SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो। किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया ___ वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ ५३ ।। रोढुं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते ___ भेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः ॥५४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्धा क्रोधपयोनिधिं कुटिलतालकां क्षपित्वा क्षणात् । नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरैर्दारैर्विहारैर्वरैः केयूरैर्मणिरत्नचारुशिखरैर्दारैरुदौरैश्च किम् । प्राणान्पद्मदलानवारितरलाञात्वा जवाज्जीव रे दानं देहि विधेहि शीलतपसी निर्वेदमाखादय ॥ ५६ ॥ ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्यं वपु स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोर्बलम् । रे रे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ ५७ ॥ श्रीखण्डपादपेनेव कृतं स्वं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ॥ ५८ ॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा किं पीतेन सुधारसेन बहुधा खाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ५९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy