________________
काव्यमाला।
मिथ्या त्वन्निवयं (१) पदाहतिवशाद्भो गाहसे त्वं यत
श्वेतस्तद्गतशङ्क साङ्कवृषवन्निन्धं परिभ्राम्यसि ॥ ४६ ॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे
नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपातं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये
रे जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः ॥ ४७ ॥ क्रोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं __ माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीव्रोत्कटकूटचित्तवशग खान्त त्वया हारितं
हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ १८ ॥ बाल्ये मोहमहान्धकारगहने ममेन मूढात्मना
तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना। वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना __ मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ।। ४९॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवीं गाहसे
मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले
रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (१) मे तदा ॥ ५० ॥ अज्ञानाद्रितटे कचिवचिदपि प्रद्युम्नगर्तान्तरे
मायागुल्मतले कचित्वचिदहो निन्दानदीसंकटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी___ मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ५१ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं
गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि
यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ ५२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org