SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्रादेऽपि ताराः स्फुटं हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥ ६७ ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च तथा शीलमखण्डितम् ॥ ६८ ॥ मायया राजते वेश्या शीलेन कुलबालिका । न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ ६९ ॥ यावद्याधिविबाधया विधुरतामङ्गं न संसेवते यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी । तावन्निष्कलनिश्चला मलपदं कर्मक्षयायाधुना ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे ॥ ७० ॥ अज्ञानावृतचेतसो मम महाव्यामूढतां ......... कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि द्रुतं मां पुण्याप्त गुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ॥ ७१ ॥ तन्नो नागपतेर्भुजंगवनिताभोगोपचारैः परै स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल । तन्नो वज्रधरस्य देववनिताक्रीडारसैर्निर्भरै र्यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् ॥ ७२ ॥ मध्यक्षामतया योषित्तपः क्षामतया यतिः । मुखक्षामतया चाश्वो राजते न तु भूषणैः ॥ ७३ ॥ तन्व्या श्रोत्ररसा [ यनेन वचसा ] सप्रेम संभाषितः सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान्न तिला मात्रमपि यः संक्षोभितुं शक्यते रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः ॥ ७४ ॥ Jain Education International ८१ For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy