SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जिनशतकम् । दर्प कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त क्रोधाद्वेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । आस्ते न्यस्तं लसद्भूयुगलमिति नृभिर्भाव्यते यत्र वक्र तद्रष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थ हताद्वः ॥ ६ ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै राख्योऽपि क्षीणदायों वसति वनभुवि ब्रीडयेवालखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं . दृग्भृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ ७ ॥ शान्तं श्वेतांशुशोचिःशुचिदशनमेशं स्यादृशां दृश्यमानं विश्वक्लेशोपशान्ति दिशदतिविशदैश्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्क दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ ८॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि .. क्षीयन्ते दक्षमणां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो- . रू/धोमध्यलोकश्रितजनसमितेरास्यमस्यत्वघं तत् ॥ ९ ॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी शुंभेर्दन्तैः सदन्तैर्वरविवरंभृतः प्रस्फुरद्ण्डैशैलात् । यस्माद्वौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तजैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥ १० ॥ दुर्बोधो दुर्विधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था नस्तश्रेष्ठौष्ठमुद्रो व्यसनशतशमप्रत्यलावाप्तिरुच्चैः । ...... १. मुनीन्द्रसंबन्धि. २. न शमशं दुःखम्. ३. स्पष्टतरयशःसमूहम्. ४. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. ५. सत्पर्यन्तैः. ६. विवरं मुखान्तरालं गुहाश्च. ७. गण्डा. वेव शैलाविति मुखपक्षे. ८. गङ्गा. ९. भाग्यहीनैः. १०. व्यसनशतशमे प्रत्यला समर्थी अवाप्तिर्यस्य सः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy