SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हि किं शून्यं पश्यसि पङ्गुवन्ननु गतं नोपक्रमे तिष्ठति ।। ९७ ॥ शौक्ये हंसबकोटयोः सति समे यद्वद्गतावन्तरं कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । प्रैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्धता मानुष्ये सदृशे तथार्यखलयोर्दूरं विभेदो गुणैः ॥ ९८ ।। त्वदृष्टिपातनिहताः खलु तेऽन्य एव धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता स्तत्किं विडम्बयसि मन्मथविभ्रमैः खम् ॥ ९९ ॥ संपत्स्यते मम कदाचन तद्दिनं किं सध्यानरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥ १०० ॥ ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां खयं सिद्धैव भारती ॥ १०१ ।। सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः _श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः ___ पद्मानन्दशतं(इति) व्यधत्त सुधियामानन्दसंपत्तये ॥ १०२ ॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये श्रीखण्डद्रवलेपने न च न च द्राक्षारसाखादने । आनन्दः स सखे न च क्वचिदसौ किं भूरिभिर्भाषितैः पद्मानन्दशते श्रुते किल मया यः खादितः खेच्छया ॥१०॥ इति श्रीपद्मानन्दप्रणीतं वैराग्यशतकम् । ८ का० स० गु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy