ आयासभङ्गडमरामयसंपराय चोरारिमारिविरहेण चिराय देव ।। भूमण्डले सुनगरानिगमा (?) विहार चारेण ते परममुद्धवमामनन्ति ॥ २० ॥ निःसङ्ग निःसमर निःसम निःसहाय निराग नीरमण नीरस नीररंस । हे वीर धीरिमनिवासनिरुद्धघोर संसारचार जय जीवसमूहबन्धो ॥ २१ ॥ उल्लासितारतरलामलहारिहारा नारीगणा बहुविलासरसालसा मे । संसारसंसरणसंभवमीनिमित्तं चित्तं हरन्ति भण किं करवाणि देव ॥ २२ ॥ इच्छामहासलिलकामगुणालवालं चिन्तादलं समलचित्तमहीसमुत्थम् । संभोगफुल्लमिव मोहतलं लसन्तं हे वीरसिन्धुर समुद्धर मे समूलम् ॥ २३ ॥ संपन्नसिद्धिपुरसंगममङ्गलाय मायोरुवारिरुहिणीवरकुञ्जराय । वीराय ते चरमकेवलपुंगवाय कामं नमोऽसमदयादमसत्तमाय ॥ २४ ॥ हे देव किंकरमिमं परिभावयेह .. मज्जन्तमुद्धरजवे भवसिन्धुपूरे।। उत्तारणाय कुरु वीर करावलम्बं भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ॥ Page #106 -------------------------------------------------------------------------- ________________ श्रीमहावीरखामिस्तोत्रम् । १०१ कुसमयरुतमालाभङ्गसंहारवायो कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्थं विमलमपरिहीणं हे महावीर पाहि ॥ २६ ॥ अनयनिबिडे पीडागाढे भयावहदुःसहे विरहविरसे लज्जापुञ्ज रमे भवपञ्जरे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी सरलसरणिं सेवे मूढो गिरं तव वीर हे ।। २७ ।। निरीहं गन्तारं परमभुवि मन्तारमखिलं , निहन्तारं होलाकलिकलहकेलीसारमा भवन्तं नन्तारो नहि खलु निमज्जन्ति भवभी___ महापारावारे मरणभयकल्लोलकलिले ॥ २८ ।। एवं सेवापरिहरिया ) लोलचूलामणीद्ध___ च्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलाभाजि न वल्लभप्रणयिनीवृन्दानि कि त्वर्थये नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो मयि ॥ ३० ॥ इति श्रीजिनवल्लभसूरिप्रणीतं समसंस्कृतप्राकृतं श्रीमहावीरखामिस्तोत्रम् । - १. जिनवल्लमेति ग्रन्थकर्तुर्नामापि. Page #107 -------------------------------------------------------------------------- ________________ १०२ काव्यमाला। श्रीहेमचन्द्राचार्यविरचितं . अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ॥ १॥ अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विग्धः ॥ २ ॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥ ३ ॥ खतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः खलन्ति ॥ ४ ॥ आदीपमाव्योम समस्खभावं स्याद्वादमुद्रानतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ ५॥ कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ ६ ॥ न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥ ७ ॥ सतामपि स्यात्कचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८ ॥ यत्रैवं यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाहहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९॥ खयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात्परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः ॥ १० ॥ १. अस्या अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया एकं कर्तृनामरहितटीकासमेतं नातिशुद्धं पुस्तकमप्रिमायाश्चायोगव्यवच्छेदिकाद्वात्रिंशिकाया मूलमात्रमेकमस्मभ्यं श्रीशान्तिविजयमुनिवरैरर्पितम्. Page #108 -------------------------------------------------------------------------- ________________ श्रीमहावीरखामिस्तोत्रम् | न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । खपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥ ११ ॥ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥ माया सती चे तत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्किं माता च वन्ध्या च भवत्परेषाम् ॥ १३ ॥ अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः ॥ १४ ॥ चिदर्थशून्या च जडा च बुद्धिः शब्दादि तन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियज्जडैर्न ग्रथितं विरोधि ॥ १५ ॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्विलनशीर्णं सुगतेन्द्रजालम् ॥ १६ ॥ विना प्रमाणं परवन्न शून्यः खपक्षसिद्धेः पदमनुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूपिदृष्टम् ॥ १७ ॥ कृतप्रणाशा कृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते ॥ १८ ॥ सा वासना सा क्षणसंततिश्च नाभेदभेदानुभयैर्घटेते । ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥ विनानुमानेन पराभिसंधिमसंविदानस्य तु नास्तिकस्य । न सांप्रतं वक्तुमपि क्व चेष्टा क दृष्टमात्रं च हहा प्रमादः ॥ २० ॥ प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः । जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ २१ ॥ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि कुवादिकुरङ्गसंत्रासनसिंहनादाः ॥ २२ ॥ अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेश भेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥ उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सद्वाच्यते च । १०३ Page #109 -------------------------------------------------------------------------- ________________ १०४ काव्यमाला। इत्यप्रबुध्यैव विरोधमीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ॥ २५ ॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं स्मरशासनं ते ॥ २६ ॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम् ॥ २७ ॥ सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्यः ॥ २८ ॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षटूजीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः ॥ २९॥ अन्योन्यपक्षप्रतिपक्षमावाद्यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते ॥ ३० ॥ वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य । लकेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥ इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे ___ जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२॥ इति श्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । श्रीहेमचन्द्राचार्यविरचितं अयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरखामिस्तोत्रम् । अगम्यमध्यात्मविदामवाच्यं वचखिनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ १. हेमचन्द्र इति ग्रन्थकर्तुर्नामापि. Page #110 -------------------------------------------------------------------------- ________________ श्रीमहावीरखामिस्तोत्रम् । १०५ स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः। इदं विनिश्चित्य तव स्तवं वदन्न बालिशोऽप्येष जनोऽपराध्यति ॥२॥ क सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क चैषा । तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुन शोच्यः ॥ ३ ॥ जिनेन्द्र यानेव विबाधसे म दुरन्तदोषान्विविधैरुपायैः । त एव चित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः ॥ ४ ॥ यथास्थितं वस्तु दिशन्नधीश न तादृशं कौशलमाश्रितोऽसि । तुरंगशृङ्गाण्युपपादयञ्यो नमः परेभ्यो नवपण्डितेभ्यः ॥ ५॥ जगत्यनुध्यानबलेन शश्वत्कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः ॥ ६ ॥ खयं कुमार्ग लपतां नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययान्धा अवमन्वते च ॥ ७॥ प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य ॥ ८ ॥ शरण्य पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा । खादौ स तथ्ये खहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥ ९॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच ब्रूमस्त्वदन्यागममप्रमाणम् ॥ १० ॥ हितोपदेशात्सकलज्ञकृप्तेर्मुर्मुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेऽप्यविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥ क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाङ्गिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथंकारमपाकरिष्यते ॥ १२ ॥ तदुःखमाकालखलायितं वा पचेलिमं कर्म तवानुकूलम् । उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३ ॥ परःसहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१४॥ Page #111 -------------------------------------------------------------------------- ________________ काव्यमाला। अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभविविप्रलम्भाः । परोपदेशाः परमाप्तक्लुप्तपथोपदेशे किमु संरभन्ते ॥ १५ ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ १६ ॥ देहाद्ययोगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपक्लुप्तेष्वधिदैवतेषु ॥ १७ ॥ प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश समाधिमास्थाय युगाश्रितोऽसि (2) ॥१८॥ जगन्ति भिन्दन्तु सृजन्तु वा पुनर्यथातथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवान्भवक्षयक्षमोपदेशे तु परं तपखिनः ॥ १९॥ वपुश्च पर्यङ्कशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम् ॥ २० ॥ यदीयसम्यक्त्वबलात्प्रतीमो भवाशानां परमखभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ २१ ॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥ २२ ॥ अनाद्यविद्योपनिषन्निषण्णैर्विशृङ्खलैश्चापलमाचरद्भिः ।। अगूढलक्ष्योऽपि पराक्रिये यत्त्वत्किरः किं करवाणि देव ॥ २३ ॥ विमुक्तवैरव्यसनानुबन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ तां देशनाभूमिमुपाश्रयेऽहम् ॥ २४ ॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ २५ ॥ खकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग न रागमात्रेण मनोऽनुरक्तम् ॥ २६ ॥ सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ॥२७॥ Y Page #112 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तवः । इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदासत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ २९ ॥ तमः स्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुदृशा (१) वदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया मयं तत्त्वलोकस्तुतिमयमुपाधिं विधृतवान् ॥ ३२ ॥ इति श्री हेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्री महावीरस्वामिस्तोत्रम् | श्री जिनप्रभसूरिविरचितः श्री पार्श्वनाथस्तवः । का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ न स्याद्यस्यामधीशः सुरपति सचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीमि ॥ १ ॥ संसाराम्भोधिवेला निबिडजडमतिध्वान्तविध्वंस हंसः श्यामाश्यामाङ्गधामा (?) शठकमठतपोधर्मनिर्माथपाथः । स्फारस्फूर्जत्फणीन्द्रः प्रगुणफणमणिज्योतिरुद्दयोतिताशाचक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥ २ ॥ १. पार्श्वनाथस्तवादिस्तोत्रषङ्कं जिनप्रभसूरिप्रणीतमस्मभ्यं सूरतनगरवासिनां केवलदासात्मजेन भगवान् दासश्रेष्ठिना प्रहितम् पुस्तकान्तरं चास्य नोपलब्धमिति . १०७ Page #113 -------------------------------------------------------------------------- ________________ १०८ काव्यमाला। कमानम्राङ्गिचेतःशिखिकुलविलसत्ताण्डवाडम्बरश्री हेतुः प्रेङ्खन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः । प्रीतिं फुल्लत्फणामाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौ यास्त्वं देशनावास्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ भिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं ___ जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्तो भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायंपायं भरेण प्रणतभवभृतां नेत्रपुष्पंधयाल्यः । नूनं हर्षप्रकर्षोद्गतनयनपयःपूरदम्भेन दूरं मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्रिन्ति ॥ ५ ॥ निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य__ कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयःश्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या__ दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो __ गात्रश्रीमैव्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप निष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वारसेवा हेवाकीसर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता ___ भुक्तिं भुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८॥ चन्द्रः प्रेत्युदकाशयं प्रतिफलत्येको न चार्थक्रिया कारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् । १. सरखयाः. २. प्रतिजलाशयम्. Page #114 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तवः। एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा . सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ ९॥ यौष्माकीणगुणस्तुति विकिरती शुण्डामिवान्तर्गत प्रीतिं स्फीतिमतीमतीव सुरभिं दानाम्बुना बिभ्रती । त्रैलोक्यैकसुरद्रुम द्रुमवनानीवोन्मदा वासिता युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ १० ॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं सोऽयं ज्ञानपथस्तथापि किमपि खार्थेकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेऽपि मनसि स्वामिन्बधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ ११ ॥ विश्वेश प्रसभं त्वदीययशसा व्यालुप्यमाने प्रभा सर्वखे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्रीं लाञ्छनकैतवात्प्रतिनिशं कुक्षिप्रदेशे क्षिप कोपाटोपवशादसावुदयते बिभ्रद्वपुलॊहितम् ॥ १२ ॥ वक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं __व्याकोशस्य कुशेशयस्य सुषमासर्वखमप्यग्रहीः । यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ स्तेनाकारि समानशीलविपदां सख्यप्रवादो मृषा ॥ १३ ॥ पुष्टाङ्गं व्यवहारनिश्चयनयप्रोत्तुङ्गशृङ्गं शुभं दानाद्यनिचतुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युल्लस त्पीनोच्चैःककुदं कुतीर्थतृणभुक्सूते वृषं गौस्तव ॥ १४ ॥ आकण्ठं कमठाम्बुदोज्झितपयःपूरे निमनाङ्गक स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः । नागस्त्रैणविलोचनालिपटली संख्याय धुर्येव तां (2) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ १५॥ १. करिणी. १० का० स० गु० Page #115 -------------------------------------------------------------------------- ________________ ११० काव्यमाला | वन्दारोः प्रियकोपितप्रणयिनीहक्कोणशोण त्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनख श्रेणीमयूखास्तव । त्वद्वृत्तस्तुतिदूतिका भिमुखितां पाणौ चिकीर्षोः शिवश्रीरामां नवपद्मरागमहितं बध्नन्तु मौलौ मम ॥ १६॥ एवं नृदेवमहितः सहितः प्रभावभूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौधमुत्तंसयत्त्ववृजिनप्रभसूरिवर्ण्यः ॥ १७ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः । श्रीजिनप्रभसूरिविरचितं गौतमस्तोत्रम् | श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया तत्रोत्पन्नम सन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिःसंश्रयगौतमान्वयविपत्प्रद्योतनद्योमणि तापोत्तीर्णसुवर्णवर्णवपुषं भक्त्येन्द्रभूतिं स्तुवे ॥ १ ॥ के नाम नाभङ्गुरभाग्य दृष्ट्यै सुराणां स्पृहयन्ति सन्तः । निमेषविघ्नोज्झितमाननेन्दुज्योत्स्नां मनोहत्य तवापिबद्या ॥ २ ॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः । इत्थं न चेत्तर्हि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाहदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४ ॥ सौभाग्यभङ्गापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गः समकालमेव ॥ ५ ॥ त्वत्पादपीठे विलुठन्त्यमर्त्यास्त्वद्नेहभृत्याः किल कल्पवृक्षाः । तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ॥ ६ ॥ Page #116 -------------------------------------------------------------------------- ________________ गोतमस्तोत्रम् | पदोर्नखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा । वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टबिम्बोऽपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिषदामदास्त्रम् (१) । लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरिताद्भुतानाम् ॥ ८ ॥ भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः । स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति ॥ ९ ॥ न रागवानो भजसेऽतिचारं नालम्बसे वक्रगतिं कदाचित् । पुरस्कृतेनोऽपि घना नासि तथापि पृथ्वीतनयोऽसि रूढः ॥ १० ॥ प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन ॥ ११ ॥ स्वद्वाणिमाधुर्यचिता पलाय्य सितोपला काचघटीं विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वक्रे ॥ १२ ॥ श्रीवीरसेवारसलालसत्वात्तद्वाधिनीं केवलबोधलक्ष्मीम् । : अप्ययगतामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः (१) ॥ १३ ॥ अपोढपके कविभिर्निषेव्ये निरस्ततापे बहुभङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति ॥ १४ ॥ राकामये दिग्वलये समन्ताद्यशः शशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार ॥ १५ ॥ जगत्रयोद्भासि यशस्तवैतत्क्व स्पर्धतां सार्धमनेन चन्द्रः । यस्यापरार्धेऽपि तृणस्य (?) नैव प्रभाप्रभावो लभतेऽवकाशम् ॥ १६ ॥ छत्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नानि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः ॥ १७ ॥ वसुभूतिसुतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः ॥ १८ ॥ नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः । १११ Page #117 -------------------------------------------------------------------------- ________________ काव्यमाला। श्रीदोऽपि सूत्रितयमालयवासकेलि __ स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ १९ ॥ यत्तपत्यपि कलौ जिनप्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ २०॥ मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो । गुरुयोतं क्लीवदिनपतिसुधागौ तमसि मे प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥ २१ ॥ इति श्रीजिनप्रभाचार्यविरचितं गोतमस्तोत्रम् । श्रीजिनप्रभाचार्यविरचितः श्रीवीरस्तवः। कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैरधीरधीस्तोष्येऽहं चरमं जिनेश्वरम् ॥ १॥ त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः । तस्येन्द्रवज्रायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ २ ॥ किमेकमाश्चर्यकरं न ते यत्पुष्पधंयोऽप्येष विशेषविज्ञः । त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ ३ ॥ यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम् । प्रेत्य तस्य दिवि देवमृगाक्ष्यः स्वागतानि निगदन्ति सरागम् ॥ ४ ॥ वाजिवारणरथोद्धता भटैरुद्भटा सुभगभोगभङ्गिभृत् । राज्यऋद्धिरुपनंनमीति तं नमीति तव यः पदौ मुदा ॥ ५॥ नाकिनिकायकरप्रहतानां संप्रसरन्गगने मुरजानाम् । जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥ ६ ॥ ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो । तैः श्रेयश्रीर्मधुरमधुरसाखादासादात्समजनि कृतिभिः ॥ ७ ॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीवीरस्तवः । तत्त्वातत्त्वारोपलोपप्रवीणां प्रहप्राणित्राणसंस्थाधुरीणाम् । आज्ञां धत्चे मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥८॥ वसुधाम सुधामय वक्र विधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणीविभृते परितोऽटककीर्तिभरः ॥ ९ ॥ स्रग्विणी कुण्डलभ्राजिगण्डस्थला तारहारधुतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ १० ॥ क्षणादेव तेषां शिवश्रीभुजंगप्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञायवर्तिष्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुलुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोजवले गणभृतां हृदये प्रमिताक्षरापि बत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगदय॑धियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विजाद्विजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (१) ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलनेकुठारिकाणाम् । माहात्म्यं भुवनमनःप्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥१५॥ सिद्धार्थराजकुलनन्दनपारिजात ___ न भ्राम्यति क तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग सिंहोद्धता स्थिरतया सुमनोजनाग ॥ १६ ॥ अतिमहति भवोर्मामालिनीह भ्रमन्तो जननमरणवीच्याघातदोधूयमानाः । कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितस्मरपुरंध्रिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा । १. वसन्ततिलकेति नामान्तरम्. Page #119 -------------------------------------------------------------------------- ________________ ११४ काव्यमाला | कनकमणिमयाभरणरश्मिरजिताङ्गी व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमयन्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलभामण्डलयुतो भवानाभाति स्मोदयशिखरिणीव द्युतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः । तव जिन मनः शेके कर्तुं मनागपि न खसाचलयितुमलं किं हेमाद्रिं युगान्तमहाबलाः ॥ २० ॥ दारिद्र्यापत्परिभवजनुर्विस्रसामृत्यु दुःखै रार्ताः के के न तव बलवद्देव सेवां प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्तौ मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ॥ शरदुदितनिशाकरां शुप्रै भाजैत्रकी र्तिच्छटा धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीश चूडामणिज्योतिषा मरुणितपदपीठमूर्मीभिरेध्यच्छिवास्त्वां प्रभो ।। २२ ।। विभ्राणो नखविक्रियां भयकरीं धूतोल्लसद्वालधी रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपाहतः । त्वद्भक्त्या भृतकोऽप्यवाप्य नृपतां मांसादरं वर्धयन्धतेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् ॥ २३ ॥ विद्यामन्त्रैर्न कार्यं सुरतरुभिरलं वित्तेन च मृतं पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना । १. आसनशब्दस्यासन्नादेश इति काशिका. २. वाताः. ३. महामालिकेति नामान्तरम्. Page #120 -------------------------------------------------------------------------- ________________ चतुर्विशतिजिनस्तवः । स्फूर्जत्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै- मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः । सूक्तिर्जेनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम् ॥ १५ ॥ इति श्रीजिनप्रभसूरिविरचितो वीरस्तवः । श्रीजिनप्रभसूरिविरचितः चतुर्विशतिजिनस्तवः । कनककान्तिधनुःशतपञ्चकोच्छूितवृषाङ्कितदेहमुपास्महे । रतिपतेर्जयिनं प्रथमं जिनं नृवृषभं वृषभं वृषभञ्जिनः ॥ १॥ द्विरदलाञ्छित वाञ्छितदायक कमलुठत्रिदशासुरनायक । स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितरागते ॥ २ ॥ तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् । हृदि दधे भणितीर्गुणभूरुहां शमहिता महितामहि तावकीः ।। ३ ॥ भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे । व्रतभृतां कुगतेः स्मरनिग्रहप्रसभया सभया सभयात्मना ॥ ४ ॥ त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ । तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद ॥ ५॥ धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः । रभसतः प्रथितार्थि......तोपरमया रमयारमयान्वितः ॥ ६॥ प्रभुसुपार्थ जगत्रितयाज्जनुःपवितकाशिपुरीक विलक्षण । सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतोदनम् ॥ ७ ॥ कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो । निखिलजीवनिकायहितोक्तिभिः शुभवदाभवदाभवदागमाः ॥ ८॥ Page #121 -------------------------------------------------------------------------- ________________ ११६ काव्यमाला । युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्धजमस्य यः । स्तु तजनाः सुविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतम् ॥ ९ ॥ दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती । मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ १० ॥ जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजदृग्दशमोत्तरः । कनकदीप्तिरमर्पित हीरकस्तव रदो वरदो वर दोर्युगः ॥ ११ ॥ शुभमयी वसुपूज्यसुतप्रभो भुवननेत्रमहो महिषाङ्किता । तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता ॥ १२ ॥ सकलसत्त्व सरोजविकासने रविरुचिर्विमल त्रिजगत्पते । अपि शमं नयते तव गीर्जितामृतरसा तरसा तरसा तृषम् ॥ १३ ॥ निजयशोभर निहु तजाह्नवीजलवलक्षित कीर्तिरनन्तजित् । दिशतु वः कुमतासुरनिग्रहे भृशमनः शमनः शमनश्वरम् ॥ १४ ॥ भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती । किमु करोति न पित्तरजः शमं वरसिता रसिता रसिताजुषा ॥ १५ ॥ जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः । रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ १६ ॥ अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् । त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्घनरसा नरसा न रसा न किम् ॥ १७ ॥ जगदीश सुदर्शनभूमिपान्वयपयः सरिदीशशिखामणे | प्रणिदधेऽन्तिषदो विषदव्रता वनरता न रता नर तावकान् ॥ १८ ॥ हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम् । निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ १९ ॥ त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंश विभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥ २० ॥ विरतिवर्मतटावतिकुण्ठितस्मरशरः शरणीक्रियतां त्वया । गुणगणस्य नमिर्बु बर्हण व्रजनभाजनभाजनभावभाक् ॥ २१ ॥ Page #122 -------------------------------------------------------------------------- ________________ पार्श्वस्तवः । अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियच्चिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा स्म विरज्यतामुदयिता दयितादयि तावकात् ॥२४॥ च्युतजनुव्रतकेवलनिर्वृतिक्षणदिनाददतां मुदमार्हता । व्यरचि यैरुपयत्रिदशैदृशां नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्तिभित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८ ॥ करकृताम्रफला पृणती जिनप्रभवतीर्थमिभारिमधिष्ठिता । हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥ इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तकः । श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः। अधियदुपनमन्तो यात्रिका प्रीतिपात्रा अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्घिस्ता(स्था)नक्लुप्तावतार स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १ ॥ जिनविभुरविभाव्यं वैभवं भूरि बिभ्र द्भवतु भुजगभोगाभोगविभ्राजिमौलिः । Page #123 -------------------------------------------------------------------------- ________________ काव्यमाला। शुभसुभगिमभङ्गीभाजनं भक्तिभाजा__ मभिमतफलकल्पानोकहः शोकहर्ता ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वखचौरै र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां महिम तलिनयन्त(?)स्त्वत्प्रभावस्य लेशाः । प्रसृमरकलिकालक्षोणिपालप्रताप प्रतिहतिकृतहस्ताः खस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं तुहिनति दहनोऽहिः पद्मिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो भवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ ५ ॥ नतशतमखचूडारत्नरोचिष्णुरोचिः कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैर्न कैः कै रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकृल्लोचनानां ___ कलितकलिवितण्डं मण्डपाखण्डितश्रि । तुलितसुरविमानं मानवानाममानां दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः __क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां दधति खलु सदा यद्नेहदासत्वमेते ॥ ८ ॥ Page #124 -------------------------------------------------------------------------- ________________ ११९ श्रीवीरनिर्वाणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं प्रतिफलितमसक्तं खे ललाटे विचिन्त्य । मरकतदलनीलध्यानसिद्धिं व्यपोढ श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ ९ ॥ सकलकुशलसंपद्वीरुषां वारिवाहः __प्रचितदुरितकक्षप्रक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयौश्चिराय त्वमचिरहितपार्श्वः पार्वतीर्थेश नन्द्याः ॥ १० ॥ सफलय फलवर्धिचैत्यलक्ष्मीवतंस त्रिजगदभयदातर्मत नः कासितानि । स्तवनमवनमेतच्चेतसस्तावकीनं विलसतु रसनाने चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दर्तुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे राधस्याधिशिती त्रयोदशिबुधे संघेन साधं सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्थ जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः । जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः। श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे___ भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः । कुर्वे किंचन काञ्चनोज्वलरुचेर्निर्वाणकल्याणक __ स्तोत्रं गोत्रमिदर्चनीयचरणाम्मोजस्य वीरप्रभोः ॥ १ ॥ प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदैवतर्भगे। तामुपायत रसेन (?) कार्तिकामावसी निशि शिवश्रियं भवान् ॥२॥ Page #125 -------------------------------------------------------------------------- ________________ काव्यमाला। हस्तिपालकनृपालपालिता पूर्ण पूरयतु मन्मनःशुचा । यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः ॥ ३ ॥ ऊर्जदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णजाः प्रजाः । त्वन्महोदयमहीतयाधुनाप्युत्सवं विदधतेऽनुवत्सरम् ।। ४ ॥ यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ । तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः ॥ ५॥ पुण्यपापफलपाकवर्णनामध्यमध्ययनपति युक्छतम् । व्याकृथाः स्फुटमपृष्ट षट्कृतिव्याकृतीश्च परिषत्पुरस्तदा ॥ ६ ॥ जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा । नुनमैष्यत न देव केवलज्ञानसंपदनुरागभागपि ॥ ७॥ यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयान्यतः । रोगिणः कटुकजायुपानवज्यायसेऽस्य चक्लुपे गुणाय तत् ॥ ८ ॥ त्वद्दिदृक्ष्ववतरत्सुरावलीयानदेहमणिभूषणांशुभिः । सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्धवम् ॥ ९ ॥ निर्वृते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम् । रोदयन्त इव रोदसी प्रतिश्रुद्भरेण रुरुदुः पुरंदराः ॥ १० ॥ वहिवायुजलदेश्वरैः सुरैस्तैलेपर्णिककृताङ्गसंस्कृतेः। भूतिमात्रमपि भूतिधाम ते येऽस्पृशन्बत न तारजोऽस्पृशत् ॥ ११ ॥ भक्तितो महितुमीश वासवास्तावकीनहनुसंग्रहं व्यधुः । नूनमक्षविजयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः ॥ १२ ॥ कुग्रहा न तव जातु शासनं वीर बाधितुमलंभविष्णवः । एककः स खलु भस्मकग्रहो बाधते भवदुपेक्षितस्तदा ॥ १३ ॥ 'जग्मुषि त्वयि शिवं नराधिपास्तं क्षणं गृहिणीनबोधयन् (१) । ये बभुः कुनयकाननप्लुषस्त्वत्प्रतापशिखिनः कणा इव ॥ १४ ॥ यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैर्जिनैरिव । दुःषमासमयभावलिङ्गिनां व्याजि तेन गुरुनिर्व्यपेक्षता ॥ १५ ॥ १. जायुरौषधम्. २. तैलपर्णिकं चन्दनविशेषः. Page #126 -------------------------------------------------------------------------- ________________ प्रश्नोत्तररत्नमाला । प्रस्थिते त्वयि शिवाय तत्क्षणं संमुमूर्छरधिपृथ्वि कुन्थवः । क्षुद्रजीवबहुलामतः परं सूचयन्त इव भाविनी महीम् ॥ १६ ॥ यत्र यत्र चरणौ त्वयार्पितौ तत्तदास्पदमगादपापताम् । एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः ॥ १७ ॥ यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत् । प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः ॥ १८ ॥ यः पठत्यशठधीस्तव वीर स्तोत्रमेतदवधानसमेतः । . तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रबलापि ॥ १९ ॥ इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीविमलप्रणीता प्रश्नोत्तररत्नमाला। प्रणिपत्य वर्धमानं प्रश्नोत्तरत्नमालिकां वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् ॥ १ ॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया ॥ २ ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् ॥ ३ ॥ त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः । किं मोक्षतरोबर्बीजं सम्यग्ज्ञानं क्रियासहितम् ॥ ४ ॥ किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरिता गुरवः ॥ ५ ॥ किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टंतत्त्वं स्वपरहितायोद्यतं जन्म ॥ ६ ॥ १. प्रश्नोत्तररत्नमालायाः पुस्तकद्वयमस्माभिरासादितम्. तत्र प्रथममेकपत्रात्मक शुद्धं संवेगिसाधुश्रीशान्तिविजयमुनिभिर्दत्तं क-संज्ञकम्. द्वितीयं पत्रद्वयात्मकं शुद्ध भगवान्दासश्रेष्ठिना केवलदासात्मजेन सुरतनगरात्प्रहितं ख-संज्ञकं ज्ञेयम्. २. 'जिनवरेन्द्र' क. ३. 'पद्धति' ख. ४. 'सत्वं' क. ११ का० स० गु० Page #127 -------------------------------------------------------------------------- ________________ १२२ काव्यमाला | मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववल्ली तृष्णा को वैरी नन्वनुद्योगः ॥ ७ ॥ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रांगी । कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ ८ ॥ पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दारिद्र्यमसंतोष एव किं लाघवं याच्ञा ॥ १० ॥ किं जीवितमनवद्यं किं जाड्यं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ॥ ११ ॥ नलिनीदलगतजललवतरलं किं यौवनं धनमथायुः । के शशधरकर निकरानुकारिणः सज्जना एव ॥ १२ ॥ को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ॥ १३ ॥ किं दानमनाकाङ्कं किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ १४ ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री | सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ १५ ॥ कोsन्धो यो कार्यरतः को बधिरो यः शृगोति न हितानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ १६ ॥ किं मरणं मूर्खत्वं किं चानर्थं यदवसरे दत्तम् । आ मरणाकि शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ १७ ॥ कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । अवधीरणा व कार्या खलपरयोषित्परधनेषु ॥ १८ ॥ काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा । का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ १९ ॥ 1 Page #128 -------------------------------------------------------------------------- ________________ प्रश्नोत्तररत्नमाला | कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ २० ॥ कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ २१ ॥ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिष्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ २४ ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्य मौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत् सहिष्णुत्वम् ॥ २५ ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २६॥ दानं प्रियवाक्संहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ २७ ॥ इति कण्ठगता विगला प्रश्नोत्तररत्नमालिका येषाम् ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु ॥ २८ ॥ रचिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं कण्ठगता कं न भूषयति ॥ २९ ॥ इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला । १. 'संसारावासतः' क. २. 'दृष्टादृष्टार्थलाभाय ख. ३. हितोपदेशेऽपीर्यमार्या समुद्धृतास्ति. ४. ख- पुस्तकेऽस्या आर्यायाः स्थाने 'विवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका । रचितामोघवर्षेण सुधियां सदलंकृतिः ॥ एतत्पद्यं वर्तते. I १२३ Page #129 -------------------------------------------------------------------------- ________________ १२४ काव्यमाला । महाकविश्रीधनपालप्रणीता ऋषभपश्चाषिका। जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूडामणि नमो ते ॥ १॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य । सकलमुनिग्रामग्रामणी स्त्रिलोकचूडामणे नमस्ते ॥] जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम् ॥ मोहतिमिरोहदिणयर नयर गुणगणाण उपराणम् ॥ २ ॥ [जय रोषज्वलनजलधर कुलगृह वरदानदर्शनश्रियोः । मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥] दिवो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण चिण दिणयरुव तुमम् ॥ ३ ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने । मोहान्धकारचारलगतेन जिन दिनकर इव त्वम् ॥] भविअकमलाण जिणरवि तुह दंसणपहरिसूससन्ताणम् । दडबद्धा इव विहडन्ति मोहतमभमरचन्दाइं॥४॥ [भव्यकमलानां जिनरवे त्वद्दर्शनप्रहर्षोच्छुसताम् । दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥] लहत्तणाभिमाणो सबो सबहसुरविमाणस्स । एइँ नाह नाहिकुलगरघरावठारम्मुहे नहो ॥ ५ ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य । त्वयि नाथ नाभिकुल' 'गृहावतारोन्मुखे नष्टः ॥] एइँ चिन्तादुल्लहमुक्खसुक्खफलए अउबकप्पदुमे । अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्या ऋषभपञ्चाशिकायाः सटीकं पुस्तकद्वयमस्माभिरधिगतम्. तत्र प्रथमं जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवानदासश्रेष्ठिना सुरतनगरात्प्रहितं नवीनं नातिशुद्धं च. २. कारागारगतेन. Page #130 -------------------------------------------------------------------------- ________________ ऋषभपञ्चाशिका । १२५ [त्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे ।। अवतीर्णे कल्पतरवो जगद्गुरो ह्रीस्था इव प्रोषिताः ॥] अरएणं तहएणं इमाइ ओसप्पिणीइ तुइ जम्मे । फुरिअं कणगमएणं व कालचक्किक्कपासम्मि ॥ ७ ॥ [अरकेण तृतीयेणास्सामवसर्पिण्यां तव जन्मनि । . स्फुरितं कनकमयेनेव कालचक्रैकपार्थे ॥] जम्मि तुम अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो। ते अट्ठावयसेला सीमामेला गिरिकुलस्स ॥ ८ ॥ [यत्र त्वमभिषिक्तो यत्र च शिवसुखसंपदं प्राप्तः। तावष्टापदशैलौ शीर्षापीडौ गिरिकुलस्य ॥] धन्ना सविह्मयं जेहिँ झत्ति कयरज्जमज्जणो हरिणा । चिरधरिअनलिणपत्ताभिसेअसलिलेहिं दिट्ठोसि ॥९॥ धन्याः सविस्मयं यैसगिति कृतराज्यमजनो हरिणा । चिरधृतनलिनीपत्राभिषेकसलिलैदृष्टोऽसि ॥] दाविअविज्जासिप्पो बजरिआसेसलोअववहारो । जाओसि जाण सामिअ पयाउ ताओ कयत्थाओ ॥ १० ॥ [दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः । जातोऽसि यासां खामी प्रजास्ताः कृतार्थाः ॥] बन्धुविहत्तवसुमई वच्छरमच्छिन्नदिन्नधणनिवहो । जह तं तह को अन्नो निअमधुरं धीर पडिवन्नो ॥ ११ ॥ [बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः । यथा त्वं तथा कोऽन्यो नियमधुरां धीर प्रतिपन्नः ॥] सोहसि पसाहिअंसो कजलकसिणाहिँ जयगुरु जडाहिं । उवगूढविसजिअरायलच्छिबाहच्छडाहिं वा ॥ १२ ॥ [शोभसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटामिः । उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटाभिरिव ॥] Page #131 -------------------------------------------------------------------------- ________________ १२६ काव्यमाला.। उवसामिआ अणज्जा देसेसु तुए पवन्नमोणेण । अभणन्तच्चिअ कजं परस्स साहन्ति सप्पुरिसा ॥ १३ ॥ [उपशमिता अनार्या देशेषु त्वया प्रपन्नमानेन । अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः ॥] मुणिणो वि तुहल्लीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कइयावि ॥ १४ ॥ [मुनेरपि तवालीनौ नमिविनमी खेचराधिपौ जातौ । गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥] भदं से सेअंसस्स जेण तवसोसिओ निराहारो। वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १५ ॥ भद्रं तस्य श्रेयसो येन तपःशोषितो निराहारः । वर्षान्ते निर्वापितो मेघेनेव वनद्रुमस्त्वमसि ॥] उप्पन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥ [उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः ॥] पूआवसरे सरिसी दिट्ठो चकस्स तं पि भरहेण ।। विसमा हु विसयतिला गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥ [पूजावसरे सदृशः सदृष्टश्चक्रस्य त्वमपि भरतेन । विषमा खलु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥] पढमसमोसरणमुहे तुह केवलसुरवहूकउज्जोआ । जाया अग्गेइ दिसा सेवासयमागयसिहि व्व ॥ १८ ॥ [प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोड्योता । जाता आग्नेयी दिशा सेवास्वयमागतशिखीव ॥] गहिअवयभङ्गमलिणो नूणं दूरोणएहिँ मुहराओ । तइओ पढमुल्लअतावसेहिँ तुह दंसणे पढमे ॥ १९ ॥ Page #132 -------------------------------------------------------------------------- ________________ ऋषभपश्चाशिका। १२७ गृहीतव्रतभङ्गमलिनो नूनं दूरावनतैर्मुखरागः । स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥] तेहि परिवेढिएण य वूढा तुमए खणं कुलवइस्स । सोहा विअडंसत्थलघोलन्तजडाकलावेण ॥ २० ॥ तैः परिवेष्टितेन च व्यूढा त्वया क्षणं कुलपतेः । शोभा विकटांसस्थलप्रेङ्खजटाकलापेन ॥] तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था । समणावि गयमणच्चिअ ते केवलिणो जइ न हुन्ति ॥ २१ ॥ तव रूपं पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्णाः । समनस्का अपि गतमनस्का इव ते केवलिनो यदि न भवन्ति ॥] पत्तानि असामन्नं समुन्नइं जेहिं देवया अन्ने । ते दिन्ति तुम गुणसंकहासु हासं गुणा मज्झ ॥ २२ ॥ [प्राप्तान्यसामान्या समुन्नतिं यैर्दैवतान्यन्यानि । ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥] दोसरहिअस्स तुह जिण निन्दावसरम्मि भग्गपसराए । वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो ॥ २३ ॥ दोषरहितस तव जिन निन्दावसरे भग्नप्रसरया । वाचा वचनकुशला अपि बालिशायन्ते मत्सरिणः ॥] अणुरायपल्लविल्ले रइवल्लिफुरन्तहासकुसुमम्मि । तवताविओ वि न मणो सिङ्गारवणे तुह लीणो ॥ २४ ॥ [अनुरागपल्लववति रतिवल्लीस्फुरद्धासकुसुमे । - तपस्तापितमपि न मनः शृङ्गारवने तव लीनम् ॥] आणा जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि । सो वि तुह झाणजलणे मयणो मयणं विअ विलीणो ॥ २५ ॥ [आज्ञा यस्य विलम्बिता शीर्षे शेषेव हरिहराभ्यामपि । सोऽपि तव ध्यानज्वलने मदनो मदन इव विलीनः ॥] Page #133 -------------------------------------------------------------------------- ________________ १२८ काव्यमाला। पइँ नवरि निरभिमाणा जाया जयदप्पभजणुत्ताणा। वम्महनरिन्दजोहा दिद्विच्छोहा मयच्छीणम् ॥ २६ ॥ त्वयि केवलं निरभिमाना जगदर्पभञ्जनोत्तानाः । मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम् ॥] विसमा रागहेसा निन्ता तुरयव्व उप्पहेण मणम् । ठायन्ति धम्मसारिहि दिढे तुह पवयणे नवरम् ॥ २७ ॥ [विषमौ रागद्वेषौ नयन्तौ तुरगाविवोत्पथेन मनः । तिष्ठतो धर्मसारथे दृष्टे तव प्रवचने निश्चितम् ॥] पञ्चलकसायचोरे सइसंनिहिआसि चक्कधणुरेहा । हुन्ति तुह चिअ चलणा सरणं भीआण भवरत्ने ॥ २८ ॥ [प्रत्यलकषायचोरे सदासंनिहितासि चक्रधनूरेखौ । भवतस्तवैव चरणौ शरणं भीतानां भवारण्ये ॥] तुह समयमरब्भट्ठा भमन्ति सयलासु रुक्खजाईसु । सारणिजलं व जीवा ठाणहाणेसु बज्झन्तो ॥ २९ ॥ तव समयसरोभ्रष्टा भ्रमन्ति सकलासु रू(वृ)क्षजातिषु । सारणिजलमिव जीवा स्थानस्थानेषु बध्यमानाः ॥] सलिलिव्व पवयणे तुह गहिथे उष्टुं अहो विमुक्कम्मि । वच्चन्ति नाह कूवारहट्टघडिसंनिहा जीवा ॥ ३० ॥ [सलिल इव प्रवचने तव गृहीते ऊर्ध्वमधो विमुक्ते। व्रजन्ति नाथ कूपारघट्टघटीसंनिभा जीवाः ॥] लीलाइ निन्ति सुक्खं अन्ने जह तिथिआ तहा न तुमम् । तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिवसुहाई ॥ ३१ ॥ [लीलया नयन्ति सुखमन्ये यथा तीथिका तथा न त्वम् । तथापि तव मार्गलग्ना मृगयन्ते बुधाः शिवसुखानि ॥] सारिव्व बन्धवहभरणभाइणो जिण ण हुन्ति पइ दिढे । अक्खहिंवि हीरन्ता जीवा संसारफलयम्मि ॥ ३२ ॥ Page #134 -------------------------------------------------------------------------- ________________ ऋषभपञ्चाशिका | [शारय इव बन्धवधमरणभानो जिन न भवन्ति त्वयि दृष्टे । अक्षैरपि हियमाणा जीवाः संसारफलके ॥] हरित पहु निन्ति निओगिक्कसङ्खलाबद्धा । कालमणन्तं सत्ता समं कयाहारनीहारा ॥ ३३ ॥ अवधीरितास्त्वया प्रभो नयन्ति निगोदे (योग) कशृङ्खलाबद्धाः । कालमनन्तं सत्त्वाः समं कृताहारनीहाराः ॥ ] जेहि तआिण तवनिहि जायइ परमा तुमम्मि पडिवत्ती । दुखाइँ ताइँ मन्ने न हुन्ति कम्मं अहम्मस्स ॥ ३४ ॥ [यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः । दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य ॥] 'होही मोहच्छेडं तुह सेवा धुवति नन्दामि । जं पुण न वन्दिअव्वो तत्थ तुमं तेण झिज्जामि ॥ ३५ ॥ [ भविष्यति मोहच्छेदस्तव सेवया ध्रुव इति नन्दामि । यत्पुनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये ॥] जा तुह सेवाविमुहस्स हन्तु मा ताउ मह समिद्धीओ । अहियार संपया इव पेरन्तविडम्बणफलाओ ॥ ३६॥ [ यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः । अधिकारसंपद इव पर्यन्तविडम्बनफलाः ॥] भित्तूण तमं दीवो देव पयत्थे जणस्स पडे । तु पुण विवरीयमिणं जइक्कदीवस्स निव्वडिअम् ॥ ३७ ॥ [ भित्त्वा तमो दीपो देव पदार्थाञ्जनस्य प्रकटयति । तव पुनर्विपरीतमिदं जगदेकदीपस्य निर्वृत्तम् ||] मित्थत्तविसपत्ता सचेयणा जिण न हुन्ति किं जीवा । कन्नम्म कमइ इ कित्तिअं पि तुह वयणमन्तस्स ॥ ३८ ॥ [मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति किं जीवाः । कर्णयोः क्रामति यदि कियदपि त्वद्वचनमन्त्रस्य ॥ ] १२९ Page #135 -------------------------------------------------------------------------- ________________ काव्यमाला। आयण्णिआ खणद्धं पि पइ. थिरं ते करन्ति अणुराअम् । परसमया तह वि मणं तुह समयज्जाण न हरन्ति ॥ ३९ ॥ [आकर्णिताः क्षणार्ध त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ॥] वाईहिँ परिग्गहिआ करन्ति विमुहं खणेण पडिवक्खम् । तुज्झ नया नाह महागयव्व अन्नुन्नसंलग्गा ।। ४० ॥ [वादि(जि)भिः परिगृहीताः कुर्वन्ति विमुखं क्षणेन प्रतिपक्षम् । तव नया नाथ महागजा इवान्योन्यसंलमाः ।] पावन्ति जसं असमञ्जसा वि वयणेहि जेहिं परसमया। तुह समयमहोअहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ ४१ ॥ [प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैः परसमयाः । तव समयमहोदधेस्तानि मन्दा बिन्दुनिस्यन्दाः ॥] पइ मुक्के पोअम्मिव जीवेहिँ भवन्नवम्मि पत्ताओ । अणुवेलमावयामुहपडिएहिँ विडम्बणा विविहा ॥ ४२ ॥ [त्वयि मुक्ते पोत इव जीवैभवार्णवे प्राप्ताः । अनुवेलमापदा(गा)मुखपतितैर्विडम्बना विविधाः ॥] मुलं अपत्थिआगयमखभवन्तो मुहुत्तवसिएण । छावठ्ठीअयराई निरन्तरं अप्पइट्ठाणे ।। ४३ ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुषितेन । षट्षष्टिसागरोपमानि (१) निरन्तरमप्रतिष्ठाने ॥] । सीउहवासधारानिवायदुक्खं सुतिक्खमणुभूअम् । तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ॥ ४४ ॥ [शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥] अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं । सुन्ना मणुस्सभवणाडएसु निन्भाइआ अङ्का ।। ४५ ॥ Page #136 -------------------------------------------------------------------------- ________________ ऋषभपञ्चाशिका | [अन्ते निष्क्रान्तैः प्राप्तैः (पात्रे ) प्रियकलत्रपुत्रैः । शून्या मनुष्यभवनाटकेषु निभालिता अङ्काः ॥] दिट्ठा रिउरिद्धीओ आणाउ कया महट्टिअसुराणम् । सहिया वही देवत्सु दोगञ्चसंतावा ॥ ४६ ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्द्धिकसुराणाम् । सोढाव वही देवत्वेषु दौर्गत्यसंतापौ ॥] सिञ्चन्तेण भववण पलट्टा पल्लि रहट्टव्व । घडिसंठाणोणिसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ॥ [सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसर्पिण्युत्सर्पिणीपरिगता बहुशः ॥ ] भमिओ कालमणन्तं भवम्मि भीओ नं नाह दुक्खाणम् । दि तुमम्मि संपइ जायं च भयं पलायं च ॥ ४८ ॥ [भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् । दृष्टे व संप्रति जातं च भयं पलायितं च ॥] जइ विकत्थो जगगुरु मज्झत्थो जइवि तहवि पत्थे म । दाविज्जसु अप्पाणं पुणो वि कइयावि अम्हाणम् ॥ ४९ ॥ यद्यपि कृतार्थो जगद्गुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम् ॥] इअ झाणग्गिपलीविअकम्मिन्धणबालबुद्धिणा वि मए । मत्ती थुओ भवभयसमुद्दयोहित्यबोहिफलो ॥ ५० ॥ [इति ध्यानाग्निप्रदीपितकर्मेन्धन बालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपात्रबोधिफलः ॥] इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका ॥ १३१ Page #137 -------------------------------------------------------------------------- ________________ १३२ काव्यमाला | महाकविशोभनमुनिप्रणीता चतुवैिशतिजिनस्तुतिः । टिप्पणसमेता । धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावा षण्णवति ( ? ) संख्यानां शोभन स्तुतीनामवचूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह - भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली रम्भासामज नाभिनन्दन महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झितारम्भासान जनाभिनन्दन महानष्टापदाभासुरैः ॥ १ ॥ हे नाभिनन्दन नाभिनरेन्द्रपुत्र, त्वं महानुत्सवान्विदुषां संपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधनं हे भव्याम्भोजविबोधनैकतरणे । सूर्यो यथा स्वगोसंभारैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैर्भव्यजन्तूनां बोधं विधत्ते । ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां तर्हि तस्य तद्बोधनेऽसाम मायातमिति । नैवम् । नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिन्निबिड कर्म निगडनियन्त्रितानां प्रबोधाय न प्रभवति तर्हितस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्यं येषां ता न रोचयन्ते ( सा न रोचते ) । नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं विस्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुलात्सामजो हस्ती । तस्य संबोधनम् । हे नाभिनन्दन | तथा महत्यो नष्टा आपदो यस्य स महानष्टापत् । संबोधनं वा । तथा आभासुरैः कान्तिसंभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतिबन्धेन हे वन्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षेण त्यक्ता आरम्भाः सावयव्यापारा १. एतस्या जिन स्तुतेः पुस्तकत्रयमवचूरिसमेतं केवलदासात्मजेन भगवान्दास - ष्ठिनास्मदर्थं प्रहितम् तत्र प्रथमं शुद्धं सुन्दरं पञ्चपत्रात्मकं १५०५ मिते विक्रमान्दे लिखितम्. द्वितीयमपि तादृशमेवैकादशपत्रात्मकं १६११ मिते विक्रमाब्दे लिखितम्. तृतीयं नातिशुद्ध त्रयोदशपत्रात्मकं १६१५ मिते विक्रमाब्दे लिखितमस्ति. Page #138 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । १३३ येन तस्य संबोधनम् । तथा सह आमै रोगैवर्तते सामः । न तथा असामोरोगस्तस्य संबोधनम् । जनानभिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्ण तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्तजात्यतपनीयसमवर्णखाद्भगवतः ॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ २ ॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलवाणि कर्तृरूपाणि नाचिक्षिपुर्न क्षोभयामासुः । 'दाराः प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमैर्विलासै रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः । सुमनसः पुष्पाणि कर्तृणि यत्पादौ यच्चरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दा. यमाना भ्रमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाछितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥ तजगतां पूज्यैर्जिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिर्नयैरक्षोभं परवादिमिरजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छ्रितमङ्गानामाचारादीनां जालं समूहो यत्र तत् । तथा माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भजनैर्भङ्गकारिमिहेंतुभिर्लाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मिथोऽनुगमनादित्यत्र 'गुणादस्त्रियां न च' इति पञ्चमी ॥ शीताशुत्विषि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तनाब्जकान्ती क्रमौ नालीकेसरलालसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥ १२ का० स० गु. Page #139 -------------------------------------------------------------------------- ________________ १३४ काव्यमाला। यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाट्यकिंजल्कबिन्दूनदधत्पपौ। किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलोल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । समुदिता सहर्षा । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च ) ॥ तमजितमभिनौमि यो विराजद्वनधनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ५ ॥ यः खामी निजजन्मोत्सवेऽधितष्ठौ । किं कर्म । विराजद्भिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखरामम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखराग्रम् । अस्तोऽस्तगिरितद्वत्कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥ स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणवस्तुवन्ति ॥ ६ ॥ हे लोकाः, तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अल् पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गहृदः सुरामः सुष्टु रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीला । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा । 'व्यत्यये(१) लुग्वा' इति रेफस्य लुकू ॥ प्रवितर वसतिं त्रिलोकबन्धो गम नययोगततान्तिमे पदे हे । जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७ ॥ अन्तिमे मोक्षलक्षणे पदे हे जिनमत । मे मम वासं देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व । 'ययुर. श्वोऽश्वमेधीयः' इति वचनात् । 'तमोऽवग्लानौ' इति धातोस्तान्तिानिः । आपदि. त्यर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किंभूते पदे । अपदेहे देहमुक्त ॥ सितशकुनिगताशु मानसीद्धात्तततिमिरंमदमा सुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ ८ ॥ हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रवितरतु । पविं किंभूतम् । इद्धा दीप्ता आत्ता गृहीता ततिविस्तारो येन तत्तथा । इरंमदो जलदाग्निस्तद्वत्कान्तिर्यस्याः सा मुष्ठ शोभिता आशा दियो येन । क्षतं विनमुद्यच्छत्ततं विस्तीर्ण चान्तं यस्मातत्तथा । देवी दर्पोद्धरैरपराभूता ॥ Page #140 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् । वितर त्रातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९ ॥ हे निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोsरममाणोऽक्रीडन्मारः कामो यत्र ॥ आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः । स्तुत रहित जिनकदम्बक विभयापरमार मारमानमदमरैः ॥ १० ॥ है जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित । हे विगतभय । हे न परान्मारयतीत्यपरमार सर्वजन्तुरक्षक । हे रहित व्यक्त | कैः काममानमदमरणैः : ॥ जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥ जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्तया नः इत्यत्र 'रोर्यः' इति रस्य यः । ' खरे वा' इति विकल्पत्वात्तस्यात्र न लुक् । आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्नं कुर्वाणम् ॥ शृङ्खलभृत्कनकनिभा यातामसमानमान मानवमहिताम् । श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ॥ या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशङ्खलां वज्रशृङ्खलाभिधानामानम । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानौ प्राणाहंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैर्महिता पूजिता ताम् । कजयातां पङ्कजगताम् । असमानं निरहंकारं यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् ॥ त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन्सुरव धूनय नः परमोदरः ॥ १३ ॥ १३५ हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदमेदादसुशब्देना सुमन्त एवोच्यन्ते । तथा न वधूषु नयने यस्य स तथा । यद्वा Page #141 -------------------------------------------------------------------------- ________________ काव्यमाला। नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यद्वा परमुदरं यस्य । हे सुरव, जगदाह्लादिखात्.......... । परमः प्रधानोऽदरो निर्भयश्च ॥ जिनवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ १४ ॥ हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूयं प्रयतध्वं प्रयत्नं कुरुध्वम् । किंभूताः । इतामया गतयोगाः । पुनः किंभूताः । महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते । किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितत्वम् । अमतावनभिप्रेतौ मोहसङ्ग्रामौ येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैमनोहराः ॥ असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय तम् ॥ १५ ॥ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भवं संसारमायतं प्रबलं लघीयस्त्वं प्रापय । आजिः सङ्ग्रामः नवरागो द्रव्यादौ नूतनोऽभिलाषः । यद्वा उद्धताजौ नवरागो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसङ्ग्रामनूतनरागकाममाय ॥ विशिखशङ्खजुषा धनुषास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ १६ ॥ धनुषा मण्डितहस्तां रोहिणी देवी नम । किंभूतेन । शरशङ्खसहितेन । अस्ता ध्वस्ता सत्सुराणां प्रकृष्टदेवानां भीर्येन । तताः प्रसृता नुन्नाः प्रेरिता महान्तोऽरयो येन । परिगतां परिवारिताम् । विशदां शुक्लवर्णाम् । इहात्र जगति रोहिणी रोहिण्यभिधानाम् । सुरभिर्गौस्तत्र याता प्राप्ता तनुर्यस्यास्तां देवीं नम प्रणिपत । धनुषा किंभूतेन । हारिणा मनोहरेण ॥ मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । दम दमपालय पालय दरादरातिक्षतिक्षतातः पातः ॥ १७ ॥ हे मदकामाभ्यां त्यक्त, हे नरेभ्यो हित, हे सुमतिजिन, दमदं प्रशमदं नरं दरादिहलोकादिभेदभिन्नसाध्वसापालय रक्ष । हे सुमतेन सुसिद्धान्तस्वामिन् । यद्वा सुमतेन करणभूतेन । हे अपालय अपगतनिलय । हे कनकतार तपनीयोज्वल । हे इतारे गतशात्रव । हे पातस्त्रायक । अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकलात्क्षपा रात्रिस्तस्याः॥ विधुतारा विधुतारा सदाः सदाना जिना जिताघाताधाः । तनुतापातनुतापा हितमाहितमानवनवविभवा विभवाः ॥ १८ ॥ Page #142 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः। विधुतारा है जिनाः, हितं तनुत कुरुत । विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्वलाः । सदानाः सत्यागाः । जितमघातं घातवर्जितमधं पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्यं यैस्ते । तथा विगतसंसाराः ॥ मतिमति जिनराजि नराहितेहिते रुचितरुचि तमोहे मोहे । मतमत नूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः ॥ १९ ॥ जिनराजि सर्वज्ञे, मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते । नराणामाहितं पूरितमीहितं वाञ्छितं येन तस्मिन् । रुचिता परेषां प्रमोदकारित्वादभीष्टा रुकान्तिर्यस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनुतुच्छमूनमपूर्णं च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य सः । असुमतः प्राणिनः । जातावेकत्वम् । सुमतो रक्षाक्रियायां सुष्टु अभिप्रेतः ॥ नगदामानगदा मामहो महो राजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २० ॥ __ अहो इति संबोधने विस्मये वा । काली देवी मामवताद्रक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतमेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा। कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा । तरसा बलेन शीघ्रं वा । घनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्मये । ऊना अपूर्णाः । दूना विपक्षैः । सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥ पादद्वयी दलितपद्ममृदुः प्रमोद- मुन्मुद्रतामरसदामलतान्तपात्री । पाझप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१ ॥ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोदं प्रविदधातु । किंभूता । दलितं विकसितं यदजं तद्वत्कोमला । उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसुमानि तेषां पात्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपानी समीपभाजनम् । सतां वितीर्णमुद्दत्तप्रीतिः । मुदि. मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तान्ग्लानान्पातीति मलतान्तपात्री ॥ सा मे मतिं वितनुताजिनपतिरस्त मुद्रा गतामरसभासुरमध्यगाद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसमासुरमध्यगाद्याम् ॥ २२ ॥ Page #143 -------------------------------------------------------------------------- ________________ काव्यमाला। सा जिनश्रेणी मम मतिं दद्यात् । अस्तमुद्रा मुक्तप्रमाणा । गता प्राप्ता अमरसभा देवपर्षद्यां जिनपझिं अध्यगात्प्राप्तवती । आद्यां प्रथमाम् । किंभूता । असुरमध्यगा असुरमध्ये गच्छ तीति । किं कुर्वती । रत्नांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उद्भतरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा ॥ श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराम मा नम लसन्तमसंगमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसंतमसं गमानाम् ॥ २३ ॥ हे लोक, जिनेन्द्रागममानम । किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारामम् । लसन्तं शोभमानम् । केषाम् । असंगमानाम् । निःसङ्गानां मुनीनामित्यर्थः । अग्रिमं प्रकृष्टं धाम गृहम् । केषाम् । गमानां सदृशपाठानाम् । संसारसमुद्रसेतुम् । अस्ताः कामरोगाहंकारपापाज्ञानानि येन ॥ गान्धारि वज्रमुसले जयतः समीर पातालसत्कुवलयावलिनीलमे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते ॥ २४ ॥ हे गान्धारि देवि, ते वज्रमुसले आयुधे जयतः । किंभूते । वातप्रेङ्खोलनेनालसन्ती या कुवलयमाला तद्वन्नीला भा कान्तिर्ययोः। ये वज्रमुसले कीर्तीर्यशांसि लमेते। किंभूते । तव हस्तस्नेहले । बलिनी बलवती । कीर्तीः किंभूताः। निरुद्धमावृतं पातालं सत्पृथ्वीवलयं च याभिः ॥ कृतनति कृतवान्यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व स्मर परमदमाया मानवाधाय शस्तम् ॥ २५॥ यः खामी जन्तुजातं कृतप्रणामं विहितवान् । किंभूतम् । निरस्तानि कंदर्पवैरिमदमायामानपीडायशांसि येन तम् । तं सुपार्श्व देवं हे मानव नर, त्वं स्मर । किं कृत्वा । निश्चलत्वमाधाय । कस्याः । चित्तवृत्तेर्मनोव्यापारस्य । सुचिरं प्रभूतकालम् । परमो दमो यस्याः । शस्तं शोभनम् ॥ व्रजतु जिनततिः सा गोचरं चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् । Page #144 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः। पदमुपरि दधाना वारिजानां व्यहार्षी त्सदमरसहिता या बोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिर्यो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु । किंभूतायाः । सह दमरसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्षीद्विहारं कृतवती । किंभूता । नवानां नवसंख्यानां नूतनानां वारिजानां वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा खयमवाप्तबोधित्वात्परेषां बोधिधर्मप्राप्तिस्तत्र कामो यस्याः सा ॥ दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयन्सिद्धवासे ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ हे जनाः, जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढं प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्घ्यशोभि अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणखिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोर्महारि महावैरिभूतम् ॥ दधति रविसपलं रत्नमाभास्तभाव नवघनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा नव घनतरवारिं वारणारावरीणाम् ॥ २८ ।। हे महामानसि देवि, इष्टानभिमतानरादीन् अव रक्ष । हे गतवति प्रापुषि। कस्मिन्वारणारौ सिंहे। हे दधति धारयन्ति । किम् । रत्नं मणिम् । किंभूतम् । रविसपत्नं रविप्रतिपक्षं प्रभाधिक्यात् । आभया कान्या अस्तो भावान्सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् । वा समुच्चये । सिंहे किं कुर्वति । अरीणां वैरिणामाली श्रेणिं विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खङ्गं किंभूतम् । घनतरवारिं सान्द्रतरपानीयम् । रत्नविशेषणं वा ॥ तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां ____ हाने कान्तानलसम दयावन्दितायासमान । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतू. हानेकान्तानलसमदया वन्दितायासमान ॥ २९ ॥ हे चन्द्रप्रभ जिन, हे दयावन्, तुभ्यं नमोऽस्तु । तमःसंबन्धिविस्फूर्जितानां हाने Page #145 -------------------------------------------------------------------------- ________________ काव्यमाला। त्यागे मनोहरवह्निसमान । दितौ छिन्नावायासमानौ येन । तुभ्यं किंभूताया। विद्वत्पलया चन्दिताय । प्रकटिताः पृथवो वितताः स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणानि ऊहो वितर्कः अनेकान्तः स्याद्वादो येन तत्संबोधनम् विद्वत्पतया किंभूतया । न विद्यते अलसमदौ तन्द्राहंकारौ यस्यास्तया । हे असमान निरुपमान ॥ जीयाद्राजिर्जनितजननज्यानिहानिर्जिनानां . सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्रं सत्यागा रञ्जयदमितरुक्सा रविं दावतारम् ॥ ३० ॥ जिनानां राजिर्जयतात् । किंभूता । विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । जयदमभ्युदयावहम् । इतरुग्गतरोगा । सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैवर्तते या । या भव्योत्या भव्यानामुद्धातिर्भवोत्ताररूपा तया हेतुभूतया भुवि पृथिव्यामवतारं कृतवती । या धर्मचक्रमवहदुवाह । सत्यागा सदाना । धर्मचक्रं कथंभूतम् । रजयद्रक्तीकुर्वन् । रविं सूर्यम् । दावतारं दावोज्वलम् । अमिता अप्रमाणा रुकान्तिर्यस्य ॥ सिद्धान्तस्तादहितहतयेऽख्यापयद्यं जिनेन्द्रः __ सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलकैर्य च मोदाद्विहायः सद्राजीवः सकविधिषणापादनेकोपमानः ॥ ३१ ॥ स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । यं सिद्धान्तं सन्ति शोभनानि कमलानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयदूचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिजनने दक्षो विचक्षणः। न विद्यते कोपमानौ यस्य यत्र वा । विहायःसदो देवास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोत्राञ्जलिभिर्मोदाद्धर्षाचं च सिद्धान्तमपात् पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमा. नानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीवः' इति मुक्खा ॥ वज्राङ्कुश्यङ्कुशकुलिशभृत्त्वं विधत्व प्रयत्न खायत्यागे तनुमदवने हेमतारासिमत्ते । अध्यारूढे शशधरकरश्वेतभासि द्विपेन्द्रे खायत्यागेऽतनुमदवने हेऽमतारातिमत्ते ॥ ३२ ॥ हे वज्राङ्कुशि देवि, तनुमदवने , जन्तुरक्षणे प्रयत्नं विधेहि । हे., सृणिवज्रधारिणि । स्वायत्यागे शोभन आयोऽर्थागमो दानं च यस्याः । त्वं कथंभूता । हेमतारा कनको. Page #146 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । १४१ ज्ज्वला । हे अध्यारूढे । क्व । द्विपेन्द्रे । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इव श्वेता भा यस्य तस्मिन् । स्वायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुरं मदवनं मदवारि यस्म तस्मिन् । अरातिर्वैरी सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता सा न मता यस्यास्तस्याः संबोधनम् ॥ .. तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् । यो योगिपतया प्रणतो नभःसत्सभासुरालीनतपादयावन् ॥ ३३ ॥ स सुविधिर्जिनो हे दयावन् जन, तव समृद्धिं कियात् । भासुरं घोरमालीनमाश्रितं तपोऽनशनादिरूपं यस्य सः । यः स्वामी अवन्रक्षन् योगिवृन्देन प्रकर्षेण नतः । योगिपङ्कया कथंभूतया । नभःसदो देवास्तेषां सभा पर्षत् असुरावली असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया ॥ या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ ३४ ॥ या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अल. मत्यर्थ मुदं प्रीतिं दिश्याद्दद्यात् । कथंभूता । पादयुग्मं धारयन्ती । राजिनी राजन. शीलाः नाना बहुविधाः अमलाः पद्ममाला यस्य तत्पादयुगम् ॥ . जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ ३५ ॥ हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता । भङ्गैरर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमोऽज्ञानं निर्नाशयन्ती । केन । शस्यतमश्चारुतमो यः स्तवस्तेन हेतुभूतेन शुभा प्रकृष्टा । तव कीदृशस्य । अरतीशस्याकामस्य । हे इन खामिन् । दिव्यात्तवाशु ज्वलनायुधासमध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ ३६॥ तव ज्वलनायुधा देवी के सुखं दिशात्करोतु । किंभूता । अल्पं तुच्छं मध्यं मध्यभागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अस्ते. न्दुयकृतमृगाङ्का । कया। आस्यस्य मुखस्य रुचा कान्या । उरु विस्तीर्ण पृष्ठमध्या. सिताध्यारूढा कस्य । अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य ॥ जयति शीतलतीर्थकृतः सदा चलनतमरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशच्चलनतामरसंसदलङ्घनम् ॥ ३७ ॥ शीतलतीर्थकरस्य चलनतामरसं पादपद्मं जयति । किंभूतम् । अम्बुरुहां कमलानां नवकं पथि मार्गे संस्पृशत् । नवकं किंभूतम् । सदलं सपत्रम् । घनं सारम् । जलनतामरसं Page #147 -------------------------------------------------------------------------- ________________ १४२ काव्यमाला | किभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लङ्घनमधःकरणं कुतश्चिद्यस्य तदलङ्घम् ॥ स्मर जिनान्परिनुन्नजरारजोजननतानवतोदयमानतः । परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ ३८ ॥ हे जन, भव्यलोक, अतोऽस्मात्कारणाज्जिनान् स्मर । किंविशिष्टान् । परिनुन्ना परि क्षिप्ता जरा वयोहानिरूपा, रजः कर्म, जननं जन्म, तनोर्बुर्बलस्य भावस्तानवं कार्यम्, तोदो बाधा, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुक्तिसुखकर्तृन् । नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । अदयं शरीरावयवनिरपेक्षं यथा स्यात्तथा अनतः प्रणतः सन् त्वम् ॥ जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ ३९ ॥ जिनेन मनीषिणां गणभृतां प्रथितं प्रोक्तं मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथ पूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मिथ्यारूपानागमान् दृणातीत्येवंशीलः | जिनविशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदश्च जात्याद्युत्थोऽमिनिवेशः । यद्वा रतं मैथुनम्, रागो द्रव्यादावभिलाषः, मदः पूर्वोक्त एव तेषामरिणा वैरिणा ॥ धनरुचिर्जयताद्भुवि मानवी गुरुतरा विहतामरसंगता । कृतकरास्त्रवरे फलपत्रभागुरुतराविद्दतामरसं गता ॥ ४० ॥ मानवी देवी जयतात् । किंभूता । घना सान्द्रा रुचिः कान्तिर्यस्याः सा । गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरास्तैः संगता सहिता । अनवरे प्रधानायुधे कृतपाणिः । फलपत्रे भजते फलपत्रभाकू । तरोर्विशेषणमेतत् । स चासौ उरुतरुश्च विशालद्रुमश्च तत्र । तामरसं पद्मं गता प्राप्ता ॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततमां द्राक्श्रेयांसं न चाहृत यन्मनः कमलसदृशाङ्गी तारा वाबला दयितापि तम् ॥ ४१ ॥ अलसदृशामलसेक्षणानां स्त्रीणां नृणां वा गीतारावा गीतध्वनयो यस्माज्जिनात्क - मन्यं जनं मोहवशवर्तिनं न व्यधुः । अपि तु सर्वमप्यकार्षुः । किंविशिष्टम् । बलात्प्रसभम् । अयि संबोधने | तापितं पीडितम् । केन । कुसुमधनुषा कामेन । हे जनाः, तं श्रेयांसं प्रणमततमाम् । द्राक शीघ्रम् । अबला स्त्री दयितापि कान्तापि यन्मनो यन्मा१. 'मानसी' इति पुस्तकान्तरे पाठः. Page #148 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । १४३ नसं च नाहृत नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसशाङ्गी । तारा मनोहरा । वा समुच्चये ॥ जिनवरततिर्जी वाली नामकारणवत्सला समदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पङ्कया नूता तनोतु मतिं ममासमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ जिनेन्द्रराजिर्मम मतिं ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो दमो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वी वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नम्रा येऽमृतभुजो देवास्तेषां पतया नूता स्तुता । मतिं किंभूताम् । असम दैर्निरहंकारैर्महितां पूजिताम् । आरात् शीघ्रमिष्टा पूजिता । अभिमता वा । देवपतया किंभूतया । सह मानवराजैर्नरेन्द्रैर्वर्तते या तया ॥ भवजलनिधिभ्राम्यज्जन्तुत्रजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामर्हन्नाथागमानतभूपतिं तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ४३ ॥ हे संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसंपदं मानववृद्धिं समभिषतां वाञ्छतां सह दाने रसेन वर्तते सदानरसं पदं तनु विधेहि । इति संटङ्कः । नरसंपदं किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । किंविशिष्टानाम् । सन्नाः क्षीणा आशा मनोरथा येषाम् । नरसंपदं किंभूताम् । आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमर्त्याधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली मर्त्याधिपं कजराजिभिः ॥ ४४ ॥ महाकाली देवी प्रजयति प्रकर्षेण वैस्जियेन सर्वोत्कृष्ट वर्तते । करैर्हस्तैरुपलक्षिता । किंभूतैः । धृता वञ्ज्र -फल- जपमाला घण्टा यैस्ते तथा । देवी किंभूता । बोधिता प्रजा लोको यैस्ते बोधितप्रजास्ते च ते यतयच साधवः । ततः कृतो बोधितप्रजयतीनां महः पूजा उत्सवो वा यया सा । तथा कालीं श्यामां दधती धारयन्ती । काम् । स्ववपुलताम् । किंभूताम् । अपरिक्षतामदूषिताम् । कैः । अर्तिः पीडा, आधिर्मानसी व्यथा, Page #149 -------------------------------------------------------------------------- ________________ १४४ काव्यमाला। पङ्ककर्दमः कालुष्यम् , जरा विस्रसा, आजिः प्रधनं तैः । पुनः किंभूताम् । अध्यासीनाम् । कम् । माधिपं पुरुषप्रकाण्डम् । करैः किंविशिष्टैः। कजं पद्मं तद्वद्राजिभी राजनशीलैः ॥ पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते ऽमायासंसारवासावन वर तरसाली नवालानबाहो । आनम्रा त्रायतां श्रीप्रभवभवभयाद्विभ्रती भक्तिभाजा मायासं सारवासावनवरतरसालीनवालानबाहो ॥ ४५ ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अवृजिन, हे जिनपते, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद्रक्ता कान्तिर्यस्य तस्य संबोधनम् । हे अमाय अदम्भ । हे असंसारवास, मुक्तौ प्राप्तत्वात् । हे अवन रक्षक, हे वर प्रधान । केन । तरसा बलेन वेगेन वा । यद्वा मायासंसारवासाभ्यां सकाशादवति रक्षतीति । नवालानववाहू भुजौ यस्य तस्य संबोधनम् । आली किंभूता । आनम्रा कृतप्रणामा । कस्मात्रायताम् । श्रीप्रभवः कामस्तद्भवं यद्भयं तस्मात् । हे श्रीप्रभव लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा । आली किं कुर्वाणा । दधती । कम् । आयासं दुःखं श्रमं वा । सारवा प्रारब्धस्तुतिखात्सशब्दा । असौ प्रत्यक्षा । अनवरतमजस्रं रसायां पृथिव्यां लीना वालाः केशा यस्याः सा । एतेन भक्त्याधिक्यं सूचितम् । नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् । अहो इत्यामन्त्रणे ॥ पूतो यत्पादपांशुः शिरसि सुरततेराचरचूर्णशोभां या तापत्रासमाना प्रतिपदमवतीहार ताराजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते __ यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ।। ४६ ।। - पूतः पवित्रो यत्पादपांशुश्चरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिस्तापत्रा तापमेत्री । असमाना गुणैरनन्यसदृशी । प्रतिमदं प्रतिगतमदं निर्मदमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभां लम्भयन्ती । सा तती रजः कर्म ते तव प्रविकिरतु क्षपयतु । किं विशिष्टा । जिनराजानामियं जैनराजी तीर्थकरसंबन्धिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्विपत्, त्रासस्त्वाकस्मिकं भयम्, मानो गर्यो यस्याः सा । कीर्तेः कान्या जयन्ती अभिभवन्ती । काः । हारताराः मुक्तावलीनक्षत्राणि ॥ नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा पायायासाद्यमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे पापायासाद्यमानामदनतं वसुधासार हृद्याहितानि ।। ४७ ॥ Page #150 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । १४५ नित्यं सर्वदा हे तीर्थनाथ, तव वाणी मम हितानि क्रियात् । कथंभूता । हेतवो वस्तुगमकलिङ्गानि । उपपत्तयो युक्तयः । यद्वा हेतूनामुपपत्तयस्ता मिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिर्यया । अपगता अपाया अनर्था यस्याः सा । आसाद्यमाना प्राप्यमाणा । अपापायैरासाद्यमाना वा । हे अमदन अकाम । सुधाया अमृतस्यासारो वेगवान्वर्षस्तद्वन्मनोहरा । श्रूयमाणामृतमिव हृदयंगमेत्यर्थः । मोक्षपथस्नेहलैः स्वीकृता । न विद्यते पापं चायासश्चादिर्येषां ते पापायासादयस्ते च तेऽमानाश्च । मदाश्च नरास्तैर्वन्दित । वसुधासार पृथिव्युत्कृष्ट । आहितानि स्थापितानि । क्व । हृदि मनसि ॥ रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभाख त्सन्नालीका सदा सापरिकरमुदिता साक्षमाला भवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात्कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम् ॥ ४८ ॥ श्री शान्तिदेवी भवन्तं त्वां क्षमा उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् । कीदृशा । रक्षांसि पलादाः, क्षुद्राः शाकिनीप्रमुखाः, ग्रहाः शनैश्वरादयः । आदिशब्दाद्भूपालव्यालादयः । तेभ्यः प्रतिहतिरुपघातस्तस्याः शमनी नाशिका | वाहितं वाहनीकृतं श्वेतं सितं भास्वद्दीप्यमानं सत् शोभनं नालीकं कमलं यया सा | सतां साधूनामाप्ता अविप्रतारिका । प्तापरिकरं जटामण्डलं तेन मुदिता प्रीता । सन्नं क्षीणमलीकमसत्यं यस्याः सा । सहाक्षमालया जपमालया वर्तते । इदं देव्याः कुण्डि - काया वा विशेषणम् । यस्या देव्याः कुण्डिका कमण्डलुर्भाति । कथंभूता । करं हस्तं परि लक्षीकृत्य उदिता उदयं प्राप्ता ॥ अपापदमलं घनं शमितमानमामो हितं नतामरसभासुरं विमलमालयामोदितम् । अपापदमलङ्घनं शमितमानमामो हितं न तामरसभासुरं विमलमालयामोदितम् ॥ ४९॥ विमलं जिनं वयमानमामः । पापं ददातीति पापदः । न पापदमपापदम् । पुण्यप्रदमित्यर्थः । अलमत्यर्थम् । यद्वा अपापो यो दम उपशमस्तं लातीति अपापदमलम् । घनं निश्छिद्रं अशेषमलक्षयोत्थं शं सुखमितं प्राप्तम् । हितं प्राणिगणस्य । नता नम्रीभूता अमरसभा देवपर्षदसुराश्व यस्य । विमला या माला पुष्पत्रक तयामोदितं सुरभीकृतम् । अंपगता आपदो यस्मात्तम् । अलङ्घनं केनाप्यपराभूतम् । शमितो मानो येन तम् । आमोहितं न मोहेन समन्तान्न वशीकृतम् । तामरसं कमलं तद्वद्भासुरं दीप्यमानम् । [विमलं निर्दोषम् |] आलये गृहविषये । अमोदितमहृष्टम् ॥ सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभा रतीरायताः । १३ का० स० गु० Page #151 -------------------------------------------------------------------------- ________________ काव्यमाला सदानवसुराजिता असमराजिनाभीरदा क्रियासुरुचितासु ते सकलभारतीरा यताः ॥ ५० ॥ ते जिनाते तव आयता विपुला रतीर्मुदः क्रियासु कर्तव्यषु क्रियासुर्देयासुः । किंभूतासु । रुचितासु इष्टासु । उचितासु योग्यासु । पुण्यरूपाखित्यर्थः । जिनाः किं विशिष्टाः । सदानवैः सासुरैः सुरैरुपसर्गादिभिरजिताः । असमरा अरणाः। मियं भीति रदन्ति भिन्दन्तीति भीरदाः । 'रद विलेखने । सकलाः सदोषाः संसारकृत्यरूपा ये भारास्तेषां पर्यन्ते स्थितत्वात्तीराः । यद्वा असदोषा भारतीरीरयन्ति रान्ति वा । यताः प्रयत्नवन्तः । सदानं सत्यागं यद्वसु सुवर्ण तेन राजिताः शोभिताः । असमाः शोभमानाश्च नाभीरदा येषां ते । सकला समस्ता भा दीप्तिर्येषां येषु वा । यद्वा सह कलभया रुचिररुचा वर्तन्ते ॥ सदा यतिगुरोरहो नमत मानवैरञ्चितं ___ मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं __ मतं वरदमेन सारहितमायता भावतः ॥ ५१ ॥ अहो लोकाः, यतिगुरोः सर्वज्ञस्य भावतो भक्त्या मतं शासनं नमत । सदा सर्वकालम् । कथंभूतम् । मानवैर्मानुषैरश्चितं पूजितम् । वरमभीष्टार्थ ददाति वरदम् । एनसा पापेन रहितं त्यक्तम् । यतिगुरोः किंभूतस्य । आयताभावतः आयता विपुला भा अस्यास्तीति मतुप् । मतं किंभूतम् । सदायति सती शोभना आयतिरागामिकालः प्रभूता वा यस्य तत् । गुरोरर्हतो रहो रहस्यभूतम् । न मतेऽभीष्टे मानवैरे यस्य । चितं व्याप्तम् । केन । वरदमेन प्रधानोपशमेन । किंभूतेन । आयता आगच्छता । मतं कथं. भूतम् । मतं सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यद्वा सारं हितं यस्मिन् ॥ प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ ५२ ।। रोहिणी देवी मयि विषये ईहितममलमनवयं हितं शुभोद तनुतां कुरुताम् । मयि कथंभूते । प्रभाजि प्रकर्षण भजत इति तच्छीले । अलमत्यर्थम् । परं प्रकृष्टम् । देवी किंविशिष्टा । अचापला चापल्यमुक्ता । सुधा प्रासादलेपनद्रव्यं तद्वद्वसु तेजो यस्याः । यद्वा अमृतमेव द्रव्यं यस्याः । न भीर्भयं मनसि यस्याः सा अभीमनाः । सभा सकान्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतैर्नुता स्तुता । परमं चापं धनुर्लातीति । आरोहणशीला । काम् । सुष्टु धावतीति सुधावा सुवेगा या सुरभी गौस्ताम् । अनायमनी नीरोगा सभा यस्याः सा । क्षमां लातीति क्षमाले मयि ॥ Page #152 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । सकलधौतसहासनमैरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्त्रपितोल्लसत्सकलधौत सहासन मेरवः ॥ ५३ ॥ सकलाः समस्ता धौताः क्षालिताः सहासाः सविकासा नमेखो वृक्षविशेषा यैस्ते । मतमभिप्रेतम् । हे अनन्तजिन । चतुर्दशस्य तीर्थकृतो द्वे नाम्नी अनन्तोऽनन्तजिच्च । सहासनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते । ततः स्त्रपितः स्नानं कारितः उल्लस शोभमानः सकलधौतः सहेमा सहासनो मेरुयैस्ते । यद्वा सकलधौतं ससुवर्णं सह समर्थ दृढमासनं यस्मिन् । ततः स्नपित उल्लसन् सकलधौतहास नमेरुर्यैस्ते । हे अनन्तजित्, तव स्नानजलप्रवाहा मतं हितं दिशन्विति संबन्धः ॥ मम तामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक | वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ ५४ ॥ हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञतां जाड्यं निहन्तु । रताः सक्तचित्ता येमरास्तैः सेवित । हे क्षणप्रद उत्सवदायक | वरं ददातीति वरद । पादयुगं किंभूतम् । गतं प्राप्तम् । क । अमरतामरसे सुरकृतनवकमलेषु । जातित्वादेकवचनम् । वितते विस्तीर्णे लोचने यस्य तस्य संबोधनम् ॥ परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयी परमतापदमानसजन्मनः ॥ ५५ ॥ १४७ हे भव्यलोकाः, जिनेन्द्रमतं भवतो युष्मान् भवतः संसारात् अवताद्रक्षताम् । किंविशिष्टम् । परमतानां बौद्धादिशासनानामापदां हेतुत्वादापद्व्यसनम् । अमानान्यसंख्यानि सजन्ति संबध्यमानानि मनःप्रियाणि चित्तप्रीतिकराणि पदानि स्वाद्यन्तानि यस्मिंस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासंतापकारी मानसजन्मा कामो येन तस्य ॥ रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता । धृतधनुः फलकासिशरा करै रसितमुच्चतुरं गमनाय कम् ॥ ५६ ॥ अच्युता अच्छुप्ता देवी कं सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरङ्गमनायकं तुङ्गाश्वप्रकाण्डम् । किंविशिष्टम् । रसितं शब्दायमानम् । उत्प्राबल्येन चतुरं दक्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गमनाय गत्यर्थम् । देवी कथंभूता । काञ्चनवत्कान्तिर्यस्याः सा । करैः शरैर्धृता चापावरणखङ्गबाणा यया सा ॥ नमः श्रीधर्म निष्कर्मोदयाय महितायते । मर्त्यामरेन्द्रनागेन्द्रैर्दयायमहिताय ते ॥ ५७ ॥ हे धर्मनाथ जिन, ते तुभ्यं नमोऽस्तु । कथंभूताय । निर्गतः कर्मोदयो भलोत्पादो यस स तस्मै निर्गतकर्मोदयाय | महिता पूजिता आयतिरुत्तरकालः प्रभुता वा यस्य । यद्वा Page #153 -------------------------------------------------------------------------- ________________ काव्यमाला। महिता आसमन्तायतयः साधवो यस्य तत्संबोधनम् । कैमोमरेन्द्रनागेन्द्रमांचामराश्च तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणात्पातालवासिदेवैः । दया च यमाश्च व्रतानि तेषां हिताय ते तुभ्यम् ॥ जीयाजिनौधो ध्वान्तान्तं ततान लसमानया । भामण्डलत्विषा यः स ततानलसमानया ॥ ५८ ।। स जिनौघो जीयात् । भामण्डलकान्त्या यो ध्वान्तध्वंसं ततानाकृत । किंभूतया। ततो विपुलो योऽनलो वह्निस्तत्सदृशया लसमानया वर्धमानया ॥ भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके । संसाराम्भोनिधावस्मानवनौ रक्ष तारिके ॥ ५९॥ हे जिनवराणां वाणि, अस्मानवनौ पृथिव्यां रक्ष । किंविशिष्टा । नवा प्रत्यप्रा नौर्मङ्गिनी(?) संबोधनं वा । कस्मिन् । संसाराम्भोनिधौ भवसागरे । अक्षतानुपहता अरयः शत्रवः कं जलं यत्र । हे तारिके निर्वाहिके ॥ केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता । प्रज्ञप्ति+तनाम्भोजकरालामा नयाचिता ॥ ६० ॥ प्रज्ञप्तिर्देवी वो युष्माकमयाचिता अप्रार्थिता लाभान् दद्यात् । किंभूता । केकिनि मयूरे तिष्ठतीति के किस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलवकराला अत्युल्बणा भा यस्याः सा । नयेन नीत्या आचिता व्याप्ता ॥ राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा द्रेडकोपद्रुत जातरूपविभया तन्वार्य धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथामरो द्रेकोपद्रुत जातरूप विभयातन्वार्यधी रक्ष माम् ॥ ६१॥ हे श्रीशान्तिदेव, मां रक्ष पालय । जितोऽष्टापदाद्रिरुर्येन तस्य संबोधनम् । कया। तन्वा शरीरेण । किंभूतया । पादैश्चरणै राजन्त्या शोभमानया। किंभूतैः । नवपद्मरागो नूतनकमलरक्तता तद्वद्रुचिरैश्वारुभिः । हे अकोप अक्रोध । पुनस्तन्वा किंभूतया । द्रुतमुत्तप्तं यज्जातरूपं तपनीयं तद्वद्विभा कान्तिर्यस्यास्तया । हे अर्य खामिन् । हे धीर परि. षहाद्यक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा क्षान्ति बिभ्रत्या धारयन्या । अमरसेव्यया देवसेवनीयया । हे अस्मरोद्रेकोपद्रुत न कामवेगपीडित । जातं प्रादुर्भूतं विश्वातिशायि रूपं सौन्दर्य यस्य । हे विभय गतभय । अतनुरकृशा आर्या प्रशस्या धीर्यस्य तस्य संबो. धनम् । वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलब्धस्य विशेषणं वा । अत्र तनोर्मेरुणा श्लेषः सोऽपि पद्मरागमणिमयैः पादैर्मूले राजते खर्णवर्णश्च । क्षमा भुवं बिभर्ति । अमरसेव्यश्च स्यात् ॥ Page #154 -------------------------------------------------------------------------- ________________ चतुर्विशतिजिनस्तुतिः। ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो__ राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी- राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ ६२ ॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुर्मदं चक्रुरिति संबन्धः । किंविशिष्टाः । अविद्विषः शत्रुरहिताः। मालां स्रजं धारयन्तः । मालां किंभू. ताम् । रजोराज्या परागपूरेण मेदुरा । पारिजातकुसुमानि संतानकानि संतानककुसुमानि च तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । कया कीर्त्या । कथंभूतया । कुन्दपुष्पोज्वलया । अपारिजाता अपगतवैरिवृन्दा ये सुमनःसंताना विद्वत्समूहा देवसमूहा वा तेषां कान्ताः शिरःप्रणामपराः स्त्रियो वा तैरञ्चिताः पूजिताः ॥ जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा लीलाभं गमहारि भिन्नमदनं तापापहृद्यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृयामरम् ॥ ६३ ॥ जैनेन्द्रं जिनेन्द्रप्रोक्तं मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किंविशिष्टम् । गमाः सदृशपाठास्तैहारि मनोहरम् । भिन्नो विदीर्णो मदनोऽनङ्गो येन । तापं संसारभ्रमणजमपहरतीति । यामानि व्रतानि रातीति । दुर्निर्भेदं दुःखमेयं निरन्तरं निर्विवरमान्तरमन्तर्भवं तमो मोहं निर्नाशयतीत्येवंशीलम् । पर्युल्लसल्लीलान्प्रोद्यद्विलासान् अभझानजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापहृद्या अमरा यस्य ॥ दण्डच्छत्रकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ स ब्रह्मशान्तिनामा यक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छन्त्रकमण्डलूनि कलयनुद्वहन् । किंभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । शमी प्रशमवान् । क्षणेन वेगेन । मुक्ताक्षमाला अस्यास्तीति । तप्तवर्णपिण्डपीतरुचिः । यो यक्षः कस्यापि शमिनो मुनेरनिशं निरन्तरमीक्षणेन विलोकनेनाज्ञतां मूढतां संत्यज्य हितं परिणतिसुखमधारयत् । हितं किंभूतम् । मुक्का अक्षमा यैस्ते मुनयस्तेषामाली श्रेणिस्वस्या ईहितं चेष्टितम् ॥ भवतु मम मनः श्रीकुन्थुनाथाय तस्मा यमितशमितमोहायामितापाय हृद्यः । Page #155 -------------------------------------------------------------------------- ________________ १५० काव्यमाला। सकलभरतभर्ताभूजिनोऽप्यक्षपाशा यमितशमितमोहायामितापायहृद्यः ॥६५॥ तस्मै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु । अमितः शमितो मोहस्यायामितापो दीर्घदवथुर्येन तस्मै । यः स्वामी हृद्यो हृदयहारी । संपूर्णभरतक्षेत्राधिपश्चक्रवर्ती जिनोऽप्यभूत् । किंभूतः । अमितानपायान्हरतीति तस्मै । किंभूताय । अक्षपाशा इन्द्रियरज्जवस्तैरयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहायाज्ञानघातिने ॥ सकलजिनपतिभ्यः पावनेभ्यो नमः स नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो. नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ ६६ ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किंभूतेभ्यः पावनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्वनिः रदा दन्ताश्च येषां तेभ्यः । सारोऽर्थप्रधानो वाद उक्तिर्येषां तैः स्तुताः, यद्वा सारश्चासौ वादश्च तेन स्तुताः तेभ्यः । समधिगता प्राप्ता नुतिर्यैस्तेभ्यः । कस्माद्देवसमूहात् । किंविशिष्टात् । सारवात् । प्रस्तुतस्तुतिकात् । गरीयांसो गरिष्टा नया नीतयो येषु ते च ते नराश्च तेषां वरदेभ्यः । इत्थंभूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥ स्मरत विगतमुद्रं जैनचन्द्रं चकास कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यद्दानमार्ग धुताथै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ॥ हे लोकाः, जिनचन्द्रसंबन्धिनं कृतान्तं सिद्धान्तं यूयं स्मरत । हस्तिनमिव । किंभूतम् । विगतमुद्रं गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् । हेतुदन्तं हेतव एव दन्तो विपक्षभेदकवाद्विषाणो यस्य तम् । कृतान्तं यमम् । तुदन्तं व्यथमानम् । समुद्यन्समुल्लसन्दानमार्गों ज्ञानादीनां वितरणकमो यस्मिन् । अषैकविपदः पापैकविपद एवागा वृक्षास्ते धुता येन । अभङ्गमजे. यम् । अत्र द्विरदेन श्लेषः । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभङ्गाः शोभन्ते । दानमार्गो मदप्रवाहश्च स्यात् । स च कृतविनाशं च तुदति ॥ प्रचलदचिररोचिश्चारुगात्रे समुद्य त्सदसिफलकरामेऽमीमहासेऽरिमीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेऽरिमीते ॥ ६॥ Page #156 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः । १५१ हे पुरुषदत्ते, ते तव प्रसादाः सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वच्चारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसद्भ्यामसिफलकाभ्यां खङ्गखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभीमोsरौद्रो हासो हसनं यस्याः । अरिभ्यो भीर्भयं तस्या इतिभूते । अभीर्निर्भया या महारिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ॥ व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दित भूरिभक्तिभा क्संनदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥ यचक्रवर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत् तं अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मीं किंभूताम् । अनेकपा गजास्तै राजितां शोभिताम् । जिनं किंभूतम् । द्रुतं विलीनं यत्सुवर्ण तद्वस्कान्तं कमनीयम् । आनन्दितं भूरिभक्तिभाजां संनमतां प्रणामकारकाणाममराणां मानसं चित्तं येन तथा सारं श्रेष्ठम् । दिग्विजयादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मीं कथंभूताम् । अनेकैः परैरजिताम् । अरं शीघ्रम् ॥ तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । तं जिनराज विसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमदारुणकरमपापदम् ॥ ७० ॥ सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूहं स्तौति । समन्ततः सर्वतः स्मेत्यतीतार्थकम् । समवसरणभूमौ । किंभूता । सकलाः समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला मधुरा । तं जिनेन्द्र विसरमहं नमामि । किंविशिष्टम् । अरुणावारक्तौ करौ हस्तौ यस्य । अपगता आपदो यस्मात्तम् । विनाशितजन्मजरम् । अपकलितापमपगत कलह संतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥ भीममहाभवाब्धिभवभीतिविभेदि परास्त विस्फुरत्परमतमोहमानमत नूनमलं घनमघवतेऽहितम् । जिन पतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं परमतमोहमानमतनूनमलङ्घनमघवतेहितम् ॥ ७१ ॥ भीषणमहासंसारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिप्ता विस्फुरन्तः परम्तमोहमाना येन । यद्वा मोहादज्ञानान्मानो मिथ्याभिनिवेशः । परमतानां मोहमानौ वा । तनु तुच्छमूनमंपूर्ण च न अलमत्यर्थ घनं निबिडं प्रमेयगाढम् । अघवते पापिने Page #157 -------------------------------------------------------------------------- ________________ १५२ काव्यमाला । अहितं न श्रेयस्कारि । अपाराण्यपर्यन्तानि मानाममराणां निर्वाणस्य शर्माणि तेषां कारणम् । परमं तमो हन्ति । यद्वा परमतमा ऊहा यस्मिन् । आनमत प्रणमत । नूनं निश्चितम् । न लङ्घनमभिभवो यस्य स चासौ मघवा च तेन सामर्थ्यादच्युतनाथेन ईहितमभिलषितम् ॥ यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुता समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सांध्यधनमूर्धनि चक्रधरास्तु सा मुदे ऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ७२ ॥ अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च तान्यरीणि च तैर्महारिभिर्महाचकैः यात्र जगति चक्रधरा देवी अप्रतिचका देवी भाति शोभते । कथंभूता । विविधवर्णगरुडपृष्ठमधिरूढा । हुतमत्तीति हुताद्वहिस्तत्तुल्यां तनुं भजते । अविकृता अवि. कारिणी धीर्यस्याः सा । महारिभिः किंभूतैः । असमानदवानलैरिव । धाम तेजस्तेन हारिभिर्मनोहरैः । यथा विद्युत्संध्याभवमेघमस्तके भाति तद्वत् । सा देवी मुदेऽस्तु भवतु । समा च तनुश्च समतनुः न समतनुरसमतनुः एवंविधा भा यस्याः । गवि पृथिव्यां स्वर्गे वा कृतो धीराणां समदानां वैरिणां वधो यया ॥ नुदंस्तनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिररुचिरोचितां वरम् । विडम्बयन्वररुचिमण्डलोज्ज्वलः प्रिये गुरोऽचिररुचिरोचिताम्बरम् ॥ ७३ ।। नुदन् क्षिपन् । तनुं शरीरम् । प्रियंगुः श्यामो वृक्षविशेषस्तद्वद्रोचिर्यस्य । तनुं कथंभूताम् । रुचिरा उचितां च न एवंविधाम् । रुचिमण्डलं भामण्डलं तेनोज्ज्वलः कान्तः । अचिररुच्या रोचितं विद्युच्छोभितमम्बरमाकाशं विडम्बयन् । हे मल्ले (मल्लिनाथ) हे गुरो, अरुचिरोचितां तनुं नुदन् प्रियंगुवर्णः भामण्डलशोभितः विद्युत्सहितमाकाशं पराभवन् मम वरं प्रवितर ॥ जवाद्गतं जगदवतो वपुर्व्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोत्तमानस्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ ७४ ।। जवाद्वेगाजगद्विश्वमवतो रक्षतो जिनोत्तमान हे भव्यजनाः, स्तुत नुत । जगत्किंविशिष्टम् । पदं स्थानं नरकादिलक्षणं गतं प्राप्तम् । पदं किंभूतम् । वपुःपीडोत्पीडैरवशाः परतन्त्रास्तपन्तस्तापमनुभवन्तस्त्रसाः प्राणिनो यत्र तत् । जिनोत्तमान्कथंभूतान् । स्र पुष्पमालां दधतः । मालां कथंभूताम् । स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च संपद्यत्र ॥ स संपदं दिशतु जिनोत्तमागमः शमावन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमावहन्नतनुत मोहरोदिते ॥ ७५ ।। स जिनेन्द्रागमः संपदं दद्यात् । कथंभूतः । शं सुखमावहन्कुर्वन् अतनु प्रौढं तमो हरतीति । यद्वा अतनुतमानूहान् राति ददातीति । स चित्तभूः कामो येन क्षतो हतः। Page #158 -------------------------------------------------------------------------- ________________ चतुर्विशतिजिनस्तुतिः। १५३ यः कंदर्पस्तपःशमौ अहन् जघान । अदिते अखण्डिते मोहश्च रोदितं च मोहरोदिते च योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां पमश्रिया प्रभाति मे चकितहरिद्विपं नगे। वटाहये कृतवसतिश्च यक्षराद प्रभातिमेचकितहरिद्विपन्नगे ॥ ७६ ।। यक्षराट् कपर्दिनामा मम मनसि रमतां परिक्रीडताम् । हृदि कथंभूते । उपशमलक्ष्म्या प्रभाति प्रकर्षेण शोभमाने । यक्षराद किंविशिष्टः । चकितन्त्रस्तो हरिद्विप ऐरावणो यस्मात्तं द्विपं वारणं गतः प्राप्तः । विपन्नये विगतसर्प नगे वृक्षे-वटाभिधाने कृता वसतिरालयो येन । प्रभया कान्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः ॥ जिनमुनिसुव्रतः समवताज्जनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनः- .. समुदितमानबाधनमलो भवतो भवतः ॥ ७७ ॥ जिनमुनिसुव्रतो भवतो युष्मान् भवतः संसारात्समवतात्संरक्षतु । कथंभूतः । जनतया जनसमूहेनावनतः । समुदिताः सहर्षा ये मानवा मनुष्या अवनिविकीर्ण भूमौ राशीकृतं धनं कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सतः । दीक्षा ग्रहीतुकामस्ये. त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा सनःसमुदिता हृदि समुत्पन्ना संहता वा मानो बाधनं पीडा मलः कर्म च येन ॥ प्रणमत तं जिनव्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक् ।। ७८ ॥ प्रणमत नमत तं जिनबजमर्हत्संदोहम् । कथंभूतम् । भयासं भयक्षयकारकम् । सुरे. न्द्रवरयोषिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः । महिम्नो धाम गृहम् । जिनवजविशेषणमेतत् । हिमधामा चन्द्रस्तस्य भया कान्या समाना रुग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघटनेन उद्गतोऽलकेषु केशेषु मलो यस्याः सा ॥ त्वमवनताञ्जिनोत्तमकृतान्त भवाद्विदुषो ऽव सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं खभिदधत्सुधियां चरणं - वसदनु मानसं गमनयातत मोदयितः ॥ ७९ ॥ हे जिनोत्तमसमय, त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात्संसारात् । सत् शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम् । वं Page #159 -------------------------------------------------------------------------- ________________ १५४ काव्यमाला। किंविशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयस्तेषां दयितोऽभीष्टः । मोक्षसुखप्राफ्कं चरणं चारित्रं खभिदधत्स्वाख्यन् । किंभूतम् । सुधियां मानसमनु लक्ष्यीकृत्य वस. त्तिष्ठत् । हे गमनयातत गमाः सदृशपायः नयाश्च नैगमादयस्वैरातत विस्तीर्ण । है मोदयितः प्रमोदकारक ॥ अधिगतगोधिका कनकरुक्तव गौर्युचिता कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभास्यतु लोपकृतम् ॥ ८० ॥ गौरी देवी तव लोपकृतं विनाशकारकमस्यतु क्षिपतु । किंभूता । अधिगता प्राप्ता गोधिका देववाहनविशेषो यया सा । कनकवगुरदीप्तिर्यस्य वदनं मुखं दधती । किंभूतम् । मृगमदस्य कस्तूरिकाया ये पत्रभङ्गाः पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तैरु. चिता योग्या अङ्का लाञ्छनानि यस्य तदुचिताङ्कम् । अलकैश्चिकुरै राजते इत्येवंशीलमलकराजि तामरसभासि । अतुलमुपकृतं खकान्तिसंविभागादिना उपकारो यस्य तत् । कमलं करे यस्याः, कमलवद्वा करो यस्याः सा । जिता निष्प्रभीकृता रूपनेपथ्यप्रागल्भ्यादिभिरमराणां सभा यया सा ॥ स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं ममायासं चारो दितमद नमेऽघानि लपितः । नमद्भव्यश्रेणीभवभयभिदा हृद्यवचसा ___ममायासंचारोदितमदनमेघानिल पितः ॥ ८१ ।। हे नमे नमिजिन, ममायासं वितन्वन्ति अघानि पापानि प्रविकिर निरसय । स्फुरन्ती या विद्युत् तद्वत्कान्तिर्यस्य तस्य संबोधनम् । हे चारो दर्शनीय । हे दितमद च्छिन्नमद । हे लपितः वादक । केषाम् । हृद्यवचसाम् । कथंभूतानाम् । नमद्भव्यश्रेणीभवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स नैवंविधस्तस्य संबोधनम् । उदित उदयं प्राप्तो मदनः काम एव मेघो जीमूतस्तस्य संहारकत्वादनिलो वात इव तस्य संबोधनम् । हे पितः जनक इव हितकारक ॥ नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः सदा नो दीनानामयमलमदारेरिततमः ॥ ८२ ॥ यो विश्वं इततमो गतमोहं प्रचक्रे स जिनेन्द्रसमूहो जयति । कथं भूतः । नखांशुश्रेणीभिनखमयूखसंततिभिः कपिशितनमन्नाकिमुकुटः पीतीकृतनमद्देवकिरीटः। सदा शश्वत् नोदी प्रेरणशीलः । कस्य । नाना अनेकरूपा आमयाश्च मलाश्च मदाश्च । समाहारद्वन्द्वः । Page #160 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुतिः। १५५ तदेवारिस्तस्य । सदानो दानसहितः । दीनानां कृपणानाम् । अयमेषः । अलमतिमात्रम् । अतिशयेन दारैः कलत्रैरीरितो धैर्याच्चालितो दारेरिततमः । न एवंविधः अदारेरिततमः ॥ जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा गुरुर्वाहोऽपाता पदघनगरीयानसुमतः ॥ ८३ ।। कृतान्तः सिद्धान्तोऽसुमतः प्राणिनस्त्रासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः । व्यालः सर्पः । रुजो जलोदरादिरोगाः बन्धन कारानिरोधादि । युत्सङ्ग्रामः । जलादीनां सकाशादित्यर्थः । किंभूतः । गुरुर्महान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अघं पापं च यस्यां सा चासौ नगरी च युक्त्या मुक्तिरेव तस्या याने गमने सुष्टु मतोऽभिप्रेतः । स्फुटा अविसंवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेतुप्रमितिभाक् । उरुर्विशालः । वाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता त्रायकः । पदघनगरीयान् पदधनोऽर्थनिबिडः गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च ।। विपक्षव्यूह वो दलयतु गदाक्षावलिधरा समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोभृतघननिभाम्भोधितनया समानाली काली विशदचलनानालिकबरम् ॥ ८४ ॥ काली देवी वो युष्माकं विपक्षव्यूह प्रतीपपटलं दलयतु पिनष्टु । किंविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यसदृक् । नालीकानां कमलानामाली श्रेणी तद्वद्विशदौ निर्मलौ चलनौ पादौ यस्याः सा। नालिकवरं प्रधानकमलं समध्यासीना अधिरोहन्ती अधिरूढा वा । अम्भोभृतः पय:पूर्णो यो घनो मेघस्तस्य निभा कृष्णवर्णवात्समा । अम्भोधितनयासमाना लक्ष्मीतुल्या आल्यः सख्यो यस्याः। विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा येऽलयो भ्रमरास्तैः कबरं मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ॥ चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥ यो नेमिजिनो लक्षसंख्यं लक्षप्रमाणमूर्जितराजक बलवद्राजवृन्दं रणमुखे चिक्षेप बभञ्ज । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षाममुपचितम् । हे जन, तं नेमि नम । किंभूतम् । भासमानं कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा । अहसं हास्यमुक्तम् । Page #161 -------------------------------------------------------------------------- ________________ काव्यमालो। राजीमत्या राजकन्यायाः प्रव्रज्याग्रहणेन मनोरथविफलीकरणात्तापम् पश्चात्तु मुक्तिसुखप्रदम् । नम्राणां निवृति मुक्तिं सुखं वा करोतीति । यश्च स्वामी यदूनां यादवानां दक्षां राजी श्रेणिं अतीता अतिक्रान्ता आपदो यया सा तामतीतापदं चक्के कृतवान् । नेमि किंभूतम् । अजनस्य भया कान्त्या समानं तुल्यं महस्तेजो यस्य ॥ प्रात्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवा द्या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ ८६ ॥ या उदितमुदयं प्राप्तं ज्यायोऽपि अतिप्रौढमपि राज्यं रज इव विहाय प्राबाजीत् प्रत्रज्यामग्रहीत् । किंभूता। जितं राजकं राजसमूहो यया सा । संसारमहोदधौ भवमहार्णवेऽपि हिता सुखकारिणी । शास्त्री शिक्षयित्री । यस्याश्च सर्वतः सर्वासु दिक्षु सारमहो सारतेजो दधाव प्रससार । किंभूतम् । पिहिता आच्छादिता आशास्त्रियो दिग्वनिता विहाय आकाशं च येन तत् । अदितमखण्डितम् । सा जिनानां राजी भवायासं संसारक्लेशं नोऽस्माकं हरतु ॥ कुर्वाणाणुपदार्थदर्शनवशाद्भावत्प्रभायास्त्रपा___ मानत्या जनकृत्तमोहरत मे शस्तादरिद्रोहिका। अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका ॥ ८७ ।। हे जिनपते, तव भारती वाणी मे मम अरिद्रोहिका बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्धयात् । किंविशिष्टा । अणवः सूक्ष्माः पदार्थी जीवाजीवादयस्तेषां दर्शनवशात्प्रकाशनात् भास्वत्प्रभायाः सूर्यकान्तेस्त्रपां लज्जां कुर्वाणा । आनत्या प्रणामेन हेतुभूतया जनानां कृत्तश्छिन्नो मोहो रतं च येन तस्य संबोधनम् । शस्ता प्रकृष्टा अदरिद्रा आन्या ऊहास्तको यस्याः सा अदरिद्रोहिका । अक्षोभ्या अपराभवनीया । प्रोन्मादिनां दर्पवतां परवादिनां मानस्याहंकारस्य त्याजनं मोक्षणं करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे ईश नेतः ॥ हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागम द्विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लस द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ ८८ ।। यस्या अम्बाया जनो लोको विश्वेन जगता सेवितयोस्ताम्रयो रक्तयोः पादयोश्चरणयोः परतां तदेकशरणतामभ्यागमज्जगाम साम्बा नोऽस्माकं भूतिं संपदं वितनोतु । किंभूता। हस्ते आलम्बिता चूतलुम्बिरेव लतिका यया सा । वाचा वाण्या रिपूणां त्रासं करोतीति । अर्जुनं काञ्चनं तद्वद्रुचिः कान्तिर्यस्याः सा । सिंहे कण्ठीरवेऽधिरूढा आसीना । उल्लसन् प्रसरन् विश्वासो यस्माद्यस्य वा । विततो विपुलो य आम्रपादपश्चूतवृक्षस्तत्र रता। चारिणौ 'विहरणशीलौ पुत्रौ यस्याः सा । असकृन्निरन्तरम् ॥ Page #162 -------------------------------------------------------------------------- ________________ चतुर्विशतिजिनस्तुतिः। १५७ मालामालानबाहुर्दधददधदरं यामुदारा मुदारा ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजी पत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ ८९ ॥ मा मां पातात् नरकादिपतनात्पाताद्रक्षतात् । स पार्श्वस्त्रयोविंशो जिनः । किविशिष्टः । मालां सजं दधत् दधानः । यां मालामलीनां भ्रमराणामाली पटली उदारा प्रचुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थ लीना श्लिष्टा सती अदधत्पीतवती । किंभूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः । आलानववाहू यस्य सः । सुष्ठ उचिता या उमा कीर्तिस्तया चितो व्याप्तः । रुचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुः शरीरं आपत्रा विपदो रक्षिका । किंभूता। देवानां संबन्धिनी या राजीवराजी वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पार्श्वः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रौढो रखो देशनाध्वनिर्यस्य सः। नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो । प्रेरको न भवतीत्यर्थः ॥ राजी राजीववका तरलतरलसत्केतुरङ्गत्तुरङ्ग_ व्यालव्यालमयोधाचितरचितरणे मीतिहृयातिहृद्या । सारा साराजिनानामलममलमतेर्बोधिका माधिकामा दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥ ९० ॥ राजी श्रेणी राजीववत्कमलवद्वकं यस्याः सा । तथा तरलतरलसत्केतवः कम्पविराजमानध्वजा रङ्गतां चलतां तुरङ्गाणां व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः कृताधिरोहणा वा ये योधाः सुभटास्तैराचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्रामखत्र या भीतिर्भयं तां हरतीति सा । या अतिहया अत्यन्तहृदयंगमा । सारा उत्कृष्टा । सा यच्छन्दनिर्दिष्टा । आरादूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् । अलमत्यर्थम् । अमला मतिर्यस्य तस्य बोधिका बोधजनका । मा माम् अधिको यो आमो रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्च कालाननं यममुखं मरणं च जननं च जरा च त्रासश्च मानव न विद्यन्ते व्याध्यादयो यस्यां सा । असमाना गुणैरसदृशा या जिनानां राजी.रणे भीतिहृत्सा अव्यादिति संबन्धः ॥ सद्योऽसद्योगभिवागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ ९१ ॥ जिनराजानां संबन्धिनी जैनराजी वाग्वाणी ते तुभ्यं मुदं देयात् । किं विशिष्टा । सद्यः शीघ्रं असन्तो ये योगा मनोवाकायव्यापारास्तान् भिनत्तीति सा । अमलानां गमानां १४ का० स० गु० Page #163 -------------------------------------------------------------------------- ________________ १५८ काव्यमाला लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतान्नवीनानर्थान् दधातीति सा । इह पृथिव्याम् । ततं विपुलं हतं ध्वस्तं तमोऽज्ञानं पातकं पाप्मा यया सा । अपातः पतनरहितंः कामश्च यया । यद्वा पृथग्विशेषणम् । न विद्येते. पातकामौ यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा खामिनी । त्रियो नार्यो नरा मास्तेषां हृदयं हरतीति । अयंशो रुणद्धीति । न बाधते इत्यबाधिका । वा समुच्चये । आदेया ग्राह्या । मनुज मानवमनु लक्ष्यीकृत्य जरां विस्रसां त्याजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतखात् ॥ . याता यां तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता . पारिं पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भूषणाभीषणा भी हीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहामदेहा ।। ९२ ॥ याता प्राप्ता देवी । तारमुज्वलं तेजो यस्याः सा । सदसि सभायम् । सन्तं शोभनमसिं बिभर्ति सा । कालाः कृष्णाः कान्ता रुचिरा अलकानामन्ताः प्रान्ता यस्याः सा । अपगता अरयो यस्मात्. तमप्रारिं पारिन्द्रराजमजगरेन्द्रम् । सुरवाः सुशब्दा या सुरवध्वो देवकान्तास्ताभिः पूजिता । अरं शीघ्रं जितमारमरिसमूहो येन । सा यच्छ. ब्दादिष्टा त्रासाद्भयात्रायतां रक्षताम् । त्वां भवन्तम् । अविषमाः सौम्या विषभृतः सर्पा भूषणं यस्याः सा । तथा अभीषणा अरौद्राकारा भिया भयेन हीना त्यक्ता । अहीनो नागपतिस्तस्याश्या प्रधाना पत्नी अग्र्यमहिषी । चिरोढेत्यर्थः । कुवलयानां वलयं समूहस्तद्वच्छयामो देहो यस्याः सा । अमदा मदरहिता ईहा चेष्टा यस्याः सा । या सदसिः पारिन्द्रराज प्राप्ता सा अहीनाय्यपत्नी त्रासात्रायतामिति संबन्धः ॥ नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे धरित्रीकृतावन वरतम संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाग्नि क्षमालंकृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव लीलापदे हे क्षितामो हिताक्षो भवान् ।। ९३ ।। नमताममराणां शिरोरुहेभ्यः केशेभ्यः खस्ताः सामोदानां निर्निद्राणां विकसितानां मन्दाराणां या मालास्तासां रजसा परागेण रञ्जितांहे पाटलितचरण । धरित्र्या भुवः कृतावन विहितरक्षण । वरतम प्रधानतम । संगमनाम्नो देवस्य संबन्धिनी उदारा तारा उदितानङ्गा उद्गतमरा अथवा वरतमः संगमः समागमो यस्याः सा वरतमसंगमा उदारंतारा अदीनकनीनिका उदितानङ्गा उद्तस्मरा या नार्यावली नारीणां पतिस्तस्यालापेन जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि इन्द्रियाणि यस्य स भवान् खम् मम वितरतु हे वीर 'जिन निर्वाणशर्माणि मोक्षसुखानि । जातावतारोऽवतीर्णः । Page #164 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनस्तुः । १५९ उत्पन्न इत्यर्थः । धराधीशः क्षितिपतिर्यः सिद्धार्थस्तस्या धानि गृहे । कथंभूते । क्षमालंकृतौ भवोऽलंकारभूते । अनवरतमजस्रम् । हे असङ्गमोद सङ्गमोदाभ्यां रहित ।.यद्वा सङ्गाद्यो मोदः स नास्ति यस्यासौ असङ्गमोदः । खतन्त्रसुख इत्यर्थः । हे अरत अनासक्तः । हे अरोदित रोदनहीन । शोकरहितेत्यर्थः । हे अनङ्गन अङ्गनारहित । हे आर्याव अर्यानवति यस्तदामन्त्रणम् । धाम्नि कथंभूते । लीलानां विलासानां पदे स्थाने । हे इत्यामन्त्रणे । भवान् कथंभूतः । क्षितामः क्षपितरोगः । हे हित हितकारिन् । पुनः कथंभूतः । अक्षोभवान् न भयान्वितः । हे वीर, भवान्मम निर्वाणशर्माणि वितरलिति संबन्धः ॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपझेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साहतां संहतिर्भक्तिभाजां भवाम्भोधिसंभ्रान्तभव्या'चलीसेवितासदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्रपरेताहितारोचितम्९४ .. समवसरणं धर्मदेशनास्थानं यस्याः अत्र अस्मिन् अराराट् भृशमराजत सा अर्हता ततिर्भक्तिभाजां समीहितं वितरतु । समवसरणं कथंभूतम् । स्फुरत् केतुर्धर्मध्वजश्चक्रं धर्मचक्रं आनको देवदुन्दुभिः अनेकपद्मानि सुरकृतकमलानि इन्दुरुक्चामराणि चन्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयी प्राकारत्रयं प्रधानावनमदशोकद्रुमः पृथिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा कान्तिस्तया गुरु महाहम् । पुनः किंभूतम् । परेता अपगता अहिताः शत्रवो येषां तैरारोचितं शोभितम् । अथ वा परा प्रधाना इताहिता गतशत्रुरित्यहंतां संहतेर्विशेषणे । आरोचितं शोभितम् । संहतिः कथंभूता । भवाम्भोधौ संसारसमुद्रे संभ्रान्ता आकुलीभूता या भव्यावली तया सेविता । पुनः कथंभूता । सदवना सोपतापा च मदशोकाभ्यां पृथ्वी वितता च या न भवंति । ईक्षणानि चक्षुषि ज्ञानानि वा प्राति पूरयति सा । यशसा भातानि शोभिनानि पत्राणि वाहनानि प्रभजन्ते ये उर्वराराजः पृथ्वीपतयः परेताः पिशाचा अहयो नागास्तारा ज्योतिष्कास्तेषामुचितं योग्यम् । समवसरणविशेषणमिदम् ॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गेर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तरामहति मतिमते हि ते शस्यमानस्य वासं सदा तन्वतीतापदानन्दधानस्य सामानिनः ।.. जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जजनोत्तारनौ रतीतीर्थकृत महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सा मानि नः ॥ ९५॥ Page #165 -------------------------------------------------------------------------- ________________ १६० काव्यमाला । हे तीर्थकृत्, ते तव मते शासने भारती विश्ववर्ये निकाय्ये वासमाश्रयम् । मोक्षमित्यर्थः । वितीर्यात्तरामिति संबन्धः । भारती कथंभूता । परशासनध्वान्तसूर्यसमा । भूरिंभजैरर्थविकल्पैर्गभीरा । निकाय्ये कथंभूते । अहतिमति अविद्यमानहनने । मते शासने आधारभूते । यद्वा अहति अविद्यमानघातम् । एतद्वासस्य विशेषणम् । अतिमते अतिशयेनाभिप्रेते । हि स्फुटम् । ते तव । शस्यमानस्य स्तूयमानस्य । सदा नित्यम् । अतनवो बहुतरा अतीता आपदो यस्य तस्यामन्त्रणं अतन्वतीतापत् | आनन्दधानस्य प्रमोद - स्थानस्य । सा इत्थंभूता । अमानिनो निरहंकारस्य । नौस्तरणिः । महति विस्तीर्णे । हे हित प्रियकारिन् । यद्वा मतिमता मनीषिणा ईहिता । ईशस्य स्वामिनः । वा इवार्थे भिन्नक्रमश्च । मानस्य पूजायाः संसद् वा समेव । तापदानं संतापखण्डनमातन्वती ! सामानि प्रियाणि दधानस्य । नोऽस्माकम् ॥ 1 सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोत्र हे परमवसुतरङ्गजा रावसन्नाशिताराति भाराजिते भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटा संकटोत्कृष्ट कण्ठोद्धटे संस्थिते भव्यलोकं त्वम म्बाम्बिके परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारतारालक्षेमदा ॥ ९६ ॥ हे सवेगन देववधूजन स्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे कर्बुरे क्रमाम्भोरुहे चरणकमले यस्तास्तस्याः संबोधनम् । परमवसुतराङ्गजा अतिशयेन परमवसू परमतेजसो अङ्गजौ पुत्रौ यस्याः सा । रावेण ध्वनिना सम्यग् नाश्रितोऽदर्शनं नीतः अरातिभारः शत्रुवर्गो यया सा । अजितेऽपराभूते । भासिनी भासनशीला | हारतारा हारोज्ज्वला । बलं क्षेमं च ददाति या । सिंहे कथंभूते । क्षणरुचिरुचिराभिर्विद्युद्दीप्तिभिरिव रुचिराभिः उर्वीभिः चञ्चन्तीभिः सटाभिः संकट उत्कृष्टो यः कण्ठस्तेनोद्भटे । हे अम्ब मातः । हे अम्बिके देवि । परमुत्कृष्टमव रक्ष । सुतरामत्यर्थम् । गजारौ सिंहे । असन्ना अखिना । संस्थिता । शितस्य तनूप्रकृतस्य आरस्येव पित्तलस्यव अतिशयेन भा यस्याः सा । राजिते भ्राजिते । भासमानहिमनक्षत्रधवले । अमदा मदरहिता । हे अम्बिके सिंहे संस्थिते सुतरां त्वं भव्यलोकमवेति संबन्धः ॥ इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विंशतिजिनस्तुतिः । Page #166 -------------------------------------------------------------------------- ________________ विक्रेयसंस्कृतपुस्तकानि। श्रीलौगाक्षिभास्करप्रणीतः अर्थसंग्रहः। श्रीमत्परमहंसरामेश्वरशिवयोगिभिक्षप्रणीतमीमांसार्थसंग्रहकौमुदीव्याख्यासहितः। मूल्यं 14 आणकाः, मार्गव्ययः 2 आजको / शास्त्रदीपिका। सोमनाथप्रणीतमयूखमालिकाव्याख्यासंवलिता। प्रत्यधिकरणविभक्तजैमिनीयन्यायमालायुता / अस्याः प्रथमस्तकंपादश्च रामकृष्णप्रणीतयुक्तिनेहप्रपूरणीसिद्धान्तचन्द्रिकाव्याख्यायतः स्टोपहासिद्धान्तचन्द्रिकागूढार्थ विवरणसहितश्च / मूल्यं दारू., मार्ग० 1 रू. मीमांसान्यायप्रकाशः। (आपोदेवी)। मूल्यं 10 आणकाः, भार्गव्ययः 2 आणको / मीमांसाशास्त्रसारः। निधीतान्तमीमांसासिद्धान्ततत्त्वार्थप्रकाशः। मूल्यं 1 रूप्यकः, मार्गव्ययः 4 आणकाः / पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाधिपतिः