SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सिद्धिप्रियस्तोत्रम् । खर्गापवर्गसुखपात्र जिनातिमात्रं ___ यस्त्वां स्मरन्भुवनमित्र जिनाति मात्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवीं चैंतिकान्तकान्ताम् ॥ १४ ॥ जन्माभिषेकमकरोत्सुरराजनामा __ यस्याश्रितो गुणगणैः सुरराज नामा । धर्मः करोत्वनलसं प्रति बोधनानि __सिद्ध्यै मनः सपदि संप्रति वो धनानि ॥१५॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतपो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ १६ ॥ कुन्थुः क्षितौ क्षितिपतिर्गतैमानसेनः __ पूर्वं पुनर्मुनिरभूद्धतमानसेनः। योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधद्धर्युदयानि धीनाम् ॥ १७ ॥ या ते शृणोति नितरामुदितानि दानं ___ यच्छत्यभीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं जिनौर गुणभाजन कोपि" तापि ॥ १८ ॥ मल्लेर्वचास्यनिकृतीनि संभावनानि धर्मोपदेशमकृतीनि संभावनानि । १. जीर्यते वृद्धो भवति. २. मां मोक्षलक्ष्मी त्रायते मात्रस्तम्. ३. मुक्तिप्रभो. ४. हे व्रतिक व्रतदानदक्ष, अन्तकान्तां यमस्य विनाशकां पदवीम्. ५. ना पुरुषो गुणगणैः अमा सह सुछु रराज. ६. गता कामिना नीतिर्यस्मात्तपसः. ७. अगता न प्राप्ता कामिन्य ईतयश्च यत्र तादृशं पदम्. ८. अप्रमाणा सेना यस्य. ९. आगामिवाञ्छाम्. १०. हे जिन, हे अर. ११. कोपयुक्तं तापयुक्तं च चित्तं नो करोति. १२. भावनया सहितानि. १३. सभाया अवनानि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy