SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जिनशतकम् । ६५ संतप्ति सप्तसप्तेरव विषमगतेरागसोऽतीव गुर्वी मुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ १६ ॥ यद्यप्यन्तन धत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोया बहिरपि निरतैः पूर्वपृक्तरितीव । लग्नो रोगो गरीयस्यधरवरमणौ यत्र चित्रातिचण्ड त्रासात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ १७ ॥ दैवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः ___ पार्श्वस्थारक्तवर्णो भवति स लभते भूरिशोभा सुवृत्तः । स्थैर्य लब्धा समाधौ ब्रुवदिव युगलं तारयोर्लोचनान्त यत्रैवं राजते तन्मुखमुपशमयत्वाहतं गर्हितं वः ॥ १८ ॥ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्या दर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्योपसर्पि द्वितयमुपवहाधिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मली हेलया वः ॥ १९ ॥ राजीव त्वं निजा जयसि बहुरजः सत्कथं कथ्यतां मा___ मृलेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटलपोच्छलद्राणतो य द्वक्तीव व्यक्तमक्तानपयतु रजसा वस्तदर्हन्मुखाजम् ॥ २० ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्तिं व्यालोक्यालोकिताशः कृशतनुरविशत्खश्रियोऽन्तर्द्धिमिच्छुः । स ब्रीडत्वादिवेन्दुर्मुडविकट जटाजूटरौद्राटवीं वो यच्छत्वच्छिन्नवाञ्छं सुषममितमृतेराननं तन्मनोहृत् ॥ २१ ॥ लावण्यार्णःप्रपूर्णं चलहगनिमिषं राजहंसोपजीव्यं भ्राम्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् । १. पूर्वसंबन्धात्. २. अरुणत्वं मानसो विकारश्च. ३. निकटस्था अनुरक्ता वर्ण ब्राह्मणादयो यस्य. ४. शब्दतः. ५. रजसा पापेनातान् लिप्तान्. ६. शोभनम् . ७. गतमरणस्य जिनस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy