SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पार्श्वस्तवः । अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियच्चिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा स्म विरज्यतामुदयिता दयितादयि तावकात् ॥२४॥ च्युतजनुव्रतकेवलनिर्वृतिक्षणदिनाददतां मुदमार्हता । व्यरचि यैरुपयत्रिदशैदृशां नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्तिभित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८ ॥ करकृताम्रफला पृणती जिनप्रभवतीर्थमिभारिमधिष्ठिता । हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥ इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तकः । श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः। अधियदुपनमन्तो यात्रिका प्रीतिपात्रा अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्घिस्ता(स्था)नक्लुप्तावतार स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १ ॥ जिनविभुरविभाव्यं वैभवं भूरि बिभ्र द्भवतु भुजगभोगाभोगविभ्राजिमौलिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy