SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 4o काव्यमाला। मां बाल्यादपि निर्निमित्तनिबिडप्रोद्भूतसख्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा प्रालेयोत्करवद्भवन्त (द्धत्तं त) मनया द्रक्षाम्यहं त्वां कथम् ॥६०॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृल्लोभान्न चान्यो रिपु- युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ॥ औचित्यांशुकशालिनी हृदय हे शीलाङ्गरागोज्वलां श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराकिताम् । सबोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ ६२ ।। यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नति न व्याधिन धनं तथैव न वधो ध्यानं न नाध्येषणा। नो दास्यं न विलासरम्यवदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ ॥ तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवा न्संपूर्णेन्दुमुखीप्रिया प्रियमहीमाधुर्यहृया तथा । ............................................... || ६४ ॥ ..........."हृदये। मन्त्ररहस्योद्भारी मंत्रीव स दूरतस्त्याज्यः ॥ ६५ ॥ धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके ___ कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि । अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः ॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy