SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३६ काव्यमाला | अथ धर्मप्रक्रमः । त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ ॥ ३ ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्लेन करोति मूढः । केशप्रबन्धेन स लब्धमब्धौ चिन्तामणिं पातयति प्रमादात् ॥ ४ ॥ स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्येवभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं यो दुष्प्रापं गमयति सुधा मर्त्यजन्म प्रमत्तः ॥ ५ ॥ ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणिं क्रीणन्ति ते रासभं ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया ॥ ६ ॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः । ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ ७ ॥ भक्ति तीर्थकरे गुरौ जनमते स च हिंसानृतस्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपोभावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ॥ ८ ॥ अथ पूँजाप्रक्रमः । पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । १. काष्ठभारम्. ४. साधुसमूहे. ५. 'पूजाद्वारम्' ग. क-पुस्तके तु प्रक्रमविभागो नास्ति. २. पर्वत तुल्यम्. 'गिरीन्द्रसदृशं' इति क-पाठः ३. मज्जन्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy