SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६६ काव्यमाला । सच्छङ्ख मानसाहू सर इव तरसा मानसस्यातनोति प्रहत्तिं वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ २२ ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्त- . खश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलमे __ यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ २३ ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखोली लालितालं |बलबलकुलोन्मूलिना शैलराजे प्रहन्ना लीलया वो दलयतु कलिलं लोलक्तजिनास्यम् ॥ २४ ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो __ गोभृद्गोत्रस्य हन्ता बलभिदहमपि त्वत्समानं तथैव । तस्माद्दविलेपं जहिहि हरिमितीवाहसत्सत्मितैर्य त्तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः । ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकृद्वैबुधानां विशुद्ध्या गुर्वी भाखसुवर्णावनरुचिखचिता चारुचामीकराद्रेः । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै रुल्लच्यालङ्घनीया बृहंदवमवने वैन्यवह्नीयतां वः ॥ १ ॥ १. परितोषम्. २. एतेन मुखेन आत्ता गृहीता या खश्रीः सूर्याचन्द्रमसोः स्वकीया शोभा तथा लन्धुमिच्छा तया आकुलमङ्गं ययोः. ३. विलोक्य. ४. अमलकलः पूर्णिमाचन्द्रस्तस्येवासमन्तालाञ्छनम्. ५. देवपतिः. ६. अत्यर्थ ललिता. ७. इन्द्रेण. ८. मेरौ. ९. पविं वज्रं त्रायते पवित्रः. १०. गोत्राख्यस्य कर्मण इति जिनपक्षे. ११. बलं संनहनाख्यं कर्म. १२. सकलोपद्रवान्. १३. वाणी. १४. ब्रह्म परमपदं तस्याधिभर्ता जिनः. १५. देवसमूहानाम्. १६. अवने रक्षणे या रुचिः, मेरुचूडापक्षे तु वनस्य रुचिस्तया खचिता. १७. सूर्यस्य किरणसीमाम्. १८. महतामवमानां पापानां वने. १९. दावानलायताम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy