________________
सूक्तिमुक्तावली । सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः
खर्ग यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ ९॥ वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा
सौभाग्यादिगुणावलिर्विलसति खैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा
यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ १० ॥ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं
विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो
न मुञ्चत्यभ्यर्ण सुहृदिव जिनार्चा रचयतः ॥ ११ ॥ यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते ___ यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परन वृत्रदमनस्तोमेन स स्तूयते ___ यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२ ॥
अथ गुरुप्रक्रमः। अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । से सेवितव्यः खहितैषिणा गुरुः वयं तरंस्तारयितुं क्षमः परम् ॥ १३ ॥
विदलयति कुबोधं बोधयत्यागमार्थ ___ सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो
भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ १४ ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः
सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं
गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ १५॥ १. रोगः. २. इन्द्रसमूहेन. ३. 'गुरुद्वारम्' ग. ४. निर्दोषे. ५. 'स एक सेव्यः' क.
४ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org