SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४० काव्यमाला। रुगपगममजीर्णाजीवितं कालकूटा दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं खामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाध्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्टान्तरम् ॥ २८ ॥ अथासत्यप्रक्रमः । विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पंथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ २९॥ यशो यस्माद्भस्मीभवति वनवहेरिव वनं निदानं दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्याच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ।। असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१ ॥ तस्यामिर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिर्गृहमहिर्माल्यं मृगारिम॒गः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सृगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ।। ३२ ॥ अथ स्तेयप्रक्रमः। तमभिलपति सिद्धिस्तं वृणीते समृद्धि स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः । स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ ३३ ॥ १. मार्गोपयुक्तं भोजनम्. शम्बलमिति यावत्. २. आतपे छायेव. ३. दुष्टगजः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy