SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली। वृत्तात्समुल्लसितचित्तवचःप्रसूतेः __ श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं __लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (?) ॥ २५ ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता सर्व वस्तु विजानता शमवता येन क्षता कृच्छ्रता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥२६॥ इति श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । श्रीसोमप्रभाचार्यविरचिता (सिन्दूरप्रकरापरपर्याया) सूक्तिमुक्तावली। सिन्दूरप्रकरस्तपः करिशिरःकोडे कषायाटवी___ दावार्चिर्निचयः प्रबोधदिवसपारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव प्रोल्लासः ऊमयोर्नखातिभरः पार्श्वप्रभोः पातु वः ॥ १॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेनं किम् ॥ २ ॥ १. चक्रबन्धपद्यमेतत्. तत्र तृतीयवलये 'देवनन्दिकृतिः' इत्युद्भियते. २. अस्याः सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्. तत्र प्रथमं जयपुरीयविद्याविभागाध्यक्ष 'मास्टर ऑव् आर्ट्स' इत्युपाधिमण्डितश्रीयुतहरिदासशास्त्रिणां त्रयोदशपत्रात्मकं शुद्धं नातिनवीनं च क-संज्ञकम्. द्वितीयं संवेगिसाधुसत्तमशमदमादिभूषितनिष्परिग्रहश्रीशान्तिविजयाभिधानां जैनमुनीनां पत्रत्रयात्मकं प्राचीनं शुद्धं च ख-संज्ञकम्. तृतीयमपि पूर्वोक्तमुनीनामेव द्वादशपत्रात्मकं प्राचीनं नातिशुद्धं गुर्जरभाषासंकीर्णया कर्तृनामरहितया संक्षिप्तटीकया समेतं ग-संज्ञकम्. ३. पादयोः. ४. प्रथनेन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy