________________
३२
काव्यमाला |
चन्द्रप्रभ प्रभजति स्म रेमा विना शं दोर्दण्डमण्डितरति स्मरमाविनाशम् ॥ ८ ॥
श्री पुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां
स्थानं व्यधायि हृदये तेनुना सुराणाम् ॥ ९ ॥ श्रीशीतलाधिप तवाधिसभं जनानां
भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् ।
प्रीतिं करोति विततां सुरसारमुक्ति
मुक्तात्मनां जिन यथा सुरसार मुक्तिः ॥ १० ॥ पादद्वये मुदितमानसमानतानां
श्रेयान्मुने विगतमान समानतानाम् । शोभां करोति तव कांचन भा सुराणां देवाधिदेव मणिकाञ्चनभासुराणाम् ॥ ११ ॥ घोरान्धकारनरकक्षतवारणानि
श्रीवासुपूज्यजिन दक्ष तवरणानि ।
मुक्त्यै भवन्ति भवसागरतारणानि
वाक्यानि चिंतंभवसागरतारणानि ॥ १२ ॥ भव्यप्रजाकुमुदिनी विधुरञ्जनानां
हन्ता विभासि दलयन्विधुरं जनानाम् । इत्थं खरूपमखिलं तव ये विदन्ति
Jain Education International
१२
राज्यं भजन्ति विमलेश्वर ते विदन्ति ॥ १३ ॥
१. द्वितीयाबहुवचनम्. २. सुखम् ३. दोर्दण्डमण्डितरतेः स्मरस्य माया लक्ष्म्याश्च विनाशो यस्मिन्सुखे, मोक्षमुखमिति भावः. ४. सूक्ष्मेण ५. सुशब्दां रतिम्. ६. सुरसा-अरं-उक्तिः, ७. हे सुरश्रेष्ठ ८. मानत्वेन सहवर्तमानानाम् ९. अरणानि युद्धनिषेधकानि. १०. चित्तभवमायाः कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. ११. कल्मषाणाम्. १२. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. हस्तियुक्तं राज्यमित्यर्थः.
For Private & Personal Use Only
www.jainelibrary.org