SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं ___ शौटीर्यं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ ८२ ॥ रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ॥ ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४ ।। याच्ञायै वचनक्रमं रचयतः पादौ परिभ्रान्तये नेत्रे रोषकषायितानि वदनान्यालोकितुं खामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं तत्किं हन्त परिश्रमोऽपि निकटीभूयं(?) न संपन्नवान् ॥ ८५ ॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाज्जनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शकतेऽपि ॥ ८६ ॥ बन्धो क्रोध विधेहि किंचिदमरं खस्याधिवासास्पदं भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हंहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि ॥ ८८ ॥ विश्वाः कला परिचिता यदि तास्ततः किं तप्तं तपो यदि तदुग्रतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि मन्तर्विवेककलिका यदि नोल्ललास ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy