SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६४ काव्यमाला । सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वस्तत्त्वार्थं सत्वरं वस्त्वरयतु स गुरुबद्धुमध्यामरूपम् ॥ ११ ॥ किं बिम्बं पद्मबन्धोर्नहि दहनमहस्तन्मनाभेदमिन्दोस्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टुर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो मूर्यद्विभर्तुर्यर्देजितलपनं वस्तदेनस्तृणे ॥ १२ ॥ मान्ये मान्येन कारि स्वहगशुभतरात्रेतिकृष्णा तिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भ्रूलतारीलतारा । रक्षारक्षालिनी वेत्यवहितविधिना यत्र पापा पापा दव्यादव्यापैदास्यं तदमेरैणगुरोर्वः सदन्तं सदन्तम् ॥ १३ ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था मत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति । साक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा स्तद्वक्रं वैतरागं गुरुगद्गहनध्वंसनाद्वो विनोतु ॥ १४ ॥ श्रीमत्पौरंदरं मलिनघनवनं वनमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवर्णपरिकरः खातिरक्तो बुधप्रीः । स्वाभिर्यो दीधितीभिः कुरुत इतितैरामाचरन्नप्यचण्ड चण्डांशोः कर्म धर्माधिपलपनविधुर्वे विरुद्धं स बध्यात् ॥ १५ ॥ सणं सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजांनां राज्यापूर्णं सदन्तच्छदलसदसिकं काननं वनिनं वः । १. प्रकटतरम्. लपनं मुखम्. २. दाहात्मकतेजोविशिष्टम्. ३. इन्द्रस्य. ४. अजितस्य जिनस्य ५. हिनस्तु. ६. कृष्णादप्यति कृष्णा. ७. दिशां समूहे यद्गच्छत्सिततरं यशो यस्य. ८. कुटिलकनीनिका दृकू. ९. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. १०. अवहितेन धात्रा. ११. त्रपामापयति प्रापयति तस्मात्. १२. निरुपद्रवम्. १३. जिनस्य. १४. दन्तैः सहितम् १५. शोभनप्रान्तम्. १६. म्लानमपि. १७. प्रत्यक्षत्वेन यदीक्षणं तेन. १८. श्रवण कर्णौ श्रवणं च नक्षत्रम्. १९. शोभना आतिर्गतिः. २०. बुधान्प्रीणयति. २१. अतिशयेन. २२. मुखपक्षे बाणः शब्दः . २३. दन्तानां पक्षिणां च पङ्ख्या. २४. इवार्थे वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy