________________
जिनशतकम् । इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थक ऋक्षनाथैः .
सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिजैः साधुभिः साधितार्थम् । गन्धर्वैर्गीतगर्भ कृतकरमुकुलैः श्रूयमाणानणीयो
जैनी गौौरवं वोऽतनुभुवनकुटीकोटरान्तःकरोतु ॥ २॥ या मैन्दारैरशोकैः प्रविकचसुमनःशोभितैर्भिक्षुवृ:. स्तुङ्गीरांगमानैः सततमुपचिता भारती वैतरागी । खच्छायाच्छिन्नतापा विधितशुभफलालंकृतारामलेखा__तुल्या कल्याणमाल्यैबहुभिरिह तनूभूषयत्वाशु सा वः ॥ ३ ॥ यूथैर्या संयैतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणे
गुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा
साधीयोधीधनरतिसमधिकतां सा क्रियात्सिद्धगीर्वः ॥ ४ ॥ संसारोदन्वदम्भस्यमितिमृतिमहोर्मिण्यगण्योद्भवौर्व
द्युद्धीमे लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्रायजिह्मवरूपा
निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥५॥ नाभीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या
दन्यद्वस्त्वित्यवेत्य खमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्धैः
सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमलं विजेतुम् ॥ ६ ॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मिन्वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् ।
१. साध्यस्यार्थस्य सिद्ध्यै धुता दितिः खण्डनं यत्र. २. मन्दं आरं अरिसमूहो येषाम्. ३. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषां तैः; भिक्षुपक्षे तु रागमानाभ्यां रहितैः. ४. उपवनराजीसमाना. ५. संयतास्तपखिनो बद्धाश्च. ६. अमितयो मृतयो मरणान्येव महान्तस्तरङ्गा यत्र.. ७. नौरिवाचरति. ८. या वागस्मिञ्जगति एकमेव वस्तु द्विप्रकारं द्विभेदं प्रकटयति प्रतिपादयति । कुतः । नयद्वन्द्वं नययुग्म द्रव्यास्तिकनयः पर्यायास्तिकनयश्च तस्मात् । एवमित्यनेन प्रकारेण । यन्मृदादिवस्तु द्रव्यादेशनयापेक्षया नित्यं तत्पर्ययादेशत इतरदनित्यम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org