SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। आताम्रायतलोचनातुरमिदं न्यकारवाङ्गिन्दितं बद्धभ्रूकुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति स्मरविह्वलीकृतहृदो ही कामिनां मूढता ॥ ७५ ॥ कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थमानमहः परं यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ ७६ ।। क कफात मुखं नार्याः क पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ ७७ ॥ पाशे कुरङ्गनिवहो न पतत्यविद्वा न्दाहात्मतामकलयब्शलभः प्रदीपे । जानन्नहं पुनरमून्करिकर्णलोला न्भोगांस्त्यजामि न तथापि क एष मोहः ॥ ७८ ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योषिदेव परा जरा ॥ ७९ ॥ धिकंदर्प जगत्रयीविजयिनो दोःस्थामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र ......भवान्सर्पजराराक्षसी___ वक्रान्तः पतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ।। ८० ।। तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः । यस्यां मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ॥ ८१ ॥ रेरे मोहहताश तावकमिदं धिक्पौरुषौज्जृम्भितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy