SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं पूर्ण भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥ १६ ॥ अथ जिनमतप्रक्रमः । न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्म नाधर्मं न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ १७ ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयो निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ १८ ॥ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमव न्मित्रं शात्रववत्स्रजं भुजगवञ्चिन्तामणिं लोष्टवत् । ज्योत्स्ना ग्रीष्मजघर्मवत्स मनुते कारुण्यपण्यापणं - जैनेन्द्रं मतमन्धदर्शनसमं यो दुर्मतिर्मन्यते ॥ १९ ॥ धर्म जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मनाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यतज्जैन मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥ २० ॥ अथ संघप्रक्रमः। रत्नानामिव रोहण क्षितिधरः खं तारकाणामिव खर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । १. 'दमैः' क. २. स्वामिरहितसैन्यवत्. ३. 'जिनमतद्वारम्' ग. ४. 'सङ्घद्धारम ग. ५. 'रोहणः क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy