SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यमाला | तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ॥ ३२ ॥ बालो यौवनसंपदा परिगतः क्षिप्रं क्षितौ लक्ष्यते वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोsपि कापि गतः कृतान्तवशतो न ज्ञायते सर्वथा पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं ग्रासाभाववशान्न संचरति यद्रङ्कोऽपि तेषां पुनः ( 3 ) । येsभूवन्विमुखाः खकुक्षिभरणे तेषामकस्मादहो यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो । मृत्युना नीयमानस्य पुण्यपापे परं पुरः || ३५ ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोह प्रसरावरोधनविधिं सद्ध्यानतो लीलया नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६ ॥ बद्धा येन दशाननेन नितरां खट्रैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन खदोललया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः कथा ॥ ३७ ॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोके निगद्यते । रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्र गतिभिः संचारितस्योद्भटैरत्युग्रभ्रममुद्गराहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्चोरव न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy