________________
काव्यमाला।
कुर्वन्तु भव्यनिवहस्य नभोगतानां
मङ्क्ष श्रियं कृतमुदं जनभोगतानाम् ॥ १९ ॥ संस्तूयसे शुभवता मुनिना येकेन
नीतो जिनाशु भवता मुनिनायकेन । नाथेन नाथ मुनिसुव्रत मुक्तमानां
मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ॥ २० ॥ चित्तेन मेरुगिरिधीर दयालुनासि
सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां
लक्ष्मीं करोतु मम निर्ममतापसानाम् ॥ २१ ॥ येनोद्धशृङ्गगिरनारगिराविनापि
नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदर्पदलनः क्षतमोहतान
स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ २२ ॥ गन्धर्वयक्षनरकिंनरदृश्यमानः
प्रीतिं करिष्यति न किं नरदृश्यमानः । भानुप्रभापविकसत्कमलोपमायां
पार्श्वः प्रसूतजनताकमलोऽपमायाम् ॥ २३ ॥ श्रीवर्धमानवचसा पैरमाकरेण
रत्नत्रयोत्तमनिधेः परमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि
वृत्तानि सन्तु सततं जनताहितानि ॥ २४ ॥
१. देवानां जनभोगस्य तानो विस्तारो यस्यां तां श्रियं भव्यनिवहस्य कुर्वन्तु. २. यकेन येन. ३. कथितप्रमाणाम्. ४. निःशेषेण मतामपस्यन्तीति निर्ममतापसास्तेषाम्. ५. उद्धशब्दः प्रशंसावचनः. प्रशस्तशिखरे गिरिनारि पर्वते. ६. इना कामे नापि. ७. मनुष्यमात्रदृष्टौ. ८. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्येन. ९. श्रीमहावीरखामिवाक्येन. १०. परमेणाकरेण खनिरूपेण. ११. परलक्ष्मीकरण. १२. जनतातो बहिर्भूताः. अलौकिका इत्यर्थः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org