SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८४ काव्यमाला। स्फूर्जल्लोभकरालवत्रकुहरो हुंकारगुञ्जारवः कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । खैरं यत्र स बम्भ्रमीति सततं मोहाह्वयः केसरी __ तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ॥९॥ एकः स वैवखत एव देवः शौटीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ॥ ९१ ॥ एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुष्व मयि वक्रविलोकितानि । उन्मीलति स्म ललिताझ्यधुना स एव मन्मानसे शुचिविवेककलाविलासः ॥ ९२ ।। प्रत्यक्षो नरकः स एष वसुधापीठे परायत्तते त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी()वशवर्तिनोऽपिविषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्कुरचर्विताङ्गलतिकः किं नाम नैवोज्झति ॥ ९३ ।। ता एवैताः कुवलयदृशः सैष कालो वसन्त___ स्ता एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किंतूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानी हसति हृदयं यौवनोन्मादलीलाः ॥ ९४ ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं खकीयगुणदोषविज्ञानम् ॥ ९५ ॥ यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां सिद्धिं याति कथं नृधान्यनिकरस्तस्मिन्कुपात्रे श्रितः ॥ ९६ ॥ हे मोहाहत जीव हुं शृणु वचः श्रद्धास्ति चेत्कथ्यतां प्राप्तं किंचन सत्फलं भवमहाटव्यां त्वया भ्राम्यता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy