SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६२ काव्यमाला। मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥ २५॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो ___ मॉ शक्त्या वियुक्तं सदलमपि जये वाञ्छतीत्युच्छलच्छूि । हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि__यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहतिं तत्तनोत्वाप्तवक्रम् ॥ १ ॥ भाखान्भाखानपि खैघृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो नेता नेतुं तनुत्वं तदतनिम मनो मोहयन्मानवानाम् । . मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डैितामूर्तिकीर्ते__ स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः ॥ २ ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च खभावा त्तुल्यर्द्धि स्पर्धयान्यं क्रमत इंतिसहीतीव धात्रा व्यधायि । मर्यादार्थ यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशनैः शाश्वतं तद्भवयः ॥ ३ ॥ सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा बिभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः खर्भवो याः समायुः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं ताखेवास्यं जिनस्य प्रणुदतु तदधं वः स्वरूपश्रियैव ॥ ४ ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्यार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टिं द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ ५ ॥ १. सदलं सपरिकरमपि. २. आप्तस्य जिनस्य मुखम्. ३. समर्थः. ४. अगुणं तमोगुणादिरहितमपि गुणानां सौन्दर्यादीनां धिष्ण्यम्. ५. खण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य. ६. अतिशयेन पृथु. ७. एव. ८. शं सुखम्. ९. शीघ्रम्. १०. वर्गोत्पन्नाः ११. समागताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy