SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। शुभसुभगिमभङ्गीभाजनं भक्तिभाजा__ मभिमतफलकल्पानोकहः शोकहर्ता ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वखचौरै र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां महिम तलिनयन्त(?)स्त्वत्प्रभावस्य लेशाः । प्रसृमरकलिकालक्षोणिपालप्रताप प्रतिहतिकृतहस्ताः खस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं तुहिनति दहनोऽहिः पद्मिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो भवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ ५ ॥ नतशतमखचूडारत्नरोचिष्णुरोचिः कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैर्न कैः कै रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकृल्लोचनानां ___ कलितकलिवितण्डं मण्डपाखण्डितश्रि । तुलितसुरविमानं मानवानाममानां दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः __क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां दधति खलु सदा यद्नेहदासत्वमेते ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy