SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली। पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा वित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः ॥ २१ ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते ___ यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिनमस्यत्ति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स सङ्घोऽर्च्यताम् ॥२२॥ लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । खःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः सङ्घ गुणसङ्घकेलिसदनं श्रेयोरुचिः सेवते ॥ २३ ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिक गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः सङ्घः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ २४ ॥ अथाहिंसाप्रक्रमः। क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवो दन्वन्नौर्व्यसनामिमेघपटली संकेतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकसःप्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ।। २५ ॥ यदि ग्रावा तोये तरति तरणिर्यधुदयते _प्रतीच्या सप्तार्चिर्यदि भजति शैत्यं कथमपि । यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः कापि सुकृतम् ॥ २६ ॥ स कमलवनममेर्वासरं भावदस्ता दमृतमुरगवक्रात्साधुवादं विवादात् । १. 'सुखं' ख. २. 'निःश्रेणी त्रिदिवौकसां' क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy