SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । दुष्पापं मकराकरे करतलाद्नं निमग्नं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ ४० ॥ येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना . .. सयापारवियोजितेन परमं निर्वाणमप्याप्यते । प्रीतिस्तेन हहा सखे प्रियतमाववेन्दुरागोद्भवा क्रीता खल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥ ४१ ॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यसनं । कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भन्यो द्रव्यसमर्जने किल महारम्भोद्यमः किं तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं , लोभोन्मूलनहेतवे खविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं दुष्प्रापो नृभवो मया हतधिया हा हारितो हारितः ॥ १३ ॥ सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गुरं ... कासश्वासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । प्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः ___ कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः ॥ ४४ ।। संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्यानया सर्वथा रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ ४५ ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्न्या धुरं - पृष्ठेनोपचितेन नैव वहसे प्रोच्चैरहिंसाभरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy